०१५

श्रीनारायण उवाच ॥
एकदा कृष्णसहितो नन्दो वृन्दावनं ययौ॥
तत्रोपवनभाण्डीरे चारयामास गोधनम्॥१॥
सरः सुस्वादुतोयं च पाययामास तत्पपौ ॥
उवास वृक्षमूले च बालं कृत्वा स्ववक्षसि ॥ २ ॥
एतस्मिन्नन्तरे कृष्णो मायामानुषविग्रहः ॥
चकार माययाऽकस्मान्मेघाच्छन्नं नभो मुने ॥ ३ ॥
मेघावृतं नभो दृष्ट्वा श्यामलं काननान्तरम्॥
झञ्झावातं महाशब्दं वज्रशब्दं च दारुणम्॥४॥
वृष्टिधारामतिस्थूलां कम्पमानांश्च पादपान्॥
दृष्ट्वैवं पतितस्कन्धान्नन्दो भयमवाप ह॥५॥
कथं यास्यामि गोवत्सान्विहाय स्वाश्रमं बत॥
गृहं यदि न यास्यामि भविता बालकस्य किम् ॥६॥
एवं नन्दे प्रवदति रुरोद श्रीहरिस्तदा॥
पयोभिया हरिश्चैव पितुः कण्ठं दधार सः॥७॥
एतस्मिन्नन्तरे राधाऽऽजगाम कृष्ण सन्निधिम् ॥
गमनं कुवनी राजहंसखञ्जनगञ्जनम् ॥८॥
शरत्पार्वणचन्द्राभामुष्टवक्त्रमनोहरा ॥
शरन्मध्याह्नपद्मानां शोभामोचनलोचना ॥ ९ ॥
परितस्तारकापक्ष्मविचित्रकज्जलोज्ज्वला ॥
खगेन्द्रचञ्चुचारुश्रीशंसानाशकनासिका ॥ 4.15.१० ॥
तन्मध्यस्थलशोभार्ह स्थूलमुक्ताफलोज्ज्वला॥
कबरीवेषसंयुक्ता मालतीमाल्यवेष्टिता ॥११॥
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टककुण्डला ॥
पक्वबिम्बफलानां च श्रीमुष्टाधरयुग्मका॥१२॥
मुक्तापङ्क्तिप्रभातैकदन्तपङ्क्तिसमुज्ज्वला ॥
ईषत्प्रफुल्लकुन्दानां सुप्रभानाशकस्मिता ॥१३॥
कस्तूरीबिन्दुसंयुक्त सिन्दूरबिन्दुभूषिता॥
कपालं मल्लिकायुक्तं बिभ्रती श्रीयुतं सती॥१४॥
सुचारुवर्तुलाकारकपोलपुलकान्विता ॥
मणिरत्नेन्द्रसाराणां हारोरःस्थलभूषिता ॥ १५ ॥
सुचारुश्रीफलयुगकठिनस्तनसङ्गता ॥
पत्रावलीश्रिया युक्ता दीप्ता सद्रत्नतेजसा ॥१६॥
सुचारुवर्तुलाकारमुदरं सुमनोहरम् ॥
विचित्रत्रिवलीयुक्तं निम्ननाभिं च बिभ्रती ॥ १७ ॥ सद्रत्नसाररचितमेखलाजालभूषिता ॥
कामास्त्रसारभ्रूभङ्गयोगीन्द्रचित्तमोहिनी ॥ १८ ॥
कठिनश्रोणियुगलं धरणीधरनिन्दितम् ॥
स्थलपद्मप्रभामुष्टचरणं दधती मुदा ॥ ॥ १९ ॥
रत्नभूषणसंयुक्तं यावकद्रवसंयुतम् ॥
मणीन्द्रशोभासम्मुष्टसालक्तकपुनर्भवम् ॥ 4.15.२० ॥
सद्रत्नसाररचितक्वणन्मञ्जीर रञ्जितम् ॥
रत्नकङ्कणकेयूरचारुशङ्खविभूषिता ॥ २१ ॥
रत्नाङ्गुलीयनिकरवह्निशुद्धांशुकोज्वला ॥
चारुचम्पकपुष्पाणां प्रभा मुष्टकलेवरा ॥ २२ ॥
सहस्रदलसंयुक्तक्रीडाकमलमुज्ज्वलम् ॥
श्रीमुखश्रीदर्शनार्थं बिभ्रती रत्नदर्पणम् ॥ २३ ॥
दृष्ट्वा तां निर्जने नन्दो विस्मयं परमं ययौ ॥
चन्द्रकोटिप्रभामुष्टां भासयन्तीं दिशो दश ॥ २४ ॥
ननाम तां साश्रुनेत्रो भक्तिनम्रात्मकन्धरः ॥
जानामि त्वां गर्गमुखात्पद्माधिकप्रियां हरेः ॥ २५ ॥
जानामीमं महाविष्णोः परं निर्गुणमच्युतम् ॥
तथापि मोहितोऽहं च मानवो विष्णुमायया ॥ २६ ॥
गृहाण प्राणनाथं च गच्छ भद्रे यथासुखम् ॥
पश्चाद्दास्यसि मत्पुत्रं कृत्वा पूर्णमनोरथम् ॥ २७ ॥
इत्युक्त्वा प्रददौ तस्यै रुदन्तं बालकं भिया ॥
जग्राह बालकं राधा जहास मधुरं सुखात् ॥ २८ ॥
उवाच नन्दं सा यत्नान्न प्रकाश्यं रहस्यकम् ॥
अहं दृष्टा त्वया नन्द कतिजन्मफलोदयात् ॥ २९ ॥
प्राज्ञस्त्वं गर्गवचनात्सर्वं जानासि कारणम् ॥
अकथ्यमावयोर्गोप्यं चरितं गोकुले व्रज ॥ 4.15.३० ॥
वरं वृणु व्रजेश त्वं यत्ते मनसि वाञ्छितम् ॥
ददामि लीलया तुभ्यं देवानामपि दुर्लभम् ॥ ३१ ॥
राधिकावचनं श्रुत्वा तामुवाच व्रजेश्वरः ॥
युवयोश्चरणे भक्तिं देहि नान्यत्र मे स्पृहा ॥ ३२ ॥
युवयोः सन्निधौ वासं दास्यसि त्वं सुदुर्लभम् ॥
आवाभ्यां देहि जगतामम्बिके परमेश्वरि ॥ ३३ ॥
श्रुत्वा नन्दस्य वचनमुवाच परमेश्वरी ॥
दास्यामि दास्यमतुलमिदानीं भक्तिरस्तु ते ॥ ३४ ॥
आवयोश्चरणाम्भोजे युवयोश्च दिवानिशम् ॥
प्रफुल्लहृदये शश्वत्स्मृतिरस्तु सुदुर्लभा ॥ ३९ ॥
माया युवां च प्रच्छन्नौ न करिष्यति मद्वरात् ॥
गोलोके यास्यथान्ते च विहाय मानवीं तनुम् ॥ ३६ ॥
एवमुक्त्वा तु सानन्दं कृत्वा कृष्णं स्ववक्षसि ॥
दूरं निनाय श्रीकृष्णं बाहुभ्यां च यथेप्सितम् ॥ ३७ ॥
कृत्वा वक्षसि तं कामाच्छ्लेषंश्लेषं चुचुम्ब च ॥
पुलकाङ्कितसर्वाङ्गो सस्मार रासमण्डलम् ॥ ३८ ॥
एतस्मिन्नन्तरे राधा मायासद्रत्नमण्डपम् ॥
ददर्श रत्नकलशशतेन च समन्वितम् ॥ ३९ ॥
नानाविचित्रचित्राढ्यं चित्रकाननशोभितम् ॥
सिन्दूराकारमणिभिः स्तम्भसङ्घैर्विराजितम् ॥ 4.15.४० ॥
चन्दनागुरुकस्तृरीकुङ्कुमद्रवयुक्तया ॥
संयुक्तं मालतीमालासमूहपुष्पशय्यया ॥ ४१ ॥
नानाभोगसमायुक्तं दिव्यदर्पणसंयुतम् ॥
मणीन्द्रमुक्तामाणिक्यमालाजालैर्विभूषितम् ॥ ४२ ॥
मणीन्द्रसाररचितकपाटेन समन्वितम् ॥
भूषितं भूषितैर्वस्त्रैः पताकानिकरैर्वरैः ॥
कुङ्कुमाकारमणिभिः सप्तसोपानसंयुतम् ॥ ४३ ॥
युक्तं षट्पदसंयुक्तैः पुष्पोद्यानं च पुष्पितैः ॥
सा देवी मण्डपं दृष्ट्वा जगामाभ्यन्तरं मुदा ॥ ४४ ॥
ददर्श तत्र ताम्बूलं कर्पूरादिसमन्वितम् ॥
जलं च रत्नकुम्भस्थं स्वच्छं शीतं मनोहरम् ॥ ४९ ॥
सुधामधुभ्यां पूर्णानि रत्नकुम्भानि नारद ॥
पुरुषं कमनीयं च किशोर श्यामसुन्दरम् ॥४६॥
कोटिकन्दर्पलीलाभं चन्दनेन विभूषितम् ॥
शयानं पुष्पशय्यायां सस्मितं सुमनोहरम् ॥४७॥
पीतवस्त्रपरीधानं प्रसन्नवदनेक्षणम् ॥
मणीन्द्रसारनिर्माणं क्वणन्मञ्जीररञ्जितम् ॥ ४८ ॥ सद्रत्नसारनिर्माणकेयूरवलयान्वितम् ॥
मणीन्द्रकुण्डलाभ्यां च गण्डस्थलविराजितम् ॥ ४९ ॥
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम् ॥ शरत्पार्वणचन्द्रास्यप्रभामुष्टमुखोज्ज्वलम् ॥ 4.15.५० ॥
शरत्प्रफुल्लकमलप्रभामोचनलोचनम् ॥
मालतीमाल्यसंश्लिष्टशिखिपिच्छसुशोभितम् ॥ ५१ ॥
त्रिवङ्कचूडां बिभ्रन्तं पश्यन्तं रत्नमन्दिरम् ॥
क्रोडं बालकशून्यं च दृष्ट्वा तं नवयौवनम् ॥ ५२ ॥
सर्वस्मृतिस्वरूपा सा तथापि विस्मयं ययौ ॥
रूपं रासेश्वरी दृष्ट्वा मुमोह सुमनोहरम् ॥ ५३ ॥
कामाच्चक्षुश्चकोराभ्यां मुखचन्द्रं पपौ मुदा ॥
निमेषरहिता राधा नवसङ्गमलालसा ॥ ५४ ॥
पुलकाङ्कितसर्वाङ्गी सस्मिता मदनातुरा ॥
तामुवाच हरिस्तत्र स्मेराननसरोरुहाम् ॥
नवसङ्गमयोग्यां च पश्यन्तीं वक्रचक्षुषा ॥ ५५ ॥
श्रीकृष्ण उवाच ॥
राधे स्मरसि गोलोकवृत्तान्तं सुरसंसदि ॥ ५६ ॥
अद्य पूर्णं करिष्यामि स्वीकृतं यत्पुरा प्रिये ॥
त्वं मे प्राणाधिका राधे प्रेयसी च वरानने ॥ ५७ ॥
यथा त्वं च तथाऽहं च भेदो हि नावयोर्ध्रुवम् ॥
यथा क्षीरे च धावल्यं यथाऽग्नौ दाहिका सति ॥ ५८ ॥
यथा पृथिव्यां गन्धश्च तथाऽहं त्वयि सन्ततम् ॥
विना मृदा घटं कर्तुं विना स्वर्णेन कुण्डलम् ॥ ५९ ॥
कुलालः स्वर्णकारश्च नहि शक्तः कदाचन ॥
तथा त्वया विना सृष्टिमहं कर्तुं न च क्षमः ॥ 4.15.६० ॥
सृष्टेराधारभूता त्वं बीजरूपोऽहमच्युतः ॥
आगच्छ शयने साध्वि कुरु वक्षःस्थले हि माम् ॥ ६१ ॥
त्वं मे शोभा स्वरूपाऽसि देहस्य भूषणं यथा ॥
कृष्णं वदान्त मां लोकास्त्वयैव रहितं यदा ॥ ६२ ॥
श्रीकृष्णं च तदा तेऽपि त्वयैव सहितं परम् ॥
त्वं च श्रीस्त्वं च सम्पत्तिस्त्वमाधारस्वरूपिणी ॥ ६३ ॥
सर्वशक्तिस्वरूपासि सर्वरूपोऽहमक्षरः ॥
यदा तेजःस्वरूपोऽहं तेजोरूपाऽसि त्वं तदा ॥ ६४ ॥
न शरीरी यदाहं च तदा त्वमशरीरिणी ॥
सर्वबीजस्वरूपोऽहं सदा योगेन सुन्दरि ॥ ६५ ॥
त्वं च शक्तिस्वरूपा च सर्वस्त्रीरूपधारिणी ॥
ममाङ्गांशस्वरूपा त्वं मूलप्रकृतिरीश्वरी ॥ ६६ ॥
शक्त्या बुद्ध्या च ज्ञानेन मया तुल्या वरानने ॥
आवयोर्भेदबुद्धिं च यः करोति नराधमः ॥ ६७ ॥
तस्य वासः कालसूत्रे यावच्चन्द्रदिवाकरौ ॥
पूर्वान्सप्त परान्सप्त पुरुषान्पातयत्यधः ॥ ६८ ॥
कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम् ॥
अज्ञानादावयोर्निन्दां ये कुर्वन्ति नराधमाः ॥ ६९ ॥
पच्यन्ते नरके घोरे यावच्चन्द्रदिवाकरौ ॥
राशब्दं कुर्वतस्त्रस्तो ददामि भक्तिमुत्तमाम् ॥ 4.15.७० ॥
धाशब्दं कुर्वतः पश्चाद्यामि श्रवणलोभतः ॥
ये सेवन्ते च दत्त्वा मामुपचारांश्च षोडश ॥
यावजीवनपर्यन्तं या प्रीतिर्जायते मम ॥ ७१ ॥
सा प्रीतिर्मम जायेत राधाशब्दात्ततोऽधिका ॥
प्रिया न मे तथा राधे राधावक्ता ततोऽधिकः ॥ ७२ ॥
ब्रह्मानन्तः शिवो धर्मो नरनारायणावृषी ॥
कपिलश्च गणेशश्च कार्त्तिकेयश्च मत्प्रियः ॥ ७३ ॥
लक्ष्मीः सरस्वती दुर्गा सावित्री प्रकृतिस्तथा॥
मम प्रियाश्च देवाश्च तास्तथापि न तत्समाः ॥७४॥
ते सर्वे प्राणतुल्या मे त्वं मे प्राणाधिका सती ॥
भिन्नस्थानस्थितास्ते च त्वं च वक्षःस्थले स्थिता ॥ ७५ ॥
या मे चतुर्भुजा मूर्तिर्बिभर्त्ति वक्षसि प्रियाम् ॥
सोऽहं कृष्णस्वरूपस्त्वां विवहामि स्वयं सदा ॥ ७६ ॥
इत्येवमुक्त्वा श्रीकृष्णस्तस्थौ तल्पे मनोरमे ॥
उवाच राधिका नाथं भक्तिनम्रात्मकन्धरा ॥७७ ॥
राधिकोवाच ॥
स्मरामि सर्वं जानामि विस्मरामि कथं विभो ॥
यत्त्वं वदसि सर्वाहं त्वत्पादाब्जप्रसादतः ॥ ७८ ॥
ईश्वरस्याप्रियाः केचित्प्रियाश्च कुत्र केचन ॥
ये यथा मां न स्मरन्ति तथा तेषु तवाकृपा ॥ ७९ ॥
तृणं च पर्वतं कर्तु समर्थः पर्वतं तृणम् ॥
तथापि योग्यायोग्ये च सम्पत्तौ च समा कृपा ॥ 4.15.८० ॥
तिष्ठत्यहं शयानस्त्वं कथाभिर्यत्क्षणं गतम् ॥
तत्क्षणं च युगसमं नाहं प्रापयितुं क्षमा ॥८१॥
वक्षःस्थले च शिरसि देहि ते चरणाम्बुजम् ॥
दुनोति मन्मनः सद्यस्त्वदीयविरहानलात् ॥ ८२ ॥
पुरः पपात मे दृष्टिस्त्वदीयचरणाम्बुजे ॥
नीता मया नहि क्लेशाद्द्रष्टुमन्यत्कलेवरम् ॥८३॥
प्रत्येकमङ्गं दृष्ट्वैव दत्ता शान्ते मुखाम्बुजे॥
दृष्ट्वा मुखारविन्दं च नान्यं गन्तुं च सा क्षमा ॥ ८४ ॥
राधिकावचनं श्रुत्वा जहास पुरुषोत्तमः ॥
तामुवाच हितं तथ्यं श्रुतिस्मृतिनिरूपितम् ॥ ८९ ॥
श्रीकृष्ण उवाच ॥
न खण्डनीयं तत्तत्र मया पूर्वं निरूपितम् ॥
तिष्ठ भद्रे क्षणं भद्रं करिष्यामि तव प्रिये ॥ ८६॥
त्वन्मनोरथपूर्णस्य स्वयं कालः समागतः ॥
यस्य यल्लिखितं पूर्वं यत्र काले निरूपितम् ॥ ८७ ॥
तदेव खण्डितुं राधे क्षमो नाहं च को विधिः ॥
विधातुश्च विधाताऽहं येषां यल्लेखनं कृतम् ॥ ८८ ॥
ब्रह्मादीनां च क्षुद्राणां न तत्खण्ड्यं कदाचन ॥
एतस्मिन्नन्तरे ब्रह्माऽऽजगाम पुरतो हरेः ॥ ८९ ॥
मालाकमण्डलुकर ईषत्स्मेरचतुर्मुखः ॥
गत्वा ननाम तं कृष्णं प्रतुष्टाव यथागमम्॥4.15.९०॥
साश्रुनेत्रपुलकितो भक्तिनम्रात्मकन्धरः॥
स्तुत्वा नत्वा जगद्धाता जगाम हरिसन्निधिम् ॥९१॥
पुनर्नत्वा प्रभुं भक्त्या जगाम राधिकान्तिकम् ॥
मूर्ध्ना ननाम भक्त्या च मातुस्तच्चरणाम्बुजे ॥९२॥
चकार सम्भ्रमेणैव जटाजालेन वेष्टितम्॥
कमण्डलुजलेनैव शीघ्रं प्रक्षालितं मुदा ॥९३॥
यथागमं प्रतुष्टाव पुटाञ्जलियुतः पुनः ॥
॥ब्रह्मोवाच ॥ ॥
हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥९४॥
सुदुर्लभं च सर्वेषां भारते च विशेषतः ॥
षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ॥ ९५ ॥
भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः ॥
आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ९६ ॥
वरं वृणीष्वेत्युक्ते च स्वाभीष्टं च वृतं मुदा ॥
राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥ ९७ ॥
हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय ॥
मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥ ९८ ॥
दर्शयिष्यामि काले च वत्सेदानीं क्षमेति च ॥
नहीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥ ९९ ॥
सर्वेषां वाञ्छितं मातर्गोलोके भारतेऽधुना ॥
सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका ध्रुवम् ॥ 4.15.१०० ॥
त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः ॥
श्रीकृष्णस्त्वमयं राधा त्वं राधा वा हरिः स्वयम् ॥ १०१ ॥
नहि वेदेषु मे दृष्ट इति केन निरूपितम् ॥
ब्रह्माण्डाद्बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥ १०२ ॥
वैकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथाम्बिके ॥
यथा समस्तब्रह्माण्डे श्रीकृष्णांशांशजीविनः॥१०३॥
तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता॥
पुरुषाश्च हरेरंशास्त्वदंशा निखिलाः स्त्रियः ॥१०४॥
आत्मना देहरूपा त्वमस्याधारस्त्वमेव हि॥
अस्यानु प्राणैस्त्वं मातस्त्वत्प्राणैरयमीश्वरः ॥१०५॥
किमहो निर्मितः केन हेतुना शिल्पकारिणा ॥
नित्योऽयं च तथा कृष्णस्त्वं च नित्या तथाऽम्बिके ॥ १०६ ॥
अस्यांशा त्वं त्वदंशो वाऽप्ययं केन निरूपितः ॥
अहं विधाता जगतां देवानां जनकः स्वयम् ॥ १०७ ॥
तं पठित्वा गुरुमुखाद्भवन्त्येव बुधा जनाः ॥
गुणानां वास्तवानां ते शतांशं वक्तुमक्षमः ॥ १०८ ॥
वेदो वा पण्डितो वाऽन्यः को वा त्वां स्तोतुमीश्वरः ॥
स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥ १०९ ॥
त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः ॥
यद्वस्तु दृष्टं सर्वेषां तद्धि वक्तुं बुधः क्षमः ॥4.15.११०॥
यददृष्टाश्रुते वस्तु तन्निर्वक्तुं च कः क्षमः ॥
अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः॥ १११ ॥
सरस्वती च वेदाश्च क्षमः कः स्तोतुमीश्वरः ॥
यथागमं यथोक्तं च न मां निन्दितुमर्हसि ॥ ११२ ॥
ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा॥
जनस्य प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥ ११३ ॥
जननी जनको यो वा सर्वं क्षमति स्नेहतः ॥
इत्युक्त्वा जगतां धाता तस्थौ च पुरतस्तयोः ॥११४॥
प्रणम्य चरणाम्भोजे सर्वेषां वन्द्यमीप्सितम् ॥
ब्रह्मणा च कृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ॥११५॥
राधामाधवयोः पादे भक्तिर्दास्यं लभेद्ध्रुवम् ॥
कर्मनिर्मूलनं कृत्वा मृत्युं जित्वा सुदुर्जयम् ॥
विलङ्घ्य सर्वलोकांश्च याति गोलोकमुत्तमम्॥ ११६॥
श्रीनारायण उवाच॥
ब्रह्मणः स्तवनं श्रुत्वा तमुवाच ह राधिका ॥ ११७ ॥
वरं वृणु विधातस्त्वं यत्ते मनसि वर्तते ॥
राधिकावचनं श्रुत्वा तामुवाच जगद्विधिः ॥ ११८ ॥
वरं च युवयोः पादपद्मभक्तिं च देहि मे ॥
इत्युक्ते विधिना राधा तूर्णमोमित्युवाच ह ॥ ११९ ॥
पुनर्ननाम तां भक्त्या विधाता जगतां पतिः ॥
तदा ब्रह्मा तयोर्मध्ये प्रज्वाल्य च हुताशनम् ॥ 4.15.१२० ॥
हरिं संस्मृत्य हवनं चकार विधिना विधिः॥
उत्थाय शयनात्कृष्ण उवास वह्निसन्निधौ ॥ १२१ ॥
ब्रह्मणोक्तेन विधिना चकार हवनं स्वयम् ॥
प्रणमय्य पुनः कृष्णं राधां तां जनकः स्वयम् ॥ १२२ ॥
कौतुकं कारयामास सप्तधा च प्रदक्षिणाम् ॥
पुनः प्रदक्षिणां राधां कारयित्वा हुताशनम् ॥ १२३ ॥
प्रणमय्य ततः कृष्णं वासयामास तं विधिः ॥
तस्या हस्तं च श्रीकृष्णं ग्राहयामास तं विधिः ॥ १२४॥
वेदोक्तसप्तमन्त्रांश्च पाठयामास माधवम् ॥
संस्थाप्य राधिकाहस्तं हरेर्वक्षसि वेदवित् ॥ १२५ ॥
श्रीकृष्णहस्तं राधायाः पृष्ठदेशे प्रजापतिः ॥
स्थापयामास मन्त्रांस्त्रीन्पाठयामास राधिकाम् ॥१२६॥
पारिजातप्रसूनानां मालां जानुविलम्बिताम् ॥
श्रीकृष्णस्य गले ब्रह्मा राधाद्वारा ददौ मुदा ॥ १२७ ॥
प्रणमय्य पुनः कृष्णं राधां च कमलोद्भवः ॥
राधागले हरिद्वारा ददौ मालां मनोहराम्॥
पुनश्च वासयामास श्रीकृष्णं कमलोद्भवः ॥ १२८ ॥
तद्वामपार्श्वे राधां च सस्मितां कृष्णचेतसम् ॥
पुटाञ्जलिं कारयित्वा माधवं राधिकां विधिः ॥ ॥१२९॥
पाठयामास वेदोक्तान्पञ्च मन्त्रांश्च नारद ॥
प्रणमय्य पुनः कृष्णं समर्प्य राधिकां विधिः ॥ 4.15.१३० ॥
कन्यकां च यथा तातो भक्त्या तस्थौ हरेः पुरः ॥
एतस्मिन्नन्तरे देवाः सानन्दपुलकोद्गमाः ॥ १३१॥
दुन्दुभिं वादयामासुश्चानकं मुरजादिकम्॥
पारिजातप्रसूनानां पुष्पवृष्टिर्बभूव ह ॥ १३२ ॥
जगुर्गन्धर्वप्रवरा ननृतुश्चाप्सरोगणाः ॥
तुष्टाव श्रीहरिं ब्रह्मा तमुवाच ह सस्मितः ॥१३३॥
युवयोश्चरणाम्भोजे भक्तिं मे देहि दक्षिणाम्॥
ब्रह्मणो वचनं श्रुत्वा तमुवाच हरिः स्वयम् ॥१३४॥
मदीयचरणाम्भोजे सुदृढा भक्तिरस्तु ते ॥
स्वस्थानं गच्छ भद्रं ते भविता नात्र संशयः ॥ १३५ ॥
मया नियोजितं कर्म कुरु वत्स ममाज्ञया ॥
श्रीकृष्णस्य वचः श्रुत्वा विधाता जगतां मुने ॥ १३६ ॥
प्रणम्य राधां कृष्णं च जगाम स्वालयं मुदा ॥
गते ब्रह्मणि सा देवी सस्मिता वक्रचक्षुषा ॥ ॥ १३७ ॥
सा ददर्श हरेर्वक्त्रं चच्छाद व्रीडया मुखम् ॥
पुलकाङ्कितसर्वाङ्गी कामबाणप्रपीडिता ॥ १३८ ॥
प्रणम्य श्रीहरिं भक्त्या जगाम शयनं हरेः ॥
चन्दनागुरुपङ्कं च कस्तूरीकुङ्कुमान्वितम्॥१३९॥
ललाटे तिलकं कृत्वा ददौ कृष्णस्य वक्षसि ॥
सुधापूर्णं रत्नपात्रं मधुपूर्णं मनोहरम् ॥ 4.15.१४० ॥
प्रददौ हरये भक्त्या बुभुजे जगतीपतिः ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥ १४१ ॥
ददौ कृष्णाय सा राधा सादरं बुभुजे हरिः ॥
चखाद सस्मिता राधा हरिदत्तं सुधारसम् ॥१४२॥
ताम्बूलं तेन दत्तं च बुभुजे पुरतो हरेः ॥
कृष्णश्चर्वितताम्बूलं राधिकायै मुदा ददौ ॥१४३॥
चखाद परया भक्त्या पपौ तन्मुखपङ्कजम् ॥
राधाचर्वितताम्बूलं ययाचे मधुसूदनः ॥१४४॥
जहास न ददौ राधा क्षमेत्युक्तं तया मुदा॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमुत्तमम् ॥
राधिकायाश्च सर्वाङ्गे प्रददौ माधवः स्वयम् ॥ १४५ ॥
यः कामो ध्यायते नित्यं यस्यैकचरणाम्बुजम् ॥
बभूव तस्य स वशो राधासन्तोषकारणात् ॥ १४६ ॥
यद्भृत्यभृत्यैर्मदनो जितः सर्वक्षणं मुने ॥
स्वेच्छामयो हि भगवाञ्जितस्तेन कुतूहलात् ॥१४७॥
करे धृत्वा च तां कृष्णः स्थापयामास वक्षसि ॥
चकार शिथिलं वस्त्रं चुम्बनं च चतुर्विधम् ॥१४८॥
बभूव रतियुद्धेन विच्छिन्ना क्षुद्रघण्टिका ॥
चुम्बनेनौष्ठरागश्च ह्याश्लेषेण च पत्रकम् ॥१४९॥
शृङ्गारेणैव कबरी सिन्दूरतिलकं मुने ॥
जगामालक्तकाङ्कश्च विपरीतादिकेन च ॥4.15.१५०॥
पुलकाङ्कितसर्वाङ्ङ्गी बभूव नवसङ्गमात् ॥
मूर्च्छामवाप सा राधा बुबुधे न दिवानिशम् ॥१५१॥
प्रत्यङ्गेनैव प्रत्यङ्गमङ्गेनाङ्गं समाश्लिषत् ॥
शृङ्गाराष्टविधं कृष्णश्चकार कामशास्त्रवित्॥१५२॥
पुनस्तां च समाश्लिष्य सस्मितां वक्रलोचनाम् ॥
क्षतविक्षतसर्वाङ्गीं नखदन्तैश्चकार ह ॥१५३॥
कङ्कणानां किङ्किणीनां मञ्जीराणां मनोहरः ॥
बभूव शब्दस्तत्रैव शृङ्गारसमरोद्भवः ॥ १५४ ॥
पुनस्तां च समाकृष्य शय्यायां च निवेश्य च ॥
चकार रहितां राधां कबरीबन्धवाससा ॥ १५५ ॥
निर्जने कौतुकात्कृष्णः कामशास्त्रविशारदः ॥
चूडावेषांशुकैर्हीनं चकार तं च राधिका ॥१५६॥
न कस्य कस्माद्धानिश्च तौ द्वौ कार्यविशारदौ ॥
जग्राह राधाहस्तात्तु माधवो रत्नदर्पणम् ॥१५७॥
मुरलीं माधवकराज्जग्राह राधिका बलात् ॥
चित्तापहारं राधायाश्चकार माधवो बलात् ॥१५८॥
जहार राधिका रासान्माधवस्यापि मानसम् ॥
निवृत्ते कामयुद्धे च सस्मिता वक्रलोचना॥१५९॥
प्रददौ मुरलीं प्रीत्या श्रीकृष्णाय महात्मने॥
प्रददौ दर्पणं कृष्णः क्रीडाकमलमुज्ज्वलम् ॥4.15.१६०॥
चकार कबरीं रम्यां सिन्दूरतिलकं ददौ॥
विचित्रपत्रकं वेषं चकारैवंविधं हरिः॥ ॥१६१॥
विश्वकर्मा न जानाति सखीनामपि का कथा ॥
वेषं विधातुं कृष्णस्य यदा राधा समुद्यता ॥ १६२ ॥
बभूव शिशुरूपं च कैशोरं च विहाय च ॥
ददर्श बालरूपं तं रुदन्तं पीडितं क्षुधा ॥१६३॥
यादृशं प्रददौ नन्दो भीतं तादृशमच्युतम् ॥
विनिश्वस्य च सा राधा हृदयेन विदूयता ॥१६४॥
इतस्ततस्तं पश्यन्ती शोकार्ता विरहातुरा ॥
उवाच कृष्णमुद्दिश्य काकूक्तिमिति कातरा ॥ १६५ ॥
मायां करोषि मायेश किङ्करीं कथमीदृशीम् ॥
इत्येवमुक्त्वा सा राधा पपात च रुरोद च ॥ ॥१६६॥
रुरोद कृष्णस्तत्रैव वाग्बभूवाशरीरिणी ॥
कथं रोदिषि राधे त्वं स्मर कृष्णपदाम्बुजम्॥१६७॥
आरासमण्डलं यावन्नक्तमत्रागमिष्यति ॥
करिष्यसि रतिं नित्यं हरिणा सार्द्धमीप्सिताम् ॥१६८॥
छायां विधाय स्वगृहे स्वयमागत्य मा रुद ॥
कृत्वा क्रोडे च प्राणेशं मायेशं बालरूपिणम् ॥ १६९ ॥
त्यज शोकं गृहं गच्छ सुन्दरीत्थं प्रबोधिता ॥
श्रुत्वैवं वचनं राधा कृत्वा क्रोडे च बालकम् ॥ ॥ 4.15.१७० ॥
ददर्श पुष्पोद्यानं च वनं सद्रत्नमण्डपम् ॥
तूर्णं वृन्दावनाद्राधा जगाम नन्दमन्दिरम् ॥ १७१ ॥
सा मनोयायिनी देवी निमिषार्धेन नारद ॥
संसिक्तस्निग्धमधुररसना रक्तलोचना ॥ १७२ ॥
यशोदायै शिशुं दातुमुद्यता सत्युवाच ह ॥
गृहीत्वैवं शिशुं स्थूलं रुदन्तं च क्षुधातुरम् ॥ १७३ ॥
गोष्ठे त्वत्स्वामिना दत्तं प्राप्नोमि यातनां पथि ॥
संसिक्तं वसनं वत्से मेघाच्छन्नेऽतिदुर्दिने ॥ १७४ ॥
पिच्छिले कर्दमोद्रेके यशोदा वोढुमक्षमा ॥
गृहाण बालकं भद्रे स्तनं दत्त्वा प्रबोधय ॥ १७५ ॥
गृहं चिरं परित्यक्तं यामि तिष्ठ सुखं सति ॥
इत्युक्त्वा बालकं दत्त्वा जगाम स्वगृहं प्रति ॥ १७६ ॥
यशोदा बालकं नीत्वा चुचुम्ब च स्तनं ददौ ॥
बहिर्निविष्टा सा राधा स्वगृहे गृहकर्मणि ॥ १७७ ॥
नित्यं नक्तं रतिं तत्र चकार हरिणा सह ॥
इत्येवं कथितं वत्स श्रीकृष्णचरितं शुभम् ॥
सुखदं मोक्षदं पुण्यमपरं कथयामि ते ॥ १७८ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाकृष्णविवाहनवसङ्गमप्रस्तावो नाम पञ्चदशोऽध्यायः ॥ १५ ॥