०११

॥ श्रीनारायण उवाच ॥
एकदा गोकुले साध्वी यशोदा नन्दगेहिनी ॥
गृहकर्मणि संसक्ता कृत्वा बालं स्ववक्षसि ॥ १ ॥
वात्यारूपं तृणावर्तमागच्छन्तं च गोकुलम् ॥
श्रीहरिर्मनसा ज्ञात्वा भारयुक्तो बभूव ह॥ २ ॥
भाराक्रान्ता यशोदा च तत्याज बालकं तदा ॥
शयनं कारयित्वा च जगाम यमुनां मुने ॥ ३ ॥
एतस्मिन्नन्तरे त वात्यारूपधरोऽसुरः ॥
आदाय तं भ्रामयित्वा गत्वा च शतयोजनम् ॥ ४ ॥
बभञ्ज वृक्षशाखाश्च ह्यन्धीभूतं च गोकुलम् ॥
चकार सद्यो मायावी पुनस्तत्र पपात ह ॥ ५ ॥
असुरोऽपि हरिस्पर्शाज्जगाम हरिमन्दिरम् ॥
सुन्दरं रथमारुह्य कृत्वा कर्मक्षयं स्वकम् ॥ ६ ॥
पाण्ड्यदेशोद्भवो राजा शापाद्दुर्वाससोऽसुरः ॥
श्रीकृष्णचरणस्पर्शाद्गोलोकं स जगाम ह ॥ ७ ॥
वात्यारूपे गते गोपा गोप्यश्च भयविह्वलाः ॥
न दृष्ट्वा बालकं तत्र शयानं शयने मुने॥ ८ ॥
सर्वे निजघ्नुः स्वं वक्षस्थलं शोकाकुला भयात् ॥
केचिन्मूर्छामवापुश्च रुरुदुश्चापि केचन ॥ ९ ॥
अन्वेषणं प्रकुर्वन्तो ददृशुर्बालकं व्रजे ॥
धूलिधूसरसर्वाङ्गं पुष्पोद्यानान्तरस्थितम् ॥ 4.11.१० ॥
बाह्यैकदेशे सरसस्तीरे नीरसमन्विते ॥
पश्यन्तं गगनं शश्वद्वदन्तं भयकातरम् ॥ ११ ॥
गृहीत्वा बालकं नन्दः कृत्वा वक्षसि सत्वरम् ॥
दर्शं दर्शं मुखं तस्य रुरोद च शुचाऽन्वितः ॥ १२ ॥
यशोदा रोहिणी शीघ्रं दृष्ट्वा बालं रुरोद च ॥
कृत्वा वक्षसि तद्वक्त्रं चुचुम्ब च मुहुर्मुहुः ॥ १३ ॥
मङ्गलं कारयामास स्नापयामास बालकम् ॥
स्तनं ददौ यशोदा च प्रसन्नवदनेक्षणा ॥ १४ ॥
॥ नारद उवाच ॥ ॥
कथं शशाप दुर्वासाः पाण्ड्यदेशोद्भवं नृपम् ॥
सुविचार्य वद ब्रह्मन्नितिहासं पुरातनम् ॥ १५ ॥
॥ श्रीनारायण उवाच ॥ ॥
पाण्ड्यदेशाधिपो राजा सहस्राक्षः प्रतापवान् ॥
स्त्रीसहस्रं समादाय कामबाणप्रपीडितः ॥ १६ ॥
मनोहरे निर्जने च पर्वते गन्धमादने ॥
विजहार नदीतीरे पुष्पोद्याने मनोरमे ॥ १७ ॥
नानाप्रकारशृगारं विपरीतादिकं नृपः ॥
नखदन्तक्षताङ्गं च कामिनीनां चकार सः ॥ १८ ॥
कृत्वा मूर्तिसहस्रं च योगीन्द्रो नृपतीश्वरः ॥
कृत्वा स्थलविहारं च जलक्रीडां चकार ह ॥ १९ ॥
नार्यो विवसनाः सर्वा नग्नाश्च नृपयोषितः ॥
विजह्रुश्च पुष्पभद्रानदीतीरे मनोहरे ॥ 4.11.२० ॥
एतस्मिन्नन्तरे तत्र समायातो महामुनिः ॥
शिष्यलक्षैः परिवृतो गच्छन्वै शङ्करं प्रति ॥ २१ ॥
दृष्ट्वा मुनिं महामत्तो नोत्तस्थौ न ननाम ह ॥
वाचा हस्तेन राजा च सम्भाषां न चकार ह ॥ २२ ॥
दृष्ट्वा चुकोप नृपतिं शशाप स्फुरिताधरः ॥
असुरो भव पापिष्ठ योगाद्भ्रष्टो भुवं व्रज ॥२३ ॥
भारते लक्षवर्षं च स्थातव्यं ते नराधम ॥
ततो हरिपदस्पर्शाद्गोलोकं यास्यसि ध्रुवम् ॥ २४ ॥
स्थानेस्थाने हे महिष्यो जनिं लभत भारते ॥
राजेन्द्रगेहे राजेन्द्राद्भविष्यथ मनोहराः ॥ २५ ॥
इत्युक्त्वा तु मुनीन्द्रस्तु जगाम शङ्करालयम् ॥
हा हा शब्दं विचक्रुश्च शिष्यसङ्घाः कृपालवः ॥ २६ ॥
गते मुनीन्द्रे राजेन्द्रो रुरोद च सरित्तटे ॥
रुरुदू रमणीयाश्च रमण्यो विरहातुराः ॥ ॥ २७ ॥
हे नाथ रमणश्रेष्ठेत्युच्चार्य च पुनः पुनः ॥
त्वां विना वा क्व यास्यामो वयं त्वं वा क्व यास्यसि॥ २८ ॥
वयं नो विहरिष्यामस्त्वया सार्द्धं सुनिर्जने ॥
न करिष्यसि राज्यं त्वं न यास्यामो गृहं वयम् ॥ २९ ॥
शरच्चन्द्रप्रभामुष्टं न द्रक्ष्यामो मुखं तव ॥
प्रसारिताभ्यां बाहुभ्यां नानयिष्याम इत्यतः ॥4.11.३०॥
इत्युक्त्वा रुरुदुः सर्वाः पुरस्कृत्य नराधिपम् ॥
मूर्छामवापुश्चरणं धृत्वा राज्ञः सरित्तटे ॥ ३१ ॥
राजाऽग्निकुण्डमाधाय नारीभिः सह नारद ॥
स्मृत्वा हरिपदाम्भोजं ज्वलदग्निं विवेश ह ॥३२॥
हाहाकारं सुराः सर्वे विचक्रुर्गगने स्थिताः॥
इत्यूचुर्मुनयश्चैव दैवं च बलवत्तरम्॥३३॥
स च राजा तृणावर्तो जगाम हरिमन्दिरम्॥
महिष्यो भारते वर्षे लेभिरे जन्म वाञ्छितम् ॥ ३४ ॥
इत्येवं कथितं सर्वं हरेर्माहात्म्य मुत्तमम् ॥
माक्षणं नृपतेश्चैव मुनीन्द्रशापहेतुकम् ॥ ३५ ॥
इति श्रीब्र० म० श्रीकृष्णज० नारायणनारदसंवादे तृणावर्तवधो नामै कादशोऽध्यायः ॥ ११ ॥