श्रीनारायण उवाच ॥
माधवो बालकैः सार्द्धमेकदा हलिना सह ॥
भुक्त्वा पीत्वा च क्रीडार्थं जगाम श्रीवनं मुने ॥१॥
तत्र नानाविधां क्रीडां चकार मधुसूदनः ॥
कृत्वा तां शिशुभिः सार्द्धं चालयामास गोधनम् ॥ २ ॥
ययौ मधुवनं तस्माच्छ्रीकृष्णो गोधनैः सह ॥
तत्र स्वादु जलं पीत्वा वने च स महाबलः ॥ ॥ ३ ॥
तत्रैकदैत्यो बलवाञ्छ्वेतवर्णो भयङ्करः ॥
विकृताकारवदनो बकाकारश्च शैलवत् ॥ ४ ॥
दृष्ट्वा च गोकुलं गोष्ठे शिशुभिर्बलकेशवौ ॥
यथा ह्यगस्त्यो वातापिं सर्वं जग्रास लीलया ॥ ५ ॥
बकग्रस्तं हरिं दृष्ट्वा सर्वे देवा भयान्विताः ॥
चक्रुर्हाहेति सन्त्रस्ता धावन्तः शस्त्रपाणयः ॥ ६ ॥
शक्रश्चिक्षेप वज्रं च मुनेरस्थिविनिर्मितम् ॥
न ममार बकस्तस्मात्पक्षमेकं ददाह च ॥ ७ ॥
नीहारास्त्रं शशधरः शीतार्तस्तेन दानवः ॥
यमदण्डं सूयर्पुत्रस्तेन कुण्ठो बभूव ह ॥ ८ ॥
वायव्यास्त्रं च वायुश्च तेन स्थानान्तरं ययौ ॥
वरुणश्च शिलावृष्टिं चकार तेन पीडितः ॥ ९ ॥
हुताशनश्च वाह्नेन पक्षांश्चैव ददाह सः ॥
कुबेरस्यार्धचन्द्रेण छिन्नपादो बभूव ह ॥ 4.16.१० ॥
ईशानस्य च शूलेन बभूव मूर्च्छितोऽसुरः ॥
ऋषयो मुनयश्चैव कृष्णं चकुर्भियाऽऽशिषम् ॥ ११ ॥
एतस्मिन्नन्तरे कृष्णः प्रज्वलन्ब्रह्मतेजसा ॥
ददाह दैत्यसर्वाङ्गं बाह्याभ्यन्तरमीश्वरः ॥ १२ ॥
तत्सर्वं वमनं कृत्वा प्राणांस्तत्याज दानवः ॥
बकं निहत्य बलवाञ्छिशुभिर्गोधनैः सह ॥ १३ ॥
ययौ केलिकदम्बानां काननं सुमनोहरम् ॥
एतस्मिन्नन्तरे तत्र वृषरूपधरोऽसुरः ॥ १४ ॥
नाम्ना प्रलम्बो बलवान्महाधूर्तश्च शैलवत् ॥
शृङ्गाभ्यां च हरिं धृत्वा भ्रामयामास तत्र वै ॥ १५ ॥
दुद्रुवुर्बालकाः सर्वे रुरुदुश्च भयातुराः ॥
बलो जहास बलवाञ्ज्ञात्वा भ्रातरमीश्वरम् ॥ १६ ॥
बालकान्बोधयामास भयं किमित्युवाच ह ॥
तद्विषाणं गृहीत्वा च स्वयं श्रीमधुसूदनः ॥१७॥
भ्रामयित्वा च गगने पातयामास भूतले ॥
प्राणांस्तत्याज दैत्येन्द्रो निपत्य च महीतलम् ॥ १८ ॥
जहसुर्बालकाः सर्वे ननृतुश्च जगुर्मुदा ॥
हत्वा प्रलम्बं श्रीकृष्णो बलेन सह सत्वरम् ॥ १९ ॥
गोधनं चारयामास ययौ भाण्डीरमीश्वरः ॥
गच्छन्तं माधवं दृष्ट्वा केशी दैत्येश्वरो बली ॥ 4.16.२० ॥
वेष्टयामास तं शीघ्रं खुरेण विलिखन्महीम् ॥
मूर्ध्नि कृत्वा हरिं तुष्टो गगनं शतयोजनम् ॥ २१ ॥
उत्पात्य भ्रामयामास पपात च महीतले ॥
जग्राह स हरिं पापी चर्वयामास कोपतः ॥ २२ ॥
स भग्नदन्तो दैत्यश्च वज्राङ्गचर्वणादहो ॥
श्रीकृष्णतेजसा दग्धः प्राणांस्तत्याज भूतले ॥२३॥
स्वर्गे दुन्दुभयो नेदुः पुष्पवृष्टिर्बभूव ह ॥
एतस्मिन्नन्तरे तत्र पार्षदा दिव्यरूपिणः ॥ २४ ॥
तत्राजग्मुः स्यन्दनस्था द्विभुजाः पीतवाससः ॥
किरीटिनः कुण्डलिनो वनमालाविभूषिताः ॥ ॥ २५ ॥
विनोदमुरलीहस्ताः क्वणन्मञ्जीररञ्जिताः ॥
चन्दनोक्षितसर्वाङ्गा गोपवेषधरा वराः ॥ २६ ॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रह कातराः ॥
प्रदीप्तं रथमास्थाय रत्नसारविनिर्मितम् ॥ २७ ॥
भाण्डीरवनमाजग्मुर्यत्र सन्निहितो हरिः ॥
दिव्यवस्त्रपरीधाना रत्नालङ्कारभूषिताः ॥ २८ ॥
प्रणमय्य हरिं स्तुत्वा जग्मुर्गोलोकमुत्तमम् ॥
मुक्त्वा देहं परित्यज्य वैष्णवाः पुरुषास्त्रयः ॥
सम्प्राप्य दानवीं योनिं बभूबुः कृष्णपार्षदाः ॥ २९ ॥
नारद उवाच ॥
के ते च दिव्यपुरुषा वैष्णवा दैत्यरूपिणः ॥
कथयस्व महाभाग कृतं किं परमाद्भुतम् ॥ 4.16.३० ॥
नारायण उवाच ॥
शृणु बह्मन्प्रवक्ष्येऽहमितिहासं पुरातनम् ॥ ३१ ॥
श्रुतं महेशवदनात्सूर्यपर्वणि पुष्करे॥
हरेर्गुणप्रसङ्गेन कथयामास शङ्करः । ३२॥
सम्पृष्टो मुनिसङ्घैश्च मया धर्मेण ब्रह्मणा ॥
ब्रह्मपुत्र महाभाग कथां भुवनपावनीम् ॥३३॥
कथयामास विस्तार्य सावधानं निशामय ॥
गन्धर्वेशो गन्धवाहः पर्वते गन्धमादने ॥ ३४ ॥
महांस्तपस्विप्रवरो हरिसेवनतत्परः ॥
पुत्रा बभूवुश्चत्वारो गन्धर्वप्रवरा मुने ॥ ३५ ॥
सस्मरुः कृष्णपादाब्जं स्वप्ने ज्ञाने दिवानिशम्॥
ते च दुर्वाससः शिष्याः श्रीकृष्णार्चनतत्पराः ॥ ३६ ॥
नित्यं दत्त्वा च कमलं सम्पूज्य तं पपुर्जलम् ॥
वसुदेवः सुहोत्रश्च सुदर्शनसुपार्श्वकौ ॥ ३७ ॥
चत्वारो वैष्णवश्रेष्ठास्तेपुस्ते पुष्करे तपः ॥
चिरकालं तपस्तप्त्वा बभूवुः सिद्धमन्त्रिणः ॥ ३८ ॥
ज्येष्ठो दुर्वाससो योगं सम्प्राप्य योगिनां वरः॥
सिद्धश्चाकृतदारश्च प्रज्वलन्ब्रह्मतेजसा ॥ ३९ ॥
सद्यो देहं परित्यज्य बभूव कृष्णपार्षदः ॥
एकदा भ्रातरस्ते च जग्मुश्चित्रसरोवरम्॥ ॥ 4.16.४० ॥
पद्मानि कृष्णपूजार्थमाहर्तुमुदये रवेः ॥
पद्मानां चयनं कृत्वा गच्छतो वैष्णवान्मुने ॥ ४१ ॥
दृष्ट्वा निबध्य सञ्जग्मुः सर्वे शङ्करकिङ्कराः ॥
बलिष्ठा दुर्बलान्धृत्वा जग्मुः शङ्करसन्निधिम् ॥ ४२ ॥
ते सर्वे शङ्करं दृष्ट्वा प्रणेमुः शिरसा भुवि ॥
तानुवाच शिवः शीघ्रं प्रयुज्याशिषमुत्तमाम् ॥
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ॥ ४३ ॥
शिव उवाच ॥
के यूयं पद्महर्तारः पार्वत्याश्च सरोवरे ॥ ४४ ॥
लक्षयक्षै रक्षणीयं पार्वतीव्रतहेतवे ॥
नित्यं सहस्रकमलं ददाति हरये सती ॥ ४५ ॥
व्रते त्रैमासिके भक्त्या पतिसौभाग्यवर्द्धने ॥
शिवस्य वचनं श्रुत्वा तमूचुर्वैष्णवा भिया ॥
पुटाञ्जलियुताः सर्वे भक्तिनम्रात्मकन्धराः ॥ ४६ ॥
गन्धर्वा ऊचुः ॥ ॥
वयं गन्धर्वप्रवरा गन्धवाहसुता विभो ॥ ४७ ॥
हरये कमलं दत्त्वा पिबामो जलमीश्वर ॥
वयं न विद्मो हे नाथ पार्वत्या रक्षितं सरः ॥ ४८ ॥
गृहाण कमलं सर्वं युष्माकं च फलं कुरु ॥
न दास्यामोऽद्य कमलं पास्यामोऽद्य जलं हर ॥ ४९ ॥
किं वा कथं न पास्यामस्तुभ्यं दत्तानि तानि च ॥
नित्यं ध्यात्वा यत्पदाब्जं पद्मेन पूजयामहे ॥ 4.16.५० ॥
साक्षात्तस्मै प्रदत्त्वा च पद्मं पूता वयं प्रभो ॥
एकं ब्रह्म ह्यद्वितीयं क्व देहः क्व च रूपवान् ॥ ५१ ॥
भक्तानुग्रहतो देहो रूपभेदश्च मायया ॥
किं तु गृहाण पद्मानि त्वमेव मत्प्रभुः प्रभो ॥ ५२ ॥
यतो नो मानसं पूर्णं तद्रूपं दर्शयाच्युत ॥
द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम्॥ ॥ ५३ ॥
विनोदमुरलीहस्तं पीताम्बरधरं परम् ॥
एकवक्त्रं द्विनयनं चन्दनागुरुचर्चितम् ॥ ५४ ॥
ईषद्धास्यप्रसन्नास्यं रत्नालङ्कारभूषितम् ॥
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्॥ ५५ ॥
मयूरपिच्छचूडं च मालतीमाल्यभूषितम् ॥
पारिजातप्रसूनानां मालाराजिविभूषितम् ॥ ५६ ॥ कोटिकन्दर्पलावण्यलीलाधाममनोहरम् ॥
गोपीसङ्घैर्दृश्यमानं सस्मितैर्वक्रलोचनैः ॥ ९७ ॥
नवयौवनसम्पन्नं राधावक्षस्थलस्थितम् ॥
ब्रह्मादिभिः स्तूयमानं वन्द्यं ध्येयमभीप्सितम् ॥ ५८ ॥
स्वात्मारामं पूर्णकामं भक्तानुग्रहकातरम् ॥
इत्युक्त्वा पुरतः शम्भोस्तस्थुर्गन्धर्वपुङ्गवाः ॥ ५९॥ श्रीकृष्णरूपश्रवणात्पुलकाङ्कितविग्रहः ॥
गन्धर्वाणां वचः श्रुत्वा शिवस्तानित्युवाच ह ॥ 4.16.६० ॥ श्रीकृष्णरूपश्रवणात्साश्रुपूर्णविलोचनः ॥
मयैव यूयं विज्ञाता वैष्णवप्रवरा महीम् ॥६१॥
पूतां कर्तुं च भ्रमथ चरणाम्भोजरेणुना ॥
अहं वाञ्छां करोम्येव श्रीकृष्णभक्तदर्शने ॥ ६२ ॥
समागमो हि साधूनां त्रिषु लोकेषु दुर्लभः ॥
पार्वत्याश्च सुराणां च सदा यूयं मम प्रियाः ॥ ६३ ॥
आत्मनश्चात्मभक्तेभ्यो वैष्णवाश्च प्रियाश्च नः ॥
किन्तु मोघं च न भवेन्मया यत्स्वीकृतं पुरा ॥ ६४ ॥
तच्छ्रूयतां महाभागाः पार्वतीव्रतकर्मणि॥
सरसश्चैव पद्मानि यैर्हृतानि व्रतान्तरे॥ ६५ ॥
ते तूर्णमासुरीं योनिं गमिष्यन्ति न संशयः ॥
न हि श्रीकृष्णभक्तानामशुभं विद्यते क्वचित् ॥ ६६ ॥
सम्प्राप्य मानवीं योनिं गोलोकं यास्यथ ध्रुवम् ॥
यूयं श्रीकृष्णरूपं च प्रत्यक्षं द्रष्टुमुत्सुकाः ॥ ६७ ॥
ध्रुवं द्रक्ष्यथ भो वत्सा वृन्दारण्ये च भारते ॥
दृष्ट्वा कृष्णं ततो मृत्युं सम्प्राप्य वैष्णवोत्तमाः ॥ ६८ ॥
दिव्यं स्यन्दनमारुह्य गमिष्यथ हरेर्गृहम्॥
अधुना वाञ्छनीयं च रूपं द्रष्टुमिहोत्सुकाः ॥ ६९ ॥
तत्सर्वं पश्यतेत्युक्त्वा दर्शयामास तच्छिवः ॥
रूपं दृष्ट्वा साश्रुनेत्राः प्रणम्य सर्वरूपिणम् ॥ 4.16.७० ॥
आजग्मुर्दानवीं योनिमिति ते दानवेश्वराः ॥
वसुदेवः पुरा मुक्तः सुहोत्रश्च बकासुरः ॥ ७१ ॥
सुदर्शनः प्रलम्बोऽयं स्वयं केशी सुपार्श्वकः ॥
हरस्य वरदानेन दृष्ट्वा रूपमनुत्तमम् ॥ ७२ ॥
मृत्युं सम्प्राप्य श्रीकृष्णाज्जग्मुस्ते कृष्णमन्दिरम् ॥
इत्येवं कथितं विप्र हरेश्चरितमद्भुतम् ॥
बककेशिप्रलम्बानां मोक्षणं मोक्षकारकम् ॥ ७३ ॥
नारद उवाच ॥
श्रुतं सर्वं महाभाग त्वत्प्रसादाद्यदद्भुतम् ॥ ७४ ॥
अधुना श्रोतुमिच्छामि पार्वत्या किं कृतं व्रतम् ॥
को वाऽऽराध्यो व्रतस्यास्य किं फलं नियमश्च कः ॥७२॥
कानि द्रव्याणि भगवन्व्रतोपयोगिकनि च ॥
कतिकालं व्रतं किं वा प्रतिष्ठायां निरूपणम् ॥ ७६ ॥
सुविचार्य वद विभो श्रोतुं कौतूहलं मम ॥
श्रीनारायण उवाच ॥
व्रतं त्रैमासिकं नाम पतिसौभाग्यवर्धनम् ॥ ७७ ॥
आराध्यो भगवान्कृष्णो राधिकासहितो मुने ॥
विषुवे च समारम्भः समाप्तिर्दक्षिणायने ॥ ७८ ॥
संयम्य पूर्वदिवसे कृत्वाऽवश्यं हविष्यकम्॥
स्नात्वा वैशाखसङ्क्रान्त्यां सङ्कल्प्य जाह्नवीतटे॥७९॥
घटे मणौ शालग्रामे जले वा पूजयेद्व्रती॥
ध्यायेद्भक्त्या च राधेशं सम्पूज्य पञ्च देवताः ॥ 4.16.८० ॥
ध्यानं च सामवेदोक्तं निबोध कथयामि ते ॥
नवीननीरदश्यामं पीतकौशेय वाससम् ॥८१॥
शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम् ॥
शरत्प्रफुल्लपद्माक्षं मञ्जुलाञ्छनरञ्जितम् ॥८२॥
मानसं गोपिकानां च मोहयन्तं मुहुर्मुहुः ॥
राधया दृश्यमानं च राधावक्षःस्थलस्थितम्॥८३॥
ब्रह्मानन्तेशधर्माद्यैः स्तूयमानमहं भजे ॥
ध्यात्वा कृष्णं च ध्यानेन तमावाह्य व्रती मुदा॥८४॥
ध्यायेत्तदा राधिकां च ध्यानं मध्यन्दिनेरितम् ॥
राधां रासेश्वरीं रम्यां रासोल्लासरसोत्सुकाम् ॥ ॥८५॥
रासमण्डलमध्यस्थां रासाधिष्ठातृदेवताम् ॥
रासेश्वरोरःस्थलस्थां रसिकां रसिकप्रियाम्॥८६ ॥
रसिकप्रवरां रम्यां रमां च रमणोत्सुकाम् ॥
शरद्राजीवराजीनां प्रभामोचनलोचनाम् ॥ ८७ ॥
वक्रभ्रूभङ्गसंयुक्तां मञ्जीरेणैव रञ्जिताम् ॥
शरत्पार्वणचन्द्रास्यामीषद्धास्यमनोहराम् ॥ ८८ ॥
चारुचम्पकवर्णाभां चन्दनेन विभूषिताम् ॥
कस्तूरीबिन्दुना सार्धं सिन्दूरबिन्दुना युताम् ॥८९॥
चारुपत्रावलीयुक्तां वह्निशुद्धांशुकोज्ज्वलाम् ॥
सद्रत्नकुण्डलाभ्यां च सुकपोलस्थलोज्ज्वलाम् ॥ 4.16.९० ॥
रत्नेन्द्रसारहारेण वक्षःस्थलविराजिताम् ॥
रत्नकङ्कणकेयूरकिङ्किणीरत्नरञ्जिताम् ॥९१॥ सद्रत्नसाररचितक्वणन्मञ्जीररञ्जिताम् ॥
ब्रह्मादिभिश्च सेव्येन श्रीकृष्णेनैव सेविताम् ॥ ९२ ॥
सर्वेशेन स्तूयमानां सर्वबीजां भजाम्यहम् ॥
इति ध्यात्वा च कृष्णेन सहितां तां च पूजयेत् ॥ ९३ ॥
भक्त्या दत्त्वा प्रतिदिनमुपचारांश्च षोडश ॥
प्रत्येकं च पृथक्कृत्वा सर्वं दद्याद्व्रती मुदा ॥ ९४ ॥
सहस्रकमलं दिव्यं शतमष्टोत्तरं मुने ॥
होमं कुर्याद्व्रती नित्यमष्टोत्तरशताहुतीः ॥ ९५ ॥
दद्याद्भक्त्या च कृष्णाय स्वाहेत्युच्चार्य यत्नतः ॥
रसालस्य कदल्याश्च ह्यामं वा पक्वमेव च ॥ ९६ ॥
नित्यमष्टोत्तरशतं दद्याद्भक्त्याऽक्षतैः फलम् ॥
नित्यं च भोजयेद्भक्त्या ब्राह्मणानां शतं मुने ॥ ९७ ॥
होमं कुर्याद्व्रती नित्यमष्टोत्तरशताहुतीः ॥
दद्याद्भक्त्या च कृष्णाय राधिकासहिताय च ॥ ९८ ॥
तिलेन हवनं कुर्यादाज्यमिश्रेण नारद ॥
वाद्यं च वादयेन्नित्यं कारयेद्धरिकीर्तनम् ॥ ९९ ॥
एवं मासत्रयं कृत्वा प्रतिष्ठां तदनन्तरम् ॥
प्रतिष्ठादिवसे तत्र विधानं शृणु नारद॥ ॥ 4.16.१०० ॥
कमलानां च नवतिसहस्राण्यक्षतानि च ॥
ब्राह्मणानां सहस्राणि नव विप्रेन्द्र यत्नतः ॥ १०१ ॥
भोजयेत्परमान्नानि स्वादूनि मिष्टकानि च ॥
फलं विंशाधिकं सप्तशतं नवसहस्रकम् ॥ १०२ ॥
दद्यान्नानाविधं द्रव्यं नैवेद्यं सुमनोहरम् ॥
संस्कृताग्निं च संस्थाप्य होमं कुर्याद्विचक्षणः ॥ १०३ ॥
नवतिं च सहस्राणि हुत्वाऽऽज्येन तिलेन च ॥
सवस्त्रं च सभोज्यं च यज्ञसूत्रफलान्वितम् ॥ १०४ ॥
गन्धपुष्पार्चितान्भक्त्या दद्यान्नवतिलड्डुकान् ॥
दद्यान्नवतिकुम्भांश्च शीततोयप्रपूरितान् ॥ १०९ ॥
एवंविधं व्रतं कृत्वा दद्याद्विप्राय दक्षिणाम् ॥
दक्षिणायाः परिमितं वेदेषु यन्निरूपितम् ॥ १०६॥
वृषेन्द्राणां सहस्रं च स्वर्णशृङ्गसमन्वितम् ॥
इत्येवं कथितं विप्र कृतं त्रैमासिकव्रतम् ॥ १०७ ॥
विशिष्टसन्ततिकरं पतिसौभाग्यवर्द्धनम् ॥
व्रतस्यास्य प्रभावेण सौभाग्यं शतजन्मनि ॥ १०८ ॥
सत्पुत्रजननी सा च भवेज्जन्मशतं ध्रुवम् ॥
कदाऽपि न भवेत्तस्या भेदश्च पतिपुत्रयोः ॥ १०९ ॥
दासतुल्यो भवेत्पुत्रो भर्ता च स्ववचस्करः ॥
अनुक्षणं भवेद्राधाकृष्णभक्तियुता सती ॥ 4.16.११० ॥
भवेद्व्रतप्रभावेण प्राप्तज्ञानहरिस्स्मृतिः ॥
व्रतं च सामवेदोक्तं कृतं पूर्वमथावयोः ॥ १११ ॥
सर्वेषां च व्रतानां च श्रेष्ठं शृणु वदामि ते ॥
स्वायम्भुवस्य च मनोः शतरूपाभिधा सती ॥ ११२ ॥
तया कृतं प्रथमतः कृत्वाऽगस्त्यं पुरोहितम् ॥
तदा कृतं देवहूत्या चाकूत्या च कृतं तदा ॥ ११३ ॥
पुरोहितं पुलस्त्यं च कृत्वा श्रुत्युक्त्या मुने ॥
चकार रोहिणी तत्तु क्रतुं कृत्वा पुरोहितम् ॥ ११४ ॥
रतिश्चकार तद्भक्त्या गौतमस्तत्पुरोहितः ॥
अकारि तद्व्रतं भक्त्या तारया गुरुकान्तया ॥ ११५ ॥
महासम्भृतसम्भारा वसिष्ठस्तत्पुरोहितः ॥
तद्दृष्ट्वा गुरुपत्न्याश्च शक्रशच्या कृतं व्रतम् ॥ ११६ ॥
महासम्भृतसम्भारस्तत्पुरोधा बृहस्पतिः ॥
व्रतं चकार स्वाहा च सर्वतोऽपि विलक्षणम् ॥११७॥
अतिसम्भृतसम्भारो मरीचिस्तत्पुरोहितः ॥
तद्दृष्ट्वा पार्वती ब्रह्मन्नुवाच शङ्करं मुदा ॥
पुटाञ्जलियुता देवी भक्तिनम्रात्मकन्धरा ॥११८॥
पार्वत्युवाच ॥
आज्ञां कुरु जगन्नाथ करोमि व्रतमुत्तमम् ॥ ११९ ॥
आवयोरिष्टदेवस्य व्रतानां च परं व्रतम् ॥
हरेराराधनं नाथ सर्वमङ्गलकारणम् ॥ 4.16.१२० ॥
इष्टं दत्तं श्रुतेः पाठं तीर्थं पृथ्व्याः प्रदक्षिणम् ॥
हरेराराधनस्यापि कलां नार्हति षोडशीम् ॥ १२१ ॥
बहिरभ्यन्तरे यस्य हरिस्मृतिरनुक्षणम् ॥
जीवन्मुक्तस्य तस्यैव मुक्तिर्भवति दर्शनात् ॥ ॥ १२२ ॥
तस्य पादाब्जरजसा सद्यः पूता वसुन्धरा ॥
तस्य दर्शनमात्रेण पुनाति भुवनत्रयम् ॥ १२३ ॥
ब्रह्मा विष्णुश्च धर्मश्च शेषस्त्वं च गणेश्वरः ॥
ध्यायन्ध्यायं यत्पदाब्जं तेजसा तत्समो महान् ॥ १२४ ॥
यश्च यं सन्ततं ध्यायेत्स तमाप्नोति निश्चितम् ॥
गुणेन तेजसा बुद्ध्या ज्ञानेन तत्समो भवेत् ॥ १२५ ॥
कृष्णस्य स्मरणाद्ध्यानात्तपसा तस्य सेवया ॥
मया प्राप्तो हि भगवान्स्वामी वा पुत्र एव च ॥१२६॥
प्रलब्धं लीलया सर्वं पूर्णं मन्मानसं तदा ॥
स्वामी मे त्वादृशः पुत्रौ कार्त्तिकेयगणेश्वरौ ॥१२७॥
पिता हिमाद्रिः कृष्णांशो मम किं दुर्लभं प्रभो ॥
पार्वतीवचनं श्रुत्वा सुप्रीतः शङ्करः स्वयम् ॥
प्रहस्योवाच मधुरं पुलकाङ्कितविग्रहः॥१२८॥ ॥
श्रीमहादेव उवाच ॥ ॥
महालक्ष्मीस्वरूपासि किमसाध्यं तवेश्वरि ॥ १२९ ॥
सर्वसम्पत्स्वरूपा त्वमनन्तशक्ति रूपिणी ॥
त्वं च यस्य गृहे देवि स चैश्वर्यस्य भाजनम् ॥4.16.१३०॥
न लक्ष्मीर्यद्गृहे तस्य जीवनान्मरणं वरम् ॥
अहं ब्रह्मा च विष्णुश्च त्वयि भक्त्या शुभप्रदे ॥ १३१ ॥
संहारे सृष्टिकाले च त्वत्प्रसादाद्वयं क्षमाः ॥
को वा हिमालयः कोऽहं कौ कार्त्तिकगणेश्वरौ ॥ ॥१३२॥
त्वद्विहीना अशक्ताश्च त्वया च वयमीश्वराः ॥
युक्ताः पतिव्रतायाश्च याः पुराज्ञाः श्रुतौ श्रुताः ॥१३३॥
गृहीत्वाऽऽज्ञामीश्वरस्य व्रतं कुरु पतिव्रते ॥
व्रतमेतत्कृतं याभिस्ताभ्यः कुरु विलक्षणम् ॥ १३४ ॥
सनत्कुमारो भगवान्व्रते तेऽस्तु पुरोहितः ॥
कमलानां ब्राह्मणानां द्रव्याणां दायकोऽप्यहम्॥ १३५ ॥
कुबेरं द्रव्यकोशे च रक्षकं कुरु सुन्दरि ॥
व्रते च दानाध्यक्षोऽहं धनदात्री च श्रीः स्वयम् ॥ १३६ ॥
पाठको वह्निदेवश्च वरुणो जलदायकः ॥
वस्तूनां वाहका यक्षास्तदध्यक्षः षडाननः ॥ १३७ ॥
स्थानसंस्कार कर्ता च व्रतेऽत्र पवनः स्वयम् ॥
परिवेष्टा स्वयं शक्रश्चन्द्रोऽधिष्ठापको व्रते ॥ १३८ ॥
सूर्यश्च दाननिर्वक्ता योग्यायोग्यं यथोचितम् ॥
व्रतोपयुक्तं यद्द्रव्यं दत्त्वा नियमितं प्रिये ॥ १३९ ॥
ततोऽधिकं फलं पुष्पं हरये देहि सुन्दरि ॥
व्रते नियमितान्विप्रान्भोजयित्वा ततोऽधिकाम्॥ 4.16.१४० ॥
असङ्ख्यान्ब्राह्मणान्देवि भक्त्या कुरु निमन्त्रणम् ॥
समाप्तिदिवसे स्वर्णं रत्नं मुक्तां प्रवालकम्॥१४१॥
व्रतोक्तां दक्षिणां दत्त्वा सर्वं देहि द्विजातये ॥
इत्युक्त्वा शङ्करस्तां च कारयामास तद्व्रतम् ॥ १४२ ॥
व्रतं चकार सा दुर्गा सर्वाभ्यश्च विलक्षणम् ॥
इत्येवं कथितं विप्र पार्वत्या यद्व्रतं कृतम् ॥ १४३ ॥
रत्नं वोढुमशक्ताश्च ब्राह्मणाः पार्वतीव्रते ॥
इतिहासः श्रुतः सर्वः प्रकृतं शृणु नारद ॥ १४४ ॥
श्रीकृष्णबालचरितं नूत्नं नूत्नं पदे पदे ॥
हत्वा तान्दानवेन्द्रांश्च शिशुभिः सह गोकुले ॥१४५॥
जगाम स्वगृहं कृष्णः कुबेरभवनोपमम् ॥
सर्वेभ्यो वनवार्ता च प्रोक्ता च शिशुभिर्मुदा ॥ १४६ ॥
श्रुत्वैवं विस्मिताः सर्वे नन्दो भयमवाप ह ॥
आनीय वृद्धान्गोपांश्च गोपिकाः स्थविरास्तथा ॥ १४७ ॥
युक्तिं चकार तैः सार्द्धमालोच्य समयोचिताम् ॥
कृत्वा युक्तिं च गोपेशस्तत्स्थानं त्यक्तुमुद्यतः॥१४८॥
गन्तुं वृन्दावनं सर्वानुवाच तत्क्षणं मुने॥
नन्दाज्ञां च समाकर्ण्य ते सर्वे गन्तुमुद्यताः॥१४९॥
गोपाश्च गोपिकाश्चैव बालका बालिकास्तथा ॥
कृष्णेन हलिना सार्धं प्रययुर्बालका मुदा ॥ 4.16.१५० ॥
सङ्गीतं च प्रगायन्तो नानावेष समन्विताः ॥
वेणुप्रवादकाः केचित्केचिच्छृङ्गप्रवादकाः ॥ १५१ ॥
करतालकराः केचिद्वीणाहस्ताश्च केचन॥
शरयन्त्रकराः केचिच्छृङ्गहस्ताश्च केचन ॥ १५२ ॥
नवपल्लवकर्णाश्च केचिद्गोपालबालकाः ॥
केचिन्मुकुलकर्णाश्च पुष्पकर्णाश्च केचन ॥ १५३ ॥
नवमाल्यकराः केचित्केचिदाजानुमालिनः ॥
केचित्पल्लवचूडाश्च पुष्पचूडाश्च केचन ॥ १५४ ॥
गोपालबालकाः सर्वे विप्रेन्द्र नवकोटयः ॥
जग्मुर्गोप्यो वयस्याश्च कोटिशः कोटिशो मुदा ॥ १५५ ॥
वृद्धाश्च कोटिशस्तत्र बृहच्छ्रोण्यश्चलत्कुचाः ॥
राधिकासहचारिण्यो बाला गोपालिका मुने ॥ १९६ ॥
ताः सुशीलादयो भव्या नानालङ्कारभूषिताः ॥
दिव्यवस्त्रपरीधानाः सस्मितास्ता ययुर्मुदा ॥१५७॥
काश्चिदारुह्य शिबिकां रथमारुह्य काश्चन ॥
राधा स्यन्दनमारुह्य शातकौम्भपरिच्छदम् ॥ १५८ ॥
ताभिर्युक्ता ययौ देवी रत्नालङ्कार भूषिता ॥
यशोदा रोहिणी चैव रत्नालङ्कारभूषिता ॥ १५९ ॥
ययौ स्यन्दनमारुह्य शातकौम्भपरिच्छदम् ॥
नन्दः सुनन्दः श्रीदामा गिरिभानुर्विभाकरः ॥ 4.16.१६० ॥
वीरभानुश्चन्द्रभानुर्गजस्थाः प्रययुर्मुदा ॥
श्रीकृष्णबलदेवौ तौ रत्नालङ्कारभूषितौ ॥ १६१ ॥
स्वर्ण स्यन्दनमास्थाय जग्मतुः परया मुदा ॥
कोटिशः कोटिशो गोपा वृद्धाश्च यौवनान्विताः ॥ १६२ ॥
अश्वस्थाश्च गजस्थाश्च रथस्थाश्चैव केचन ॥
गोपा ययुर्मुदा युक्ताश्चोद्धता नन्दकिङ्कराः ॥१६३॥
वृषस्था गर्दभस्थाश्च सङ्गीततानतत्पराः ॥
अपरा राधिकादास्यस्त्रिसप्तशतकोटयः ॥ १६४ ॥
मुदान्विताः सस्मिताश्च स्वर्णालङ्कारभूषिताः ॥
काश्चित्सिन्दूरहस्ताश्च काश्चित्कज्जलवाहिकाः ॥ ॥१६५॥
काश्चित्कन्दुकहस्ताश्च काश्चित्पुत्तलिकाकराः ॥
भोगद्रव्यकराः काश्चित्क्रीडाद्रव्यकरा वराः ॥ १६६ ॥
वेषद्रव्यकराः काश्चित्काश्चिन्मालाकरा वराः ॥
काश्चिद्वाद्यकहस्ताश्च प्रययुर्गोपिका मुदा ॥१६७॥
वह्निशुद्धांशुकानां च वाहिकाश्चैव काश्चन ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रववाहिकाः॥१६८॥
काश्चित्सङ्गीतनिरताः काश्चिच्चित्रकथारताः॥
कोटिशः कोटिशो रम्याः प्रययुः शिबिकान्विताः॥ ॥१६९॥
कोटिशः कोटिशश्चाश्वाः कोटिशः कोटिशो रथाः ॥
कोटिशः कोटिशश्चैव शकटा द्रव्यपूरिताः ॥4.16.१७०॥
कोटिशः कोटिशश्चैव वृषेन्द्रा द्रव्यवाहकाः ॥
कोटिशः कोटिशश्चैव दशलक्षाणि हस्तिनाम् ॥१७१॥
हस्तिपाङ्कुशयुक्तानि ययुर्वृन्दावनं वनम् ॥
सर्वे वृन्दावनं गत्वा दृष्ट्वा शून्यगृहं मुने ॥१७२॥
वृक्षमूले यथास्थानं तस्थुः सर्वे यथोचितम् ॥
उवाच गोपाञ्छ्रीकृष्णो गृहांश्चेष्टतमान्व्रजाः ॥१७३॥
अद्य सन्तिष्ठतेत्येवं श्रुत्वा श्रीकृष्णभाषितम् ॥
कुत्र सन्ति गृहाः कृष्णेत्येवमूचुस्तु गोपकाः ॥
इति तेषां वचः श्रुत्वा श्रीकृष्णो वाक्यमब्रवीत् ॥ १७४ ॥
श्रीकृष्ण उवाच ॥
अत्र स्थाने गृहाः सन्ति प्रसन्ना देवनिर्मिताः ॥ १७५ ॥
देवप्रीतिं विना शक्ता नहि द्रष्टुं च केचन ॥
अद्य तिष्ठत गोपालाः सम्पूज्य वनदेवताः ॥ १७६ ॥
प्रातर्यूयं गृहान्रम्यान्द्रक्ष्यथाद्य ध्रुवं मुदा ॥
धूपदीपादिनैवेद्यैर्बलिभिः पुष्पचन्दनैः ॥१७७॥
देवीं च वटमूलस्थां पूजां कुरुत चण्डिकाम् ॥
कृष्णस्य वचनं श्रुत्वा गोपाः सम्पूज्य देवताम् ॥
भुक्त्वा भोगान्दिने रात्रौ तत्रैव सुषुपुर्मुदा ॥१७८॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे बकप्रलम्बकेशिवधपूर्वकवृन्दावनगमनं नाम षोडशोऽध्यायः ॥ १६ ॥