॥ श्रीनारायण उवाच ॥ ॥
अथ कंसः सभामध्ये स्वर्णसिंहासनस्थितः ॥
शुश्राव वाचं गगने सूनृतामशरीरिणीम् ॥ १ ॥
किं करोषि महामूढ चिन्तां स्वश्रेयसः कुरु ॥
जातः कालो धरण्यां ते तिष्ठोपाये नराधिप ॥ २ ॥
नन्दाय तनयं दत्त्वा वसुदेवस्तवान्तकम् ॥
कन्यामादाय तुभ्यं च दत्त्वा सम्मायया स्थितः॥३॥
मायांशा कन्यकेयं च वासुदेवः स्वयं हरिः ॥
तव हन्ता गोकुले च वर्द्धते नन्दमन्दिरे ॥ ४ ॥
देवक्याः सप्तमो गर्भो वर्द्धते नन्दमन्दिरे ॥
देवक्याः सप्तमो गर्भो न सुस्रावामृतं सुतम् ॥ ९ ॥
स्थापयामास मायो तं रोहिणीजठरे किल ॥
तत्र जातश्च शेषांशो बलदेवो महाबलः ॥ ६ ॥
गोकुले तौ च वर्धेते कालौ ते नन्दमन्दिरे ॥
श्रुत्वेति वचनं राजा बभूवानम्रकन्धरः ॥ ७ ॥
चिन्तामवाप सहसा तत्याजाहारमुन्मनाः ॥
पूतनां च समानीय प्राणेभ्यः प्रेयसीं सतीम् ॥ ८ ॥
उवाच भगिनीं राजा सभामध्ये च नीतिवित् ॥
॥कंस उवाच ॥ ॥
पूतने गोकुलं गच्छ कार्यार्थं नन्दमन्दिरम् ॥ ९ ॥
विषाक्तं च स्तनं कृत्वा शिशवे देहि सत्वरम् ॥
त्वं मनोयायिनी वत्से मायाशास्त्रविशारदा ॥ 4.10.१० ॥
मायामानुषरूपं च विधाय व्रज योगिनि ॥
दुर्वाससो महामन्त्रं प्राप्य सर्वत्रगामिनी ॥ ११ ॥
सर्वरूपं विधातुं त्वं शक्तासि सुप्रतिष्ठिते ॥
इत्युक्त्वा तां महाराजस्तस्थौ संसदि नारद ॥ १२ ॥
जगाम पूतना कंसं प्रणम्य कामचारिणी ॥
तप्तकाञ्चनवर्णाभा नानालङ्कारभूषिता ॥ १३ ॥
बिभ्रती कबरीभारं मालतीमाल्यसंयुतम् ॥
कस्तूरीबिन्दुना युक्तं सिन्दूरं दधती मुदा ॥ ॥ १४ ॥
मञ्जीररशनाभ्यां च कलशब्दं प्रकुर्वती ॥
सम्प्राप्य गोष्ठं दुर्दर्शं नन्दालयमनोहरम् ॥ १५ ॥
परिखाभिर्गभीराभिर्दुर्लङ्घ्याभिश्च वेष्टितम् ॥
रचितं प्रस्तरैर्दिव्यैर्निर्मितं विश्वकर्मणा ॥ १६ ॥
इन्द्रनीलैर्मरकतैः पद्मरागैश्च भूषितम् ॥
सुवर्णकलशैर्दिव्यैश्चित्रितैः शेखरोज्ज्वलैः ॥ १७ ॥
प्राकारैर्गगनस्पर्शैश्चतुर्द्वारसमन्वितैः ॥
युक्तं लोहकपाटैश्च द्वारपालसमन्वितैः ॥ १८ ॥
वेष्टितं सुन्दरं रम्यं सुन्दरीगणवेष्टितम् ॥
मुक्तामाणिक्यपरशैः पूर्णरत्नादिभिर्धनैः ॥ १९ ॥
स्वर्णपात्रवटाकीर्णं गवां कोटिभिरन्वितम्॥
भरणीयैः किङ्करैश्च गोपलक्षैः समन्वितम् ॥ 4.10.२० ॥
दासीनां च सहस्रैश्च कर्मव्यग्रैः समन्वितम् ॥
प्रविवेशाश्रमं साध्वी सस्मिता सुमनोहरा । ॥ २१ ॥
दृष्ट्वा तां प्रविशन्तीं च गोप्यो दृष्ट्वानुमेनिरे ॥
किं वा पद्मालया दुर्गा कृष्णं द्रष्टुं समागता ॥ २२ ॥
प्रणेमुर्गोपिका गोपाः पप्रच्छुः कुशलं च ताम् ॥
ददौ सिंहासनं पाद्यं वासयामास तत्र वै ॥ २३ ॥
पप्रच्छ कुशलं सा च गोपानां बालकस्य च ॥
उवास सस्मिता साध्वी पाद्यं जग्राह सादरम् ॥ २४ ॥
तामूचुर्गोपिकाः सर्वाः का त्वमीश्वरि साम्प्रतम् ॥
वासस्ते कुत्र किं नाम किं वात्र कर्म नो वद ॥ २५ ॥
तासां च वचनं श्रुत्वा साप्युवाच मनोहरम् ॥
मथुरावसिनी गोपी साम्प्रतं विप्रकामिनी ॥ २६ ॥
श्रुतं वाचिकवक्त्रेण तत्त्वं मङ्गलसूचकम् ॥
बभूव स्थविरे काले नन्दपुत्रो महानिति ॥ २७ ॥
श्रुत्वागताहं तं द्रष्टुमाशिषं कर्तुमीप्सिताम् ॥ ।
पुत्रमानय तं दृष्ट्वा यामि कृत्वा तमाशिषम् ॥ २८ ॥
ब्राह्मणीवचनं श्रुत्वा यशोदा हृष्टमानसा ॥
प्रणमय्य सुतं क्रोडे ददौ ब्राह्मणयोषितः ॥ २९ ॥
कृत्वा क्रोडे तु तं साध्वी चुचुम्ब च पुनः पुनः ॥
स्तनं ददौ सुखासीना हरिं पुण्यवती सती ॥ ॥ 4.10.३० ॥
अहोद्भुतोऽयं बालस्त सुन्दरो गोपसुन्दरि ॥
गुणैर्नारायणसमो बालोयमित्युवाच ह ॥ ३१ ॥
कृष्णो विषस्तनं पीत्वा जहास वक्षसि स्थितः ॥
तस्याः प्राणैः सह पपौ विषक्षीरं सुधामिव ॥ ३२ ॥
तत्याज बालकं साध्वी प्राणांस्त्यक्त्वा पपात ह ॥
विकृताकारवदना चोत्तानवदना मुने ॥ ३३ ॥
स्थूलदेहं परित्यज्य सृक्ष्मदेहं विवेश सा ॥
आरुरोह रथं शीघ्रं रत्नसारविनिर्मितम् ॥ ३४ ॥
पार्षदप्रवरैर्दिव्यैर्वेष्टितं सुमनोहरैः ॥
श्वेतचामरलक्षेण शोभितं लक्षदर्पणैः ॥ ३५ ॥
वह्निशौचेन वस्त्रेण सूक्ष्मेण भूषितं वरम् ॥
नानाचित्रविचित्रैश्च सद्रत्नकलशैर्युतम् ॥ ३६ ॥
सुन्दरं शतचक्रं च वलितं रत्नतेजसा ॥
पार्षदास्तां रथे कृत्वा जग्मुर्गोलोकमुत्तमम् ॥ ३७ ॥
दृष्ट्वा तमद्भुतं लोका गोपिकाश्चातिविस्मिताः ॥
कंसः श्रुत्वा च तत्सर्वं विस्मितश्च बभूव ह ॥ ३८ ॥
यशोदा बालकं नीत्वा क्रोडे कृत्वा स्तनं ददौ ॥
मङ्गलं कारयामास विप्रद्वारा शिशोर्मुने ॥ ३९ ॥
ददाह देहं तस्याश्च नन्दः सानन्दर्पूवकम् ॥
चन्दनागुरुकस्तूरीसमं सम्प्राप्य सौरभम् ॥ 4.10.४० ॥
नारद उवाच ॥ ॥
सा वा का राक्षसीरूपा कथं पुण्यवती सती ॥
केन पुण्येन तं दृष्ट्वा जगाम कृष्णमन्दिरम् ॥ ४१ ॥
॥ श्रीनारायण उवाच ॥ ॥
बलियज्ञे वामनस्य दृष्ट्वा रूपं मनोहरम्॥
बलिकन्या रत्नमाला पुत्रस्नेहं चकार तम् ॥ ४२ ॥
मनसा मानसं चक्रे पुत्रस्य सदृशो मम ॥
पिबेद्यदि स्तनं कृष्णः करोमि तं च वक्षसि ॥ ४३ ॥
हरिस्तन्मानसं ज्ञात्वा पपौ जन्मान्तरे स्तनम् ॥
ददौ मातृगतिं तस्यै कामपूरः कृपानिधिः ॥ ४४ ॥
दत्त्वा विषस्तनं कृष्णं पूतना राक्षसी मुने ॥
भक्त्या मातृगतिं प्राप कं भजाम विना हरिम् ॥ ४५ ॥
इत्येवं कथितं विप्र श्रीकृष्ण गुणकीर्तनम् ॥
पदेपदे सुमधुरं प्रवरं कथयामि ते॥४६॥
इति श्रीब्र० म० पु० श्रीकृ०ना०स० पूतनामोक्षो नाम दशमोऽध्यायः॥१०॥