॥ श्रीनारायण उवाच ॥ ॥
अपरं कृष्णमाहात्म्यं शृणु किञ्चिन्महामुने ॥
विघ्ननिघ्नं पापहरं महापुण्यकरं परम् ॥ १ ॥
एकदा नन्दपत्नी च कृत्वा कृष्णं स्ववक्षसि ॥
स्वर्णसिंहासनस्था च क्षुधितं तं स्तनं ददौ ॥ २ ॥
एतस्मिन्नन्तरे तत्र विप्रेन्द्रैकः समागतः ॥
वृतः शिष्यसमूहैश्च प्रज्वलन्ब्रह्मतेजसा ॥ ३ ॥
प्रजपन्परमं ब्रह्म शुद्धस्फटिकमालया ॥
दण्डी छत्री शुक्लवासा दन्तपङ्क्तिविराजितः ॥ ४ ॥
ज्योतिर्ग्रन्थो मूर्तिमांश्च वेदवेदाङ्गपारगः ॥
परिबिभ्रज्जटाजालं तप्तकाञ्चनसन्निभम् ॥ ५ ॥
शरत्पार्वणचन्द्रास्यो गौराङ्गः पद्मलोचनः ॥
योगीन्द्रो धूर्जटेः शिष्यः शुद्धभक्तो गदाभृतः ॥ ६ ॥
व्याख्यामुद्राकरः श्रीमाञ्छिष्यानध्यापयन्मुदा ॥
वेदव्याख्यां कतिविधां प्रकुर्वन्निव लीलया ॥ ७ ॥
एकीभूय चतुर्वेदास्तेजसा मूर्तिमानिव॥
साक्षात्सरस्वतीकण्ठः सिद्धान्तैकविशारदः ॥ ८ ॥
ध्यानैकनिष्ठः श्रीकृष्णपादाम्भोजे दिवानिशम् ॥
जीवन्मुक्तो हि सिद्धेशः सर्वज्ञः सर्वदर्शनः ॥ ९ ॥
तं दृष्ट्वा सा समुत्तस्थौ यशोदा प्रणनाम च ॥
पाद्यं गां मधुपर्कं च स्वर्णसिंहासनं ददौ ॥ 4.13.१० ॥
बालकं वन्दयामास मुनीन्द्रं सस्मितं मुदा ॥
मुनिश्च मनसा चक्रे प्रणामशतकं हरिम् ॥ ११ ॥
आशिषं प्रददौ प्रीत्या वेदमन्त्रोपयोगिकम् ॥
प्रणनाम च शिष्यांश्च ते तां युयुजुराशिषम् ॥१२॥
शिष्यान्पाद्यादिकं भक्त्या प्रददौ च पृथक्पृथक् ॥
साशिष्याङ्घ्री च प्रक्षाल्य समुवास सुखासने॥१३॥
समुद्यता सा प्रष्टुं च पुटाञ्जलियुता सती ॥
स्वक्रोडे बालकं कृत्वा भक्तिनम्रात्मकन्धरा ॥ १४ ॥
स्वात्मारामं मङ्गलं च प्रष्टुं यद्यपि न क्षमा ॥
तथाऽपि भवतो नाम शिवं पृच्छामि साम्प्रतम् ॥ १५ ॥
अबला बुद्धिहीनाया दोषं क्षन्तुं सदाऽर्हसि ॥
मूढस्य सततं दोषं क्षमां कुर्वन्ति साधवः ॥१६॥
अङ्गिरा वाऽथ वाऽत्रिर्वा मरीचिर्गौतमोऽथ वा ॥
क्रतुः किं वा प्रचेता वा पुलस्त्यः पुलहोऽथवा ॥१७॥
दुर्वासाः कर्दमस्त्वं वा वशिष्ठो गर्ग एव वा ॥
जैगीषव्यो देवलो वा कपिलो वा स्वयं विभुः ॥ १८ ॥
सनत्कुमारः सनकः सनन्दो वा सनातनः ॥
वोढुः पञ्चशिखो वा त्वमासुरिः सौभरिः किमु ॥१९॥
विश्वामित्रोऽथ वाल्माको वामदेवोऽथ कश्यपः॥
संवर्तः किमुतथ्यो वा किं कचो वा बृहस्पतिः ॥ 4.13.२० ॥
भृगुः शुक्रश्च च्यवनो नरनारायणोऽथवा ॥
सक्थिनः पराशरो व्यासः शुकदेवोऽथ जैमिनिः ॥ २१ ॥
मार्कण्डेयो लोमशश्च कण्वः कात्यायनस्तथा ॥
आस्तीको वा जरत्कारुर्ऋष्यशृङ्गो विभाण्डकः ॥ २२ ॥
पौलस्त्यस्त्वमगस्त्यो वा शरद्वान्गिरिरेव च ॥
शमीकोऽरिष्टनेमिश्च माण्डव्यः पैल एव च ॥ २३ ॥
पाणिनिर्वा कणादो वा शाकल्यः शाकटायनः ॥
अष्टावक्रो भागुरिर्वा सुमन्तुर्वत्स एव वा ॥ २४ ॥
जाबालो याज्ञवल्क्यश्च वैशम्पायन एव च ॥
यतिर्हंसी पिप्पलादो मैत्रेयः करुषस्तथा ॥ २५ ॥
उपमन्युर्गौरमुखोऽरुणिरौर्वोऽथ कक्षिवान् ॥
भरद्वाजो वेदशिरा शङ्कुकर्णोऽथ शौनकः ॥ २६ ॥
एतेषां पुण्यश्लोकानां को भवान्वद मे प्रभो ॥
प्रत्युत्तरार्हा नाहं चेत्तथाऽपि वक्तुमर्हसि ॥ २७ ॥
किङ्करः किङ्करी वाऽपि समर्था प्रभुमीश्वरम् ॥
यो यस्य सेवानियतः स कं पृच्छति तं विना ॥ २८ ॥
धन्याऽहं कृतकृत्याहं सफलं जीवितं मम ॥
त्वत्पादाब्जरजःस्पर्शाज्जन्मकोट्यंहसा क्षयः ॥ २९ ॥
त्वत्पादोदकसंस्पर्शात्सद्यः पूता वसुन्धरा ॥
तवागमनमात्रेण तीर्थीभूतो ममाश्रमः 4.13.३० ॥
येये श्रुताः श्रुतौ ब्रह्मञ्च्छ्रुतिसारा महाजनाः ॥
तेषामेको मया दृष्टः पूर्वपुण्यफलोदयात् ॥ ३१ ॥
शिष्या वेदा मूर्तिमन्तो ग्रीष्म मध्याह्नभास्कराः ॥
गोकुलं मत्कुलं सद्यः पुनन्ति पादरेणुना ॥ ३२ ॥
आशिषं कर्तुमर्हन्ति प्रसन्नमनसा शिशुम् ॥
पूर्णस्वस्त्ययनं सद्यो विप्राशीर्वचनं ध्रुवम् ॥ ३३ ॥
इत्येवमुक्त्वा नन्दस्त्री भक्त्या तस्थौ मुनेः पुरः ॥
नरं प्रस्थापयामास नन्दमानयितुं सती ॥ ३४ ॥
यशोदावचनं श्रुत्वा जहास मुनिपुङ्गवः ॥
जहसुः शिष्यसङ्घाश्च भासयन्तो दिशो दश ॥ ३५ ॥
हितं तथ्यं नीतियुक्तं महत्पुण्यकरं परम् ॥
तामुवाच मुदा युक्तः शुद्धबुद्धिर्महामुनिः ॥ ३६ ॥
श्रीगर्ग उवाच ॥ ॥
सुधामयं ते वचनं लौकिकं च कुलोचितम् ॥
यस्य यत्र कुले जन्म स एव तादृशो भवेत् ॥ ३७ ॥
सर्वेषां गोपपद्मानां गिरिभानुश्च भास्करः ॥
पत्नी पद्मासमा तस्य नाम्ना पद्मावती सती ॥३८॥
तस्याः कन्या यशोदा त्वं यशोवर्द्धनकारिणी ॥
बल्लवानां च प्रवरो लब्धो नन्दश्च वल्लभः ॥३९॥
नन्दो यस्त्वं च या भद्रे बालो यो येन वा गतः॥
जानामि निर्जने सर्वं वक्ष्यामि नन्दसन्निधिम् ॥4.13.४०॥
गर्गोऽहं यदुवंशानां चिरकालं पुरोहितः ॥
प्रस्थापितोऽहं वसुना नान्यसाध्ये च कर्मणि ॥ ४१ ॥
एतस्मिन्नन्तरे नन्दः श्रुतमात्रं जगाम ह ॥
ननाम दण्डवद्भूमौ मूर्ध्ना तं मुनिपुङ्गवम् ॥ ४२ ॥
शिष्यान्ननाम मूर्ध्ना च ते तं युयुजुराशिषम्॥
समुत्थायासनात्तूर्ण यशोदानन्द एव च ॥४३॥
गृहीत्वाऽभ्यन्तरं रम्यं जगाम विदुषां वरः ॥
गर्गो नन्दो यशोदा च सपुत्रा सा मुदाऽन्विता ॥
वाक्यं गर्गस्तदोवाच निगूढं निर्जने मुने ॥ ४४ ॥
श्रीगर्ग उवाच ॥
अयि नन्द प्रवक्ष्यामि वचनं ते सुखावहम् ॥
प्रस्थापितोऽहं वसुना येन तच्छ्रूयतामिति ॥४५॥
वसुना सूतिकागारे शिशुः प्रत्यर्पणं कृतः ॥
पुत्रोऽयं वसुदेवस्य ज्येष्ठश्च तस्य च ध्रुवम् ॥ ४६ ॥
कन्या ते तेन या नीता मथुरां कंसभीरुणा ॥
अस्यान्नप्राशनायाहं नामानुकरणाय च ॥
गूढेन प्रेषितस्तेन तस्योद्योगं कुरु द्विज॥४७॥
पूर्णब्रह्मस्वरूपोऽयं शिशुस्ते मायया महीम् ॥
आगत्य भारहरणं कर्ता धात्रा च सेवितः ॥
गोलोकनाथो भगवाञ्छ्रीकृष्णो राधिकापतिः ॥ ४८ ॥
नारायणो यो वैकुण्ठे कमलाकान्त एव च ॥
श्वेतद्वीपनिवासी यः पिता विष्णुश्च सोऽप्यजः ॥ ४९ ॥
कपिलोऽन्ये तदंशाश्च नरनारायणावृषी ॥
सर्वेषां तेजसां राशिर्मूर्तिमानागतः किमु ॥ 4.13.५० ॥
तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह ॥
साम्प्रतं सूतिकागारादाजगाम तवालयम् ॥ ५१ ॥
अयोनिसम्भवश्चायमाविर्भूतो महीतले ॥
वायुपूर्णं मातृगर्भे कृत्वा च मायया हरिः ॥ ५२ ॥
आविर्भूय वसुं मूर्तिं दर्शयित्वा जगाम ह ॥
युगेयुगे वर्णभेदो नामभेदोऽस्य बल्लव ॥९३ ॥
शुक्लः पीतस्तथा रक्त इदानीं कृष्णतां गतः ॥
शुक्लवर्णः सत्ययुगे सुतीव्रतेजसा वृतः ॥ ५४ ॥
त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः ॥
कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव च ॥५५॥
परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः ॥
ब्रह्मणो वाचकः कोऽयमृकारोऽनन्तवाचकः ॥ ५६ ॥
शिवस्य वाचकः षश्च नकारो धर्मवाचकः ॥
अकारो विष्णुवचनः श्वेतद्वीपनिवासिनः ॥ ५७ ॥
नरनारायणार्थस्य विसर्गो वाचकः स्मृतः ॥
सर्वेषां तेजसां राशिः सर्वमूर्तिस्वरूपकः ॥ ५८ ॥
सर्वाधारः सर्वबीजस्तेन कृष्ण इति स्मृतः ॥
कर्मनिर्मूलवचनः कृषिर्नो दास्यवाचकः ॥ ५९ ॥
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः ॥
कृषिर्निश्चेष्टवचनो नकारो भक्तिवाचकः ॥ 4.13.६० ॥
अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः ॥
कृषिर्निर्वाणवचनो नकारो मोक्षवाचकः ॥ ॥ ६१ ॥
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः ॥
नाम्नां भगवतो नन्द कोटीनां स्मरणेन यत् ॥ ६२ ॥
तत्फलं लभते नूनं कृष्णेति स्मरणे नरः ॥
यद्विधं स्मरणात्पुण्यं वचनाच्छ्रवणात्तथा ॥ ६३ ॥
कोटिजन्मांहसो नाशो भवेद्यत्स्मरणादिकात् ॥
विष्णोर्नाम्नां च सर्वेषां सारात्सारं परात्परम् ॥ ६४ ॥
कृष्णेति सुन्दरं नाम मङ्गलं भक्तिदायकम् ॥
ककारोच्चारणाद्भक्तः कैवल्यं मृत्युजन्महम् ॥ ६९॥
ऋकाराद्दास्यमतुलं षकाराद्भक्तिमीप्सिताम् ॥
नकारात्सहवासं च तत्समं कालमेव च ॥ ६६ ॥
तत्सारूप्यं विसर्गाच्च लभते नात्र संशयः ॥
ककारोच्चारणादेव वेपन्ते यमकिङ्कराः ॥६७॥
ऋकारोक्तेर्न तिष्ठन्ति षकारात्पातकानि च ॥
नकारोच्चारणाद्रोगा अकारान्मृत्युरेव च ॥ ६८ ॥
ध्रुवं सर्वे पलायन्ते नामोच्चारणभीरवः ॥
स्मृत्युक्तिश्रवणोद्योगात्कृष्णनाम्नो व्रजेश्वर ॥ ६९ ॥
रथं गृहीत्वा धावन्ति गोलोकात्कृष्णकिङ्कराः ॥
पृथिव्या रजसः सङ्ख्यां कर्तुं शक्ता विपश्चितः ॥ 4.13.७० ॥
नाम्नः प्रभावसङ्ख्यानं सन्तो वक्तुं न च क्षमाः ॥
पुरा शङ्करवक्त्रेण नाम्नोऽस्य महिमा श्रुतः ॥७१ ॥
गुणान्नामप्रभावं च किञ्चिज्जानाति मद्गुरुः ॥
ब्रह्माऽनन्तश्च धर्मश्च सुरर्षिमनुमानवाः ॥ ७२ ॥
वेदाः सन्तो न जानन्ति महिम्नः षोडशीं कलाम् ॥
इत्येवं कथितो नन्द महिमा च सुतस्य च ॥७३॥
यथामति यथाज्ञानं गुरुवक्त्राद्यथा श्रुतम् ॥
कृष्णः पीताम्बरः कंसध्वंसी च विष्टरश्रवाः ॥ ७४ ॥
देवकीनन्दनः श्रीशो यशोदानन्दनो हरिः ॥
सनातनोऽच्युतोऽनन्तः सर्वेशः सर्वरूपधृक् ॥ ७५ ॥
सर्वाधारः सर्वगतिः सर्वकारणकारणम् ॥
राधाबन्धू राधिकात्मा राधिकाजीवनं स्वयम् ॥ ७६ ॥
राधाप्राणो राधिकेशो राधिकारमणः स्वयम् ॥
राधिकासहचारी च राधामानसपूरणः ॥ ७७ ॥।
राधाधनो राधिकाङ्गो राधिकासक्तमानसः ॥
राधिकाचित्तचोरश्च राधाप्राणाधिकः प्रभुः ॥ ७८ ॥
परिपूर्णतमं ब्रह्म गोविन्दो गरुडध्वजः ॥
नामान्येतानि कृष्णस्य श्रुतानि मन्मुखाद्धृदि ॥ ७९ ॥
जन्ममृत्युहराण्येव रक्ष नन्द शुभेक्षण ॥
कृतं निरूपणं नाम्नां कनिष्ठस्य यथा श्रुतम् ॥ 4.13.८० ॥
ज्येष्ठस्य हलिनो नाम्नः सङ्केतं शृणु मन्मुखात् ॥
गर्भसङ्कर्षणादेव नाम्ना सङ्कर्षणः स्मृतः ॥ ८१ ॥
नास्त्यन्तोऽस्यैव वेदेषु तेनानन्त इति स्मृतः ॥
बलदेवो बलोद्रेकाद्धली च हलधारणात्॥८२ ॥
शितिवासा नीलवासान्मुसली मुसलायुधात् ॥
रेवत्या सह सम्भोगाद्रेवतीरमणः स्वयम् ॥८३॥
रोहिणीगर्भवासात्तु रौहिणेयो महामतिः ॥
इत्येवं ज्येष्ठपुत्रस्य श्रुतं नाम निवेदितम् ॥८४॥
यास्याम्यहं गृहं नन्द सुखं तिष्ठ स्वमन्दिरे ॥
ब्राह्मणस्य वचः श्रुत्वा नन्दः स्तब्धो बभूव ह ॥ ८५ ॥
निश्चेष्टा नन्दपत्नी च जहास बालकः स्वयम् ॥
प्रणम्योवाच नन्दस्तं वाक्यं विनयपूर्वकम् ॥ ८६ ॥
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ॥
नन्द उवाच ॥
गतश्चेत्त्वं तदा कर्म करिष्यत्येव को महान् ॥८७॥
स्वयं शुभेक्षणं कृत्वा कुरु नाम्नाऽन्नप्राशनम् ॥
यन्नामौघश्च कथितो राधाप्राणादिको दश ॥ ॥ ८८ ॥
तस्यापि का वा राधेति कन्यका कस्य च ध्रुवम्॥
नन्दस्य वचनं श्रुत्वा जहास मुनिपुङ्गवः॥
निगूढं परमं तत्त्वं रहस्यं कथयामि ते ॥ ८९ ॥
॥ श्रीगर्ग उवाच ॥ ॥
शृणु नन्द प्रवक्ष्यामि इतिहासं पुरातनम् ॥ 4.13.९० ॥
पुरा गोलोकवृत्तान्तं श्रुतं शङ्करवक्त्रतः॥
श्रीदाम्नो राधया सार्द्धं बभूव कलहो महान् ॥ ९१ ॥
श्रीदामशापाद्दैवेन गोपी राधा च गोकुले ॥
वृषभानुसुता सा च माता तस्याः कलावती ॥ ९२ ॥
कृष्णस्यार्द्धाङ्गसम्भूता नाथस्य सदृशी सती ॥
गोलोकवासिनी सेयमत्र कृष्णाज्ञयाऽधुना ॥ ९३ ॥
अयोनिसम्भवा देवी मूलप्रकृतिरीश्वरी ॥
मातुर्गर्भं वायुपूर्णं कृत्वा च मायया सती ॥ ९४ ॥
वायुनिःसरणे काले धृत्वा च शिशुविग्रहम् ॥
आविर्बभूव मायेयं पृथ्व्यां कृष्णोपदेशतः ॥ ९५ ॥
वर्धते सा व्रजे राधा शुक्ले चन्द्रकला यथा ॥
श्रीकृष्णतेजसोऽर्द्धेन सा च मृर्तिमती सती ॥ ९६ ॥
एका मूर्तिर्द्विधाभूता भेदो वेदे निरूपितः ॥
इयं स्त्री सा पुमान् किंवा सा वा कान्ता पुमानयम् ॥९७॥
द्वे रूपे तेजसा तुल्ये रूपेण च गुणेन च ॥
पराक्रमेण बुद्ध्या वा ज्ञानेन सम्पदाऽपि च ॥ ९८ ॥
पुरतो गमनेनैव किन्तु सावयसाधिका ॥
ध्यायते तामयं शश्वदिमं सा स्मरति प्रियम् ॥ ९९ ॥
रचिता साऽस्य प्राणैश्च तत्प्राणैर्मूर्तिमानयम् ॥
अस्य राधानुसारेण गोकुलागमनं परम् ॥ 4.13.१०० ॥
स्वीकारं सार्थकं कर्तुं गोकुले यत्कृतं पुरा ॥
कंसभीतिच्छलेनैव गोकुलागमनं हरेः॥१०१॥
प्रतिज्ञापालनार्थाय भयेशस्य भयं कुतः ॥
राधाशब्दस्य व्युत्पत्तिः सामवेदे निरूपिता॥ १०२ ॥
नारायणस्तामुवाच ब्रह्माणं नाभिपङ्कजे ॥
ब्रह्मा तां कथयामास ब्रह्मलोके च शङ्करम् ॥ १०३ ॥
पुरा कैलासशिखरे मामुवाच महेश्वरः ॥
देवानां दुर्लभां नन्द निशामय वदामि ते ॥ १०४ ॥
सुरासुरमुनीन्द्राणां वाञ्छितां मुक्तिदां पराम् ॥
रेफो हि कोटिजन्माघं कर्मभोगं शुभाशुभम् ॥१०५॥
आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत् ॥
धकार आयुषो हानिमाकारो भवबन्धनम् ॥ १०६ ॥
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः ॥
रेफो हि निश्चलां भक्तिं दास्यं कृष्णपदाम्बुजे ॥ १०७ ॥
सर्वेप्सितं सदानन्दं सर्वसिद्धौघमीश्वरम् ॥
धकारः सहवासं च तत्तुल्यकालमेव च ॥ १०८ ॥
ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम्॥
आकारस्तेजसां राशिं दानशक्तिं हरौ यथा ॥१०९॥
योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् ॥
श्रुत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् ॥ 4.13.११० ॥
रोगशोकमृत्युयमा वेपन्ते नात्र संशयः ॥
राधामाधवयोः किञ्चिद्व्याख्यानं च यतः श्रुतम् ॥ १११ ॥
तदुक्तं च यथाज्ञानं साकल्यं वक्तुमक्षमः॥
आराद् वृन्दावने नन्द विवाहो भविताऽनयोः ॥ ११२ ॥
पुरोहितो जगद्धाता कृत्वाऽग्निं साक्षिणं मुदा ॥
कुबेरपुत्रमोक्षं च गव्यस्याहृत्य भक्षणम् ॥ ॥ ११३ ॥
हिंसनं धेनुकस्यैव कानने तालभोजनम् ॥
बककेशिप्रलम्बानां हिंसनं चाथ लीलया ॥ ११४ ॥
मोक्षणं द्विजपत्नीनां मिष्टान्नपानभोजनम् ॥
भञ्जनं शक्रयागस्य शक्राद्गोकुलरक्षणम् ॥ ११५॥
गोपीनां वस्त्रहरणं व्रतसम्पादनं तथा ॥
ताभ्यः पुनर्वस्त्रदानं वरदानं यथेप्सितम् ॥ ११६ ॥
चेतसां हरणं तासामयं वश्याः करिष्यति ॥
रासोत्सवं महारम्यं सर्वेषां हर्षवर्द्धनम् ॥ ११७ ॥
पूर्णचन्द्रोदये नक्तं वसन्ते रासमण्डले ॥
गोपीनां नवसम्भोगात्कृत्वा पूर्णं मनोरथम् ॥ ११८ ॥
ताभिः सह जलक्रीडां करिष्यति कुतूहलात् ॥
विच्छेदोऽस्य वर्षशतं श्रीदामशापहेतुकम् ॥ ११९ ॥
गोपालैर्गोपिकाभिश्च भविता राधया सह ॥
मथुरागमनं तत्र गोपीनां शोकवर्द्धनम् ॥4.13.१२०॥
पुनः प्रबोधनं तासां दानमाध्यात्मिकस्य च ॥
स्यन्दनाक्रूरयो रक्षां सद्यस्ताभ्यां करिष्यति ॥१२१॥
रथमारोहणं कृत्वा मथुरागमनं पुनः ॥
पितृभ्रातृव्रजैः सार्द्धं विलङ्घ्य यमुनां व्रजे ॥ १२२ ॥
अक्रूराय ज्ञानदानं दर्शयित्वा स्वकं जले ॥
कौतुकेन च सायाह्ने नगरात्सर्वदर्शनम् ॥ १२३ ॥
मालाकारतन्तुवायकुब्जानां बन्धमोक्षणम् ॥
धनुर्भङ्गं शङ्करस्य यागस्थान प्रदर्शनम् ॥ १२४ ॥
हिंसनं गजमल्लानां दर्शनं नृपतेः पुरः॥
कंसस्य हिंसनं सद्यः पित्रोर्निगडमोक्षणम् ॥ १२५ ॥
प्रबोधनं च युष्माकमुग्रसेनाभिषेचनम् ॥
तस्यतस्य वधूनां च ज्ञानाच्छोकापनोदनम् ॥ १२६ ॥
भ्रातुः स्वस्योपनयनं विद्यादानं गुरोर्मुखात् ॥
गुरुपुत्रप्रदानं च पुनरागमनं गृहे ॥ १२७ ॥
छलनं नृपसैन्यानां यवनस्य दुरात्मनः ॥
निर्माणं द्वारकायाश्च मुचुकुन्दस्य मोक्षणम् ॥ ॥ १२८ ॥
द्वारकागमनं चैव यादवैः सह कौतुकात् ॥
स्त्रीसङ्घानां विहरणं ताभिः सार्द्धं च क्रीडनम् ॥ १२९ ॥
सौभाग्यवर्धनं तासां पुत्रपौत्रादिकस्य च ॥
मणिसम्बन्धिनो मिथ्याकलङ्कस्य च मोक्षणम् ॥ 4.13.१३० ॥
साहाय्यं पाण्डवानां च भारावतरणादिकम् ॥
निष्पन्नं राजसूयस्य धर्मपुत्रस्य लीलया ॥१३१॥
पारिजातस्य हरणं शक्राहङ्कारमर्दनम् ॥
व्रतपूर्णं च सत्याया बाणस्य भुजकृन्तनम् ॥ १३२ ॥
मर्दनं शिवसैन्यानां हरस्य जृम्भणं परम्॥
हरणं बाणपुत्र्याश्चैवानिरुद्धस्य मोक्षणम् ॥ १३३ ॥
वाराणस्याश्च दहनं विप्रदारिद्र्यभञ्जनम् ॥
विप्रपुत्रप्रदानं च दुष्टानां दमनादिकम् ॥ १३४ ॥
तीर्थयात्राप्रसङ्गेन युष्माभिः सह दर्शनम् ॥
कृत्वा च राधया सार्धं व्रजमागमिता पुनः ॥ १३५ ॥
प्रस्थापयित्वा द्वारां च परं नारायणांशकम् ॥
सर्वं निष्पादनं कृत्वा गोलोकं राधया सह ॥ १३६॥
गमिष्यत्येव गोलोकं नाथोऽयं जगतां पतिः॥
नारायणश्च वैकुण्ठं गमिता स्म त्वया सह ॥ १३७ ॥
धर्मगेहमृषी द्वौ च विष्णुः क्षीरोदमेव च ॥
इत्येवं कथितं नन्द भविष्यं वेदनिर्णयम् ॥ १३८ ॥
श्रूयतां साम्प्रतं कर्म यदर्थं गमनं मम ॥
माघशुक्लचतुर्दश्यां कुरु कर्म शुभे क्षणे ॥ १३९ ॥
गुरुवारे च रेवत्यां विशुद्धे चन्द्रतारके ॥
चन्द्रस्थे मीनलग्ने च लग्नेशपूर्णदर्शने ॥ 4.13.१४० ॥
वणिजे करणोत्कृष्टे शुभयोगे मनोहरे ॥
सुदुर्लभे दिने तत्र सर्वोत्कृष्टोपयोगिके ॥ १४१ ॥
आलोच्य पण्डितैः सार्द्धं कुरु कर्म मुदाऽन्वितः ॥
इत्युक्त्वा बहिरागत्य स उवाच मुनीश्वरः ॥ १४२ ॥
हृष्टो नन्दो यशोदा च कर्मोद्योगं चकार ह ॥
एतस्मिन्नन्तरे द्रष्टुं गर्गं गोपाश्च गोपिकाः ॥ १४३ ॥
बालका बालिकाश्चैव आजग्मुर्नन्दमन्दिरम् ॥
ददृशुस्ते मुनिश्रेष्ठं ग्रीष्ममध्याह्नभास्करम् ॥ १४४ ॥
शिष्यसङ्घैः परिवृतं ज्वलन्तं ब्रह्मतेजसा ॥
गूढयोगं प्रवोचन्तं सिद्धाय पृच्छते मुदा ॥ ॥ १४५ ॥
पश्यन्तं सस्मितं नन्दभवनानां परिच्छदम् ॥
स्वर्णसिंहासनस्थं च योगमुद्राधरं वरम् ॥ १४६ ॥
भूतं भव्यं भविष्यं च पश्यन्तं ज्ञानचक्षुषा ॥
हृदीश्वरं प्रपश्यन्तं सिद्धं मन्त्रप्रभावतः ॥ १४७ ॥
बहिर्यशोदाक्रोडस्थं तादृशं सस्मितं शिशुम् ॥
महेशदत्तध्यानेन यद्रूपं च निरूपितम् ॥ १४८ ॥
तं दृष्ट्वा परमप्रीत्या पूर्णभूतमनोरथम् ॥
साश्रुनेत्रं पुलकितं निमग्नं भक्तिसागरे ॥ १४९ ॥
हृदि पूजां प्रणामं च कुर्वन्तं योगचर्यया ॥
मूर्ध्ना प्रणेमुस्ते तं च स च तानाशिषं ददौ ॥ 4.13.१५० ॥
आसनस्थो मुनिस्तस्थौ ते जग्मुः स्वालयं मुदा ॥
नन्दः स्वानन्दयुक्तश्च बन्धून्मङ्गलपत्रिकाः ॥ १५१ ॥
प्रस्थापयामास शीघ्रमाराद्दूरस्थितान्मुदा ॥
दधिकुल्यां दुग्धकुल्यां घृतकुल्यां प्रपूरिताम् ॥ १५२ ॥
गुडकुल्यां तैलकुल्यां मधुकुल्यां च विस्तृताम् ॥
नवनीतकुल्यां पूर्णां च तक्रकुल्यां यदृच्छया ॥ १५३ ॥
शर्करोदककुल्यां च परिपूर्णां च लीलया ॥
तण्डुलानां च शालीनामुच्चैश्च शतपर्वतान् ॥ १९४ ॥
पृथुकानां शैलशतं लवणानां च सप्त च ॥
सप्तशैलाच्छर्कराणां लड्डुकानां च सप्त च ॥ १५५ ॥
परिपक्वफलानां च तत्र षोडशपर्वतान् ॥
यवगोधूमचूर्णानां पक्वलड्डुकपिण्डकान् ॥ १५६ ॥
मोदकानां च शैलं च स्वस्तिकानां च पर्वतान् ॥
कपर्दकानामत्युच्चैः शैलान्सप्त च नारद ॥ १९७ ॥
कर्पूरादिकयुक्तानां ताम्बूलानां च मन्दिरम् ॥
विस्तृतं द्वारहीनं च वासितोदकसंयुतम् ॥ १५८ ॥
चन्दनागुरुकस्तूरीकङ्कुमेन समन्वितम् ॥
नानाविधानि रत्नानि स्वर्णानि विविधानि च ॥ १५९ ॥
मुक्ताफलानि रम्याणि प्रवालानि मुदाऽन्वितः ॥
नानाविधानि चारूणि वासांसि भूषणानि च ॥ 4.13.१६० ॥
पुत्रान्नप्राशने नन्दः कारयामास कौतुकात् ॥
संस्कारयुक्तं रुचिरं चन्दनद्रवचर्चितम् ॥ १६१ ॥
प्राङ्गणं कदलीस्तम्भै रसालनवपल्लवैः ॥
ग्रथितैः सूक्ष्मवस्त्रेण वेष्टयामास कौतुकात् ॥ १६२ ॥
युक्तं मङ्गलकुम्भैश्च फलपल्लवसंयुतैः ॥
चन्दनाऽगुरुकस्तूरीपुष्पमालाविराजितैः ॥ १६३ ॥
माल्यानां वरवस्त्राणां राशिभिश्च विराजितम् ॥
गवां च मधुपर्काणामासनानां च नारद ॥ १६४ ॥
फलानां जलकुम्भानां समूहैश्च समन्वितम् ॥
नानाप्रकारैर्वाद्यैश्च दुर्लभैः सुमनोहरैः ॥ १६५ ॥
ढक्कानां दुन्दुभीनां च पटहानां तथैव च ॥
मृदङ्गमुरजादीनामानकानां समूहकैः ॥ १६६ ॥
वंशीसन्नहनीकांस्यशरयन्त्रैश्च शब्दितम् ॥
विद्याधरीणां नृत्येन भृङ्गिमाभ्रमणेन च ॥ १६७ ॥
गन्धर्वनायकानां च सङ्गीतैर्मूर्च्छनायुतैः ॥
स्वर्णसिंहासनानां च रथानां निःस्वनैर्युतम् ॥ १६८ ॥
एतस्मिन्नन्तरे नन्दमुवाच वाचको मुदा ॥
आजग्मुर्बल्लवेन्द्राश्च बान्धवा बल्लवास्तथा ॥ १६९ ॥
अश्वस्थाश्च गजस्थाश्च रथस्थाश्चेति सत्वरम् ॥
आजग्मू राजपुत्राश्च रत्नालङ्कारभूषिताः ॥ 4.13.१७० ॥
आगतो गिरिभानुश्च सस्त्रीकश्च सकिङ्करः ॥
रथानां च चतुर्लक्षं गजानां च तथैव च ॥ १७१ ॥
तुरङ्गमाणां कोटिश्च शिबिकानां तथैव च ॥
ऋषीन्द्राणां मुनीन्द्राणां विप्राणां च विपश्चिताम् ॥ १७२ ॥
बन्दिनां भिक्षुकाणां च समूहैश्च समीपतः ॥
गोपानां गोपिकानां च सङ्ख्या कर्तुं च कः क्षमः ॥ १७३ ॥
पश्यागत्य बहिर्भूयेत्युवाच प्राङ्गणे स्थितः ॥
श्रुत्वैवं तानुपव्रज्य समानीय व्रजेश्वरः ॥ १७४ ॥
प्राङ्गणे वासयामास पूजयामास सत्वरम् ॥
ऋष्यादिकसमूहं च प्रणम्य शिरसा भुवि ॥
पाद्यादिकं च तेभ्यश्च प्रददौ सुसमाहितः ॥ १७५ ॥
वस्तुभिर्बन्धुभिः पूर्णं बभूव नन्दगोकुलम् ॥
न कोऽपि कस्य शब्दं च श्रोतुं शक्तश्च तत्र वै ॥१७६॥
त्रिमुहूर्तं कुबेरश्च श्रीकृष्णप्रीतये मुदा ॥
चकार स्वर्णवृष्ट्या च परिपूर्णं च गोकुलम् ॥ १७७ ॥
कौतुकापह्नवं चक्रुर्बन्धुवर्गाश्च क्रीडया ॥
आनम्रकन्धराः सर्वे दृष्ट्वा नन्दस्य सम्पदम्॥१७८॥
नन्दः कृताह्निकः पूतो धृत्वा धौते च वाससी॥
चन्दनागुरुकस्तूरी कुङ्कुमेनैव भूषितः॥१७९॥
उवास पादौ प्रक्षाल्य स्वर्णपीठे मनोहरे ॥
गर्गस्य च मुनीन्द्राणां गृहीत्वाऽऽज्ञां व्रजेश्वरः ॥4.13.१८०॥
संस्मृत्य विष्णुमाचान्तः स्वस्तिवाचनपूर्वकम् ॥
कृत्वा कर्म च वेदोक्तं भोजयामास बालकम् ॥ १६१ ॥
गर्गवाक्यानुसारेण बालकस्य मुदाऽन्वितः ॥
कृष्णेति मङ्गलं नाम ररक्ष च शुभे क्षणे ॥ १८२ ॥
सघृतं भोजयित्वा च कृत्वा नाम जगत्पतेः ॥
वाद्यानि वादयामास कारयामास मङ्गलम् ॥ १८३ ॥
नानाविधानि स्वर्णानि धनानि विविधानि च ॥
भक्ष्यद्रव्याणि वासांसि ब्राह्मणेभ्यो ददौ मुदा ॥ १८४ ॥
बन्दिभ्यो भिक्षुकेभ्यश्च सुवर्णं विपुलं ददौ ॥
भाराक्रान्ताश्च ते सर्वे न शक्ता गन्तुमेव च ॥ १८५ ॥
ब्राह्मणान्बन्धुवर्गांश्च भिक्षुकांश्च विशेषतः ॥
मिष्टान्नं भोजयामास परिपूर्णं मनोहरम् ॥ १८६ ॥
दीयतां दीयतां चैव खाद्यतां खाद्यतामिति ॥
बभूव शब्दोऽत्युच्चैश्च सततं नन्दगोकुले ॥ १८७ ॥
रत्नानि परिपूर्णानि वासांसि भूषणानि च ॥
प्रवालानि सुवर्णानि मणिसाराणि यानि च ॥ १८८ ॥
चारूणि स्वर्णपात्राणि कृतानि विश्वकर्मणा ॥
गत्वा गर्गाय विनयं चकार व्रजपुङ्गवः ॥ १८९ ॥
शिष्येभ्यः स्वर्णभाराणि प्रददौ विनयान्वितः ॥
द्विजेभ्योऽप्यवशिष्टेभ्यः परिपूर्णानि नारद॥4.13.१९० ॥ ॥
॥ श्रीनारायण उवाच ॥
गृहीत्वा श्रीहरिं गर्गो जगाम निभृतं मुदा ॥
तुष्टाव परया भक्त्या प्रणम्य च तमीश्वरम् ॥ १९१ ॥
साश्रुनेत्रः सपुलको भक्तिनम्रात्मकन्धरः ॥
पुटाञ्जलियुतो भूत्वोवाच कृष्णपदाम्बुजे ॥ १९२ ॥
गर्ग उवाच ॥
हे कृष्ण जगतां नाथ भक्तानां भयभञ्जन ॥
प्रसन्नो भव मामीश देहि दास्यं पदाम्बुजे ॥१९३॥
त्वत्पित्रा मे धनं दत्तं तेन मे किं प्रयोजनम् ॥
देहि मे निश्चलां भक्तिं भक्तानामभयप्रद ॥ १९४ ॥
अणिमादिकसिद्धिषु योगेषु मुक्तिषु प्रभो ॥
ज्ञानतत्त्वेऽमरत्वे वा किञ्चिन्नास्ति स्पृहा मम ॥ १९५ ॥
इन्द्रत्वे वा मनुत्वे वा स्वर्गलोकफले चिरम् ॥
नास्ति मे मनसो वाञ्छा त्वत्पादसेवनं विना ॥ १९६ ॥
सालोक्यं सार्ष्टिसारूप्ये सामीप्यैकत्वमीप्सितम् ॥
नाहं गृह्णामि ते ब्रह्मंस्त्वत्पादसेवनं विना ॥१९७॥
गोलोके वापि पाताले वासे नास्ति मनोरथः ॥
किन्तु ते चरणाम्भोजे सन्ततं स्मृतिरस्तु मे ॥१९८॥
त्वन्मन्त्रं शङ्करात्प्राप्य कतिजन्मफलोदयात् ॥
सर्वज्ञोऽहं सर्वदर्शी सर्वत्र गतिरस्तु मे ॥ १९९ ॥
कृपां कुरु कृपासिन्धो दीनबन्धो पदाम्बुजे ॥
रक्ष मामभयं दत्त्वा मृत्युर्मे किं करिष्यति ॥ ॥ 4.13.२०० ॥
सर्वेषामीश्वरः सर्वस्त्वत्पादाम्भोजसेवया ॥
मृत्युञ्जयोऽन्तकालश्च बभूव योगिनां गुरुः ॥२०१॥
ब्रह्मा विधाता जगतां त्वत्पादाम्भोजसेवया ॥
यस्यैकदिवसे ब्रह्मन्पतन्तीन्द्राश्चतुर्दश ॥२०२॥
त्वत्पादसेवया धर्मः साक्षी च सर्वकर्मणाम्॥
पाता च फलदाता च जित्वा कालं सुदुर्जयम् ॥२०३॥
सहस्रवदनः शेषो यत्पादाम्बुजसेवया ॥
धत्ते सिद्धार्थवद्विश्वं शिवः कण्ठे विषं यथा ॥ ॥ २०४ ॥
सर्वसम्पद्विधात्री या देवीनां च परात्परा॥
करोति सततं लक्ष्मीः केशैस्त्वत्पादमार्जनम् ॥२०५॥
प्रकृतिर्बीजरूपा सा सर्वेषां शक्तिरूपिणी ॥
स्मारंस्मारं त्वत्पदाब्जं बभूव तत्परावरा ॥ २०६ ॥
पार्वती सर्वरूपा सा सर्वेषां बुद्धिरूपिणी॥
त्वत्पादसेवया कान्तं ललाभ शिवमीश्वरम् ॥ २०७ ॥
विद्याधिष्ठात्री देवी या ज्ञानमाता सरस्वती ॥
पूज्या बभूव सर्वेषां सम्पूज्य त्वत्पदाम्बुजम्॥२०८॥
सावित्री वेदजननी पुनाति भुवनत्रयम् ॥
ब्रह्मणो ब्राह्मणानां च गतिस्त्वत्पादसेवया ॥ २०९ ॥
क्षमा जगद्विभर्तुं च रत्नगर्भा वसुन्धरा ॥
प्रसूतिः सर्वसस्यानां त्वत्पादपद्मसेवया ॥4.13.२१०॥
राधा ममांशसम्भूता तव तुल्या च तेजसा ॥
स्थित्वा वक्षसि ते पादं सेवतेऽन्यस्य का कथा ॥ २११ ॥
यथा शर्वादयो देवा देव्यः पद्मादयो यथा ॥
सनाथं कुरु मामीश ईश्वरस्य समा कृपा ॥२१२॥
न यास्यामि गृहं नाथ न गृह्णामि धनं तव ॥
कृत्वा मां रक्ष पादाब्जसेवायां सेवकं रतम् ॥ २१३ ॥
इति स्तुत्वा साश्रुनेत्रः पपात चरणे हरेः ॥
रुरोद च भृशं भक्त्या पुलकाञ्चितविग्रहः ॥ २१४ ॥
गर्गस्य वचनं श्रुत्वा जहास भक्तवत्सलः ॥
उवाच तं स्वयं कृष्णो मयि ते भक्तिरस्त्विति ॥ २१५ ॥
इदं गर्गकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ॥
दृढां भक्तिं हरेर्दास्यं स्मृतिं च लभते ध्रुवम् ॥ ॥ २१६ ॥
जन्ममृत्युजरारोगशोकमोहादिसङ्कटात् ॥
तीर्णो भवति श्रीकृष्णदाससेवनतत्परः ॥ २१७ ॥
कृष्णस्य सहकालं च कृष्णसार्द्धं च मोदते ॥
कदाचिन्न भवेत्तस्य विच्छेदो हरिणा सह ॥ २१८ ॥
श्रीनारायण उवाच ॥ ॥
हरिं मुनिः स्तवं कृत्वा ददौ नन्दाय तं मुदा ॥
उवाच तं गृहं यामि कुर्वाज्ञामिति बल्लव ॥२१९ ॥
अहो विचित्रं संसारो मोहजालेन वेष्टितः ॥
सम्मीलनं च विरहो नराणां सिन्धुफेनवत् ॥ 4.13.२२०॥
गर्गस्य वचनं श्रुत्वा रुरोद नन्द एव च ॥
सद्विच्छेदो हि साधूनां मरणादतिरिच्यते॥२२१॥
सर्वशिष्यैः परिवृतं मुनीन्द्रं गन्तुमुद्यतम् ॥
सर्वे नन्दादयो गोपा रुदन्तौ गोपिकास्तदा ॥ २२२ ॥
प्रणेमुः परमप्रीत्या चक्रुस्तं विनयं मुने ॥
दत्त्वाऽऽशिषं मुनिश्रेष्ठो जगाम मथुरां मुदा ॥ २२३ ॥
ऋषयो मुनयश्चैव बन्धुवर्गाश्च बल्लवाः ॥
सर्वे जग्मुर्धनैः पूर्णाः स्वालयं हृष्टमानसाः ॥ २२४ ॥
प्रजग्मुर्बन्दिनः सर्वे परिपूर्णमनोरथाः ॥
मिष्टद्रव्यांशुकोत्कृष्टतुरगस्वर्णभूषणैः ॥ २२५ ॥
आकण्ठपूर्णा भुक्त्या च भिक्षुका गन्तुमक्षमा॥
स्वर्णवस्त्रभरोद्रेकपरिश्रान्ता मुदाऽन्विताः॥२२६॥
सुमन्दगामिनः केचित्केचिद्भूमौ च शेरते॥
केचिद्वर्त्मनि तिष्ठन्तश्चोत्तिष्ठन्तश्च केचन ॥ २२७ ॥
केचिदूषुः प्रमुदिता हसन्तस्तत्र केचन ॥
कपर्दकानां वस्तूनां शेषांश्चोर्वरितान्बहून्। २२८॥
केचित्तानाददुः स्थित्वा दर्शयन्तश्च केचन ॥
केचिन्नृत्यं प्रकुर्वन्तो गायन्तस्तत्र केचन॥२२९॥
केचिद्बहुविधा गाथाः कथयन्तः पुरातनाः ॥
मरुत्तश्वेतसगरमान्धातॄणां च भूभृताम् ॥ 4.13.२३० ॥
उत्तानपादनहुषनलादीनां च याः कथाः ॥
श्रीरामस्याश्वमेधस्य रन्तिदेवस्य कर्मणाम् ॥२३१॥
येषांयेषां नृपाणां च श्रुता वृद्धमुखात्कथाः॥
कथयन्तश्च ताः केचिच्छ्रुतवन्तश्च केचन॥२३२ ॥
स्थायंस्थायं गताः केचित्स्वापंस्वापं च केचन ॥
एवं सर्वे प्रमुदिताः प्रजग्मुः स्वालयं मुदा ॥ २३३ ॥
हृष्टो नन्दो यशोदा च बालं कृत्वा च वक्षसि ॥
तस्थौ स्वमन्दिरे रम्ये कुबेरभवनोपमे॥ २३४॥
एवं प्रवर्द्धितौ बालौ शुक्लचन्द्रकलोपमौ ॥
गवां पुच्छं च भित्तिं च धृत्वा चोत्तस्थतुर्मुदा॥२३५॥
शब्दार्द्धं वा तदर्द्धं वा क्षमौ वक्तुं दिनेदिने॥
पित्रोर्हर्षं च वर्द्धन्तौ गच्छन्तौ प्राङ्गणे मुने॥२३६॥
बालो द्विपादं पादं वा गन्तुं शक्तो बभूव ह॥
गन्तुं शक्तो हि जानुभ्यां प्राङ्गणे वा गृहे हरिः ॥२३७॥
वर्षाधिको हि वयसा कृष्णात्सङ्कर्षणः स्वयम् ॥
ततो मुदं वर्द्धयन्तौ वर्द्धितौ च दिनेदिने॥२३८॥
व्रजन्तौ गोकुले बालौ प्रहृष्टगमने क्षमौ ॥
उक्तवन्तौ स्फुटं वाक्यं माया बालकविग्रहौ ॥ २३९ ॥
गर्गो जगाम मथुरां वसुदेवाश्रमं मुने ॥
स तं ननाम पप्रच्छ पुत्रयोः कुशलं तयोः ॥ 4.13.२४० ॥
मुनिस्तं कथयामास कुशलं सुमहोत्सवम् ॥
आनन्दाश्रुनिमग्नश्च श्रुतमात्राद्बभूव ह ॥ २४१ ॥
देवकी परमप्रीत्या पप्रच्छ च पुनःपुनः ॥
आनन्दाश्रुनिमग्ना सा रुरोद च मुहुर्मुहुः ॥ २४२ ॥
गर्गस्तावाशिषं दत्त्वा जगाम स्वालयं मुदा ॥
स्वगृहे तस्थतुस्तौ च कुबेरभवनोपमे ॥ २४३ ॥
श्रीनारायण उवाच ॥
यत्र कल्पे कथा चेयं तत्र त्वमुपबर्हणः ॥
पञ्चाशत्कामिनीनां च पतिर्गन्धर्वपुङ्गवः ॥ २४४ ॥
तासां प्राणाधिकस्त्वं च शृङ्गारनिपुणो युवा ॥
ततोऽभूद्ब्रह्मणः शापाद्दासीपुत्रो द्विजस्य च ॥ २४५ ॥
ततोऽधुना ब्रह्मपुत्रो वैष्णवोच्छिष्टभोजनात् ॥
सर्वदर्शी च सर्वज्ञः स्मारको हरिसेवया ॥ २४६ ॥
कथितं कृष्णचरितं नामान्नप्राशनादिकम् ॥
जन्ममृत्युजरातिघ्नमपरं कथायामि ते ॥२४७॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे कृष्णान्नप्राशन वर्णननामकरणप्रस्तावो नाम त्रयोदशोऽध्यायः ॥ १३ ॥