०१२

श्रीनारायण उवाच ॥ ॥
एकदा मन्दिरे नन्दपत्नी साऽऽनन्दपूर्वकम् ॥
कृत्वा वक्षसि गोविन्दं क्षुधितं च स्तनं ददौ ॥ १ ॥
एतस्मिन्नन्तरे गोप्य आजग्मुर्नन्दमन्दिरम् ॥
स्थविराश्च वयस्याश्च बालिका बालकान्विताः ॥ २ ॥
अतृप्तं बालकं शीघ्रं सन्न्यस्य शयने सती ॥
प्रणनाम समुत्थाय कर्मण्यौत्थानिके मुदा ॥ ३ ॥
तैलसिन्दूरताम्बूलं ददौ ताभ्यो मुदाऽन्विता॥
मिष्टवस्तूनि वस्त्राणि भूषणानि च गोपिका ॥ ४ ॥
एतस्मिन्नन्तरे कृष्णो रुरोद क्षुधितस्तदा ॥
प्रेरयित्वा स चरणं मायेशो मायया विभुः ॥५॥
पपात चरणं तस्य प्रवीणे शकटे मुने ॥
विश्वम्भरपदाघातात्तच्च चूर्णं बभूव ह ॥ ६ ॥
बभञ्ज शकटं पेतुर्भग्नकाष्ठानि तत्र वै ॥
पपात दधि दुग्धं च नवनीतं घृतं मधु ॥७॥
दृष्ट्वाऽऽश्चर्यं गोपिकाश्च दुद्रुवुर्बालकं भयात्॥
ददृशुर्भग्नशकटमिन्धनाभ्यन्तरे शिशुम्॥८॥
भग्नभाण्डसमूहं च पतितं बहुगोरसम् ॥
प्रेरयित्वा तु काष्ठानि जग्राह बालकं भिया ॥ ९ ॥
मायारक्षितसर्वाङ्गं रुदितं क्षुधितं क्षुधा॥
स्तनं ददौ यशोदा तं रुरोद च भृशं शुचा ॥ 4.12.१० ॥
पप्रच्छुर्बालकान्गोपा बभञ्ज शकटं कथम् ॥
किञ्चिद्धेतुं न पश्यामः सहसेति किमद्भुतम् ॥ ११ ॥
इत्यूचुर्बालकाः सर्वे गोपाः शृणुत मद्वचः ॥
श्रीकृष्णस्य पदाघाताद्बभञ्ज शकटं ध्रुवम् ॥१२॥
श्रुत्वा तद्वचनं गोपा गोप्यश्च जहसुर्मुदा ॥
न हि जग्मुः प्रतीतिं च मिथ्येत्यूचुर्व्रजे प्रजाः ॥ १३ ॥
शिशोः स्वस्त्ययनं कार्यं चक्रुर्ब्राह्मणपुङ्गवाः ॥
हस्तं दत्त्वा शिशोर्गात्रे पपाठ कवचं द्विजः ॥ १४ ॥
वदामि तत्ते विप्रेन्द्र कवचं सर्वरक्षणम् ॥
यद्दत्तं मायया पूर्वं ब्रह्मणे नाभिपङ्कजे ॥१५॥
निद्रिते जगतीनाथे जले च जलशायिनि ॥
भीताय स्तुतिकर्त्रे च मधुकैटभयोर्भयात् ॥ १६ ॥
योगनिद्रोवाच ॥
दूरीभूतं कुरु भयं भयं किं ते हरौ स्थिते ॥
स्थितायां मयि च ब्रह्मन्सुखी तिष्ठ जगत्पते ॥१७॥
श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः ॥
श्रीकृष्णश्चक्षुषी पातु नासिकां राधिकापतिः ॥ १८ ॥
कर्णयुग्मं च कण्ठं च कपालं पातु माधवः ॥
कपोलं पातु गोविन्दः केशांश्च केशवः स्वयम् ॥१९॥
अधरोष्ठं हृषीकेशो दन्तपङ्क्तिं गदाग्रजः ॥
रासेश्वरश्च रसनां तालुकं वामनो विभुः ॥ 4.12.२० ॥
वक्षः पातु मुकुन्दश्च जठरं पातु दैत्यहा ॥
जनार्दनः पातु नाभिं पातु विष्णुश्च मेहनम् ॥ २१ ॥
नितम्बयुग्मं गुह्यं च पातु ते पुरुषोत्तमः ॥
जानुयुग्मे जानकीशः पातु ते सर्वदा विभुः ॥ २२ ॥
हस्तयुग्मं नृसिंहश्च पातु सर्वत्र सङ्कटे ॥
पादयुग्मं वराहश्च पातु ते कमलोद्भवः ॥ २३ ॥
ऊर्ध्वं नारायणः पातु ह्यधस्तात्कमलापतिः ॥
पूर्वस्यां पातु गोपालः पातु वह्नौ दशास्यहा ॥ २४ ॥
वनमाली पातु याम्यां वैकुण्ठः पातु नैर्ऋतौ ॥
वारुण्यां वासुदेवश्च सतो रक्षाकरः स्वयम् ॥ २५ ॥
पातु ते सन्ततमजो वायव्यां विष्टरश्रवाः ॥
उत्तरे च सदा पातु तेजसा जलजासनः ॥ २६ ॥
ऐशान्यामीश्वरः पातु पातु सर्वत्र शत्रुजित् ॥
जले स्थले चान्तरिक्षे निद्रायां पातु राघवः ॥ २७ ॥
इत्येवं कथितं ब्रह्मन्कवचं परमाद्भुतम् ॥
कृष्णेन कृपया दत्तं स्मृतेनैव पुरा मया ॥ २८ ॥
शुम्भेन सह सङ्ग्रामे निर्लक्ष्ये घोरदारुणे ॥
गगने स्थितया सद्यः प्राप्तिमात्रेण सो जितः ॥ २९ ॥
कवचस्य प्रभावेण धरण्यां पतितो मृतः॥
पूर्वं वर्षशतं खे च कृत्वा युद्धं भयावहम् ॥ 4.12.३० ॥
मृते शुम्भे च गोविन्दः कृपालुर्गगनस्थितः ॥
मालां च कवचं दत्त्वा गोलोकं स जगाम ह ॥ ३१ ॥
कल्पान्तरस्य वृत्तान्तं कृपया कथितं मुने ॥
अभ्यन्तरभयं नास्ति कवचस्य प्रभावतः ॥ ३२ ॥
कोटिशः कोटिशो नष्टा मया दृष्टाश्च वेधसः ॥
अहं च हरिणा सार्द्धं कल्पेकल्पे स्थिरा सदा ॥ ३३ ॥
इत्युक्त्वा कवचं दत्त्वा साऽन्तर्धानं चकार ह ॥
निःशङ्को नाभिकमले तस्थौ स कमलोद्भवः ॥ ३४ ॥
सुवर्णगुटिकायां च कृत्वेदं कवचं परम् ॥
कण्ठे वा दक्षिणे बाहौ बध्नीयाद्यः सुधीः सदा ॥ ३५ ॥
विषाग्निजलशत्रुभ्यो भयं तस्य न जायते ॥
जले स्थले चान्तरिक्षे निद्रायां रक्षतीश्वरः ॥ ३६ ॥
सङ्ग्रामे वज्रपाते च विपत्तौ प्राणसङ्कटे ॥
कवचस्मरणादेव सद्यो निःशङ्कतां व्रजेत् ॥ ३७ ॥
बद्ध्वेदं कवचं कण्ठे शङ्करस्त्रिपुरं पुरा ॥
जघान लीलामात्रेण दुरन्तमसुरेश्वरम् ॥ ३८ ॥
बद्ध्वेदं कवचं काली रक्तबीजं चखाद सा ॥
सहस्रशीर्षा धृत्वेदं विश्वं धत्ते तिलं यथा ॥ ३९ ॥
आवां सनत्कुमारश्च धर्मसाक्षी च कर्मणाम् ॥
कवचस्य प्रभावेण सर्वत्र जयिनो वयम् ॥ 4.12.४० ॥
तस्य नन्दशिशोः कण्ठे चकार कवचं द्विजः ॥
आत्मनः कवचं कण्ठे दधार च स्वयं हरिः ॥ ४१ ॥
प्रभावः कथितः सर्वः कवचस्य हरेस्तथा ॥
अनन्तस्याच्युतस्यैव प्रभावमतुलं मुने ॥ ४२ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शकटभञ्जनयोगनिद्रोक्तकवचन्यासो नाम द्वादशोऽध्यायः ॥ १२ ॥