॥ श्रीनारायण उवाच ॥
एकदा नन्दपत्नी च स्नानार्थं यमुनां ययौ ॥
गव्यपूर्णं गृहं दृष्ट्वा जहास मधुसूदनः ॥ १ ॥
दधिदुग्धाज्यतक्रं च नवनीतं मनोरमम् ॥
गृहस्थितं च यत्किञ्चिच्चखाद मधुसूदनः ॥ २ ॥
मधु हैयङ्गवीनं यत्स्वस्तिकं शकटस्थितम् ॥
भुक्त्वा पीत्वांऽशुकैर्वक्त्रसंस्कारं कर्तुमुद्यतम् ॥ ३ ॥
ददर्श बालकं गोपी स्नात्वाऽऽगत्य स्वमन्दिरम् ॥
गव्यशून्यं भग्नभाण्डं मध्वादिरिक्तभाजनम् ॥ ४ ॥
दृष्ट्वा पप्रच्छ बालांश्च अहो कर्मेदमद्भुतम्॥
यूयं वदत सत्यं च कृतं केन सुदारुणम् ॥ ५ ॥
यशोदावचनं श्रुत्वा सर्वमूचुश्च बालकाः ॥
चखाद सत्यं बालस्ते नास्मभ्यं दत्तमेव च ॥ ६ ॥
बालानां वचनं श्रुत्वा चुकोप नन्दगेहिनी ॥
वेत्रं गृहीत्वा दुद्राव रक्तपङ्कजलोचना ॥ ७ ॥
पलायमानं गोविन्दं ग्रहीतुं न शशाक ह ॥
ध्यानासाध्यं शिवादीनां दुरापमपि योगिनाम् ॥ ८ ॥
यशोदा भ्रमणं कृत्वा विश्रान्ता घर्मसंयुता ॥
तस्थौ कोपपरी तात्मा शुष्ककण्ठौष्ठतालुका ॥ ९ ॥
विश्रान्तां मातरं दृष्ट्वा कृपालुः पुरुषोत्तमः ॥
सन्तस्थौ पुरतो मातुः सस्मितो जगदीश्वरः ॥ ॥4.14.१०॥
करे धृत्वा च तं देवी समानीय स्वमालयम्॥
बद्ध्वा वस्त्रेण वृक्षे च तताड मधुसूदनम् ॥११॥
बद्ध्वा कृष्णं यशोदा सा जगाम स्वालयं प्रति ॥
हरिस्तस्थौ वृक्षमूले जगतां पतिरीश्वरः ॥ १२ ॥
श्रीकृष्णस्पर्शमात्रेण सहसा तत्र नारद ॥
पपात वृक्षः शैलाभः शब्दं कृत्वा भयानकम् ॥१३॥
सुवेषः पुरुषो दिव्यो वृक्षादाविर्बभूव ह ॥
दिव्यस्यन्दनमारुह्य जगाम स्वालयं पुरः ॥ १४॥
प्रणम्य जगतीनाथं शातकौम्भपरिच्छदम् ॥
किशोरः सस्मितो गौरो रत्नालङ्कारभूषितः ॥ १५ ॥
सा वृक्षपतनं दृष्ट्वा भिया त्रस्ता व्रजेश्वरी ॥
क्रोडे चकार बालं तं रुदन्तं श्यामसुन्दरम् ॥१६॥
आजग्मुर्गोकुलस्थाश्च गोपा गोप्यश्च तद्गृहम् ॥
यशोदां भर्त्सयामासुः शान्तिं चक्रुः शिशोर्मुदा ॥ १७ ॥
अत्यन्तस्थविरे काले तनयोऽयं बभूव ह ॥
धनं धान्यं च रत्नं वा तत्सर्वं पुत्रहेतुकम् ॥ १८ ॥
सुमतिर्नास्ति ते सत्यं ज्ञातं नन्दव्रजेश्वरि ॥
न भक्षितं यत्पुत्रेण तत्सर्वं निष्फलं भुवि॥१९॥
पुत्रं बद्ध्वा गव्यहेतोर्वृक्षमूले च निष्ठुरे॥
गृहकर्मणि व्यग्रायां दैवाद्वृक्षः पपात ह ॥ 4.14.२० ॥
वृक्षस्य पतनाद्गोपी भाग्याद्बालोऽपि जीवितः ॥
प्रनष्टे बालके मूढे वस्तूनां किं प्रयोजनम् ॥ २१॥
आशिषं युयुजुर्विप्रा बन्दिनश्च शुभावहाम् ॥
द्विजेन कारयामासुर्नामसङ्कीर्तनं हरेः ॥ २२ ॥
एवं कृत्वा जनाः सर्वे प्रययुर्निजमन्दिरम् ॥
उवाच पत्नीं नन्दश्च रक्तपङ्कजलोचनः ॥२३॥
नन्द उवाच ॥
यास्यामि तीर्थमद्यैव कण्ठे कृत्वा तु बालकम् ॥
अथवा त्वं गृहाद्गच्छ त्वया मे किं प्रयोजनम् ॥ २४ ॥
शतकूपाधिका वापी शतवापीसमं सरः ॥
सरःशताधिको यज्ञः पुत्रो यज्ञशताधिकः ॥ २५ ॥
तपोदानोद्भवं पुण्यं जन्मान्तरसुखप्रदम् ॥
सुखप्रदोऽपि सत्पुत्र इहैव च परत्र च ॥२६॥
पुत्रादपि परो बन्धुर्न भूतो न भविष्यति ॥
एवमुक्त्वा स्वभार्यां च तस्थौ नन्दः स्वमन्दिरे॥
यशोदा रोहिणी चैव नियुक्ता गृहकर्मणि॥२७॥
नारद उवाच ॥
सुवेषः पुरुषः को वा वृक्षरूपी च गोकुले ॥
भगवन्हेतुना केन वृक्षत्वं समवाप ह ॥ २८ ॥
॥ नारायण उवाच ॥
कुबेरतनयः श्रीमान्नाम्ना यो नलकूबरः ॥
जगाम नन्दनवनं क्रीडार्थं सह रम्भया ॥ २९ ॥
निर्जने सरसस्तीरे पुष्पोद्याने मनोहरे ॥
वटवृक्षसमीपे च सौरभे पुष्पवायुना ॥4.14.३०॥
विधाय पुष्पशयने रत्नदीपैश्च दीपितम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवसंयुतम् ॥३१॥
परितः पुष्पमाल्यैश्च क्षौमवस्त्रैश्च वेष्टितम्॥
तत्र रम्भां समानीय विजहार यथेच्छया ॥३२॥
शृङ्गाराष्टप्रकारं च विपरीतादिकं सुखम् ॥
चुम्बनं षट्प्रकारं च यथास्थाने निरूपितम्॥३३॥
अङ्ग प्रत्यङ्गसंयोगत्रिविधाश्लेषणं मुदा॥
नखदन्तकरक्रीडां चकार रसिकेश्वरः ॥ ३४ ॥
जलात्स्थले स्थलात्तोये कामशास्त्रविशारदः ॥
रतिभोगप्रकुर्वन्तं ददर्श देवलो मुनिः॥३५॥
नग्नां रम्भां मुक्तकेशीं पीनश्रोणिपयोधराम्॥
नखदन्तक्षताङ्गीं च पुलकाञ्चितविग्रहाम्॥३६॥
पश्यन्तीं प्राणनाथं च पश्यन्तं सस्मितं मुदा॥
वक्रभ्रूभङ्गसंयुक्तां कामुकीं च ददर्श ताम् ॥ ३७॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम्॥
विचित्ररत्नमाल्यैश्च पुष्पमाल्यैश्च भूषिताम्॥३८॥
किङ्किणीजालसंयुक्तां सिन्दूर बिन्दुसंयुताम् ॥
तया युक्तं पुलकितं नोत्तिष्ठन्तं स्मरान्वितम् ॥३९॥
वृक्षत्वं याहि पापिष्ठेत्युवाच मुनिपुङ्गवः॥
शशाप रम्भां कामार्तां मानुषी त्वं भवेति च ॥4.14.४०॥
जन्मेजयस्य सुभगा भविता कामिनीति च॥
त्वमेव गोकुलं गच्छ वृक्षरूपी भवेति च॥४१॥
श्रीकृष्ण स्पर्शमात्रेण पुनरायास्यसि गृहम् ॥
रम्भे त्वमिन्द्रसंयोगात्पुनरायास्यसि ध्रुवम् ॥४२॥
इत्येवमुक्त्वा स मुनिर्जगाम निजमन्दिरम्।
कुबेरतनयः श्रीमान्स जगाम निजालयम् ॥४३॥
इत्येवं कथितं विप्र रम्भाख्यानं वदामि ते ॥
सुचन्द्रस्य गृहे रम्भा ललाभ जन्म भारते ॥ ४४ ॥
कन्या लक्ष्मीस्वरूपा च बभूव सुन्दरी वरा ॥
तां च सालङ्कृतां कृत्वा सुचन्द्रो नृपतीश्वरः ॥४५॥
नानाकौतुकसंयुक्तां ददौ जन्मेजयाय च॥
जन्मेजयस्य सुभगा बभूव महिषी वरा ॥ ४६ ॥
स्थानेस्थाने निर्जने च राजा रेमे तया सह ॥
एकदा नृपतिश्रेष्ठश्चाश्वमेधेन दीक्षितः॥४७॥
अश्वसङ्गोपनं कृत्वा तस्थौ शक्रश्च मन्दिरे॥
यज्ञाश्वं रुचिरं मत्वा कौतुकेन च सुन्दरी ॥४८॥
द्रष्टुं जगाम सा साध्वी चाश्वमेकाकिनी मुदा ॥
शक्रोऽश्वनिकटे भूत्वा धर्षयामास तां सतीम् ॥ ४९ ॥
तया निवार्यमाणश्च रेमे तत्र तया सह ॥
मूर्च्छामवाप शक्रश्च बुबुधे न दिवानिशम् ॥ 4.14.५० ॥
सा च सम्भोगमात्रेण देहं तत्याज योगतः ॥
नृपस्य लज्जया भीत्या शक्रः स्वर्गे जगाम ह ॥५१॥
राजा श्रुत्वा मृतां दृष्ट्वा विललाप भृशं मुहुः॥
यज्ञं समाप्य विप्रेभ्यो ददौ पूर्णां च दक्षिणाम्॥ ॥५२॥
रम्भा च मानवं देहं त्यक्त्वा स्वर्गं जगाम ह ॥
इत्येवं कथितं सर्वं वृक्षार्जुनविभञ्जनम् ॥५३॥
नलकूबरमोक्षश्च रम्भायाश्च महामुने ॥
पुण्यदं कृष्णचरितं जन्ममृत्युजरापहम् ॥
इत्येवं कथितं सर्वमपरं कथयामि ते ॥ ९४ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे वृक्षार्जुनभञ्जनं नाम चतुर्दशोऽध्यायः ॥१४॥