नारद उवाच ॥
संस्थाप्य गोकुले कृष्णं यशोदामन्दिरं वसुः ॥
जगाम स्वगृहं नन्दः किं चकार महां प्रभुः ॥ १ ॥
किञ्चकार हरिस्तत्र कतिवर्षस्थितिः प्रभोः ॥
बालक्रीडनकं तस्य वर्णय क्रमशो मुने ॥ २ ॥
पुरा कृता या प्रतिज्ञा गोलोके राधया सह ॥
तत्कृतं केन विधिना प्रतिज्ञापालनं हरेः ॥ ३ ॥
कीदृग्वृन्दावनं नाम मण्डलं किंविधं वद ॥
रासक्रीडां जलक्रीडां संव्यस्य वर्णय प्रभो ॥ ४ ॥
नन्दस्तपः किञ्चकार यशोदा चाथ रोहिणी ॥
हरेः पूर्वं च हलिनः कुत्र जन्म बभूव ह ॥ ॥ ५ ॥
पीयूषखण्डमाख्यानमपूर्वं श्रीहरेः स्मृतम् ॥
विशेषतः कविमुखान्नव्यं नूनं पदे पदे ॥ ६ ॥
स्वरासमण्डलक्रीडां वर्णय स्वयमेव च ॥
परोक्षवर्णनात्काव्यं प्रशस्तं नव्यवर्णनम् ॥७॥
श्रीकृष्णांशो भवान्साक्षाद्योगीन्द्राणां गुरोर्गुरुः ॥
यो यस्यांशः स च जनस्तस्यैव सुखतः सुखी ॥ ८ ॥
त्वयैव वर्णितौ पादौ विलीनौ तु युवां हरेः ॥
साक्षाद्गोलोकनाथांशस्त्वमेव तत्समो महान् ॥ ९ ॥
॥ नारायण उवाच ॥ ॥
ब्रह्मेशशेषविघ्नेशाः कूर्मो धर्मोऽहमेव च ॥
नरश्च कार्त्तिकेयश्च श्रीकृष्णांशा वयं नव ॥4.9.१०॥
अहो गोलोकनाथस्य महिमा केन वर्ण्यते ॥
यं स्वयं नो विजानीमो न वेदाः किं विपश्चितः ॥ ११ ॥
सूकरो वामनः कल्किर्बौद्धः कपिलमीनकौ ॥
एते चांशाः कलाश्चान्ये सन्त्येव कतिधा मुने ॥ १२ ॥
कूर्मो नृसिंहो रामश्च श्वेतद्वीपविराड्विभुः ॥
परिपूर्णतमः कृष्णो वैकुण्ठे गोकुले स्वयम् ॥ ॥ १३ ॥
वैकुण्ठे कमलाकान्तो रूपभेदाच्चतुर्भुजः ॥
गोलोके गोकुले राधाकान्तोऽयं द्विभुजः स्वयम् ॥ १४ ॥
अस्यैव तेजो नित्यं च चित्ते कुर्वन्ति योगिनः ॥
भक्ताः पादाम्बुजं तेजः कुतस्तेजस्विनं विना ॥ १५ ॥
शृणु विप्र वर्णयामि यशोदानन्दयोस्तपः ॥
रोहिण्याश्च यतो हेतोर्ददृशुस्ते हरेर्मुखम् ॥ १६ ॥
वसूनां प्रवरो नन्दो नाम्ना द्रोणस्तपोधनः ॥
तस्य पत्नी धरा साध्वी यशोदा सा तपस्विनी ॥१७॥
रोहिणी सर्पमाता च कद्रूश्च सर्पकारिणी ॥
एतेषां जन्मचरितं निबोध कथयामि ते॥ १८ ॥
एकदा च धरा द्रोणौ पर्वते गन्धमादने ॥
पुण्यदे भारते वर्षे गौतमाश्रमसन्निधौ ॥ १९ ॥
चक्रतुश्च तपस्तत्र वर्षाणामयुतं मुने ॥
श्रीकृष्णदर्शनार्थं च निर्जने सुप्रभातटे ॥ 4.9.२० ॥
न ददर्श हरिं द्रोणो धरा चैव तपस्विनी ॥
कृत्वाग्निकुण्डं वैराग्यात्प्रवेष्टुं समुपस्थितौ॥२१॥
तौ मर्तुकामौ दृष्ट्वा च वाग्बभूवाशरीरिणी ॥
द्रक्ष्यथः श्रीहरिं पृथ्व्यां गोकुले पुत्ररूपिणम् ॥ २२ ॥
जन्मान्तरे वसुश्रेष्ठ दुर्दर्शं योगिनां विभुम्॥
ध्यानासाध्यं च विदुषां ब्रह्मादीनां च वन्दितम् ॥ २३ ॥
श्रुत्वैवं तद्धराद्रोणौ जग्मतुः स्वालयं सुखात् ॥
लब्ध्वा तु भारते जन्म दृष्टं ताभ्यां हरेर्मुखम् ॥ २४ ॥
यशोदानन्दयोरेवं कथितं चरितं तव ॥
सुगोप्यं त्रिदशानां च रोहिणीचरितं शृणु ॥ २५ ॥
एकदा देवमाता च पुष्पोत्सवदिने सती ॥
विज्ञापनं चरद्वारा चकार कश्यपं मुने ॥ २६ ॥
सुस्नाता सुन्दरी देवी रत्नालङ्कार भूषिता ॥
चकार वेषं विविधं ददर्श दर्पणे मुखम् ॥ २७ ॥
कस्तूरीबिन्दुना सार्द्धं सिन्दूरबिन्दुसंयुतम् ॥
रत्नकुण्डलशोभाढ्यं पत्राभरणभूषितम् ॥ २८ ॥
गजमौक्तिकसंयुक्तं नासाग्रं सुमनोहरम् ॥
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ॥ २९ ॥
वक्रभ्रूभङ्गिना युक्तं विचित्रकज्जलोज्ज्वलम् ॥
पक्वदाडिमबीजाभदन्तपङ्क्तिविराजितम् ॥ 4.9.३० ॥
पक्वबिम्बाधरौष्ठं च सस्मितं सुन्दरं सदा ॥
अतीव कमनीयं च मुनीन्द्रचित्तमोहनम् ॥ ३१ ॥
एवम्भूतं मुखं दृष्ट्वा सुन्दरी स्वगृहे स्थिता ॥
पश्यन्ती पतिमार्गं च कामबाणप्रपीडिता ॥ ३२ ॥
शुश्राव वार्तामदितिः कश्यपं कद्रुसंयुतम् ॥
रत्नसारसमारम्भे तस्या वक्षस्थले स्थितम् ॥ ३३ ॥
श्रुत्वा चुकोप साध्वी सा हताशा रतिकातरा ॥
न शशाप पतिं प्रेम्णा शशाप सर्पमातरम् ॥ ३४ ॥
न देवालययोग्या सा धर्मिष्ठा धर्मनाशिनी ॥
दूरं गच्छतु स्वर्लोकादात्मयोनिं च मानवीम् ॥ ३५ ॥
श्रुत्वैवं सा चरद्वारा शशाप देवमातरम् ॥
सा चैवं मानवीं योनिं यातु मर्त्ये जरायुताम् ॥ ३६ ॥
कश्यपो बोधयामास कद्रुं च सर्पमातरम् ॥
काले यास्यसि मर्त्यं च मया सह शुचिस्मिते ॥ ३७ ॥
त्यज भीतिं लभ सुखं द्रक्ष्यसि श्रीहरेर्मुखम्॥
एवमुक्त्वा कश्यपश्च जगाम चादितेर्गृहम् ॥३८॥
वाञ्छां पूर्णां च तस्याश्च चकार भगवान्विभुः ॥
ऋतौ तत्र महेन्द्रश्च बभूव च सुरर्षभः ॥३९॥
अदितिर्देवकी चैव सर्पमाता च रोहिणी ॥
कश्यपो वसुदेवश्च श्रीकृष्णजनको महान् ॥ 4.9.४० ॥
रहस्यं गोपनीयं च सर्वं निगदितं मुने ॥
अधुना बलदेवस्य जन्माख्यानं मुने शृणु ॥ ४१ ॥
अनन्तस्याप्रमेयस्य सहस्रशिरसः प्रभोः ॥
रोहिणी वसुदेवस्य भार्यारत्नं च प्रेयसी ॥ ४२ ॥
जगाम गोकुलं साध्वी वसुदेवाज्ञया मुने ॥
सङ्कर्षणस्य रक्षार्थं कंसभीता पलायिता ॥ ४३ ॥
देवक्याः सप्तमं गर्भं माया कृष्णाज्ञया तदा ॥
रोहिण्या जठरे तत्र स्थापयामास गोकुले ॥ ४४ ॥
संस्थाप्य च तदा गर्भं कैलासं सा जगाम ह ॥
दिनान्तरे कतिपये रोहिणी नन्दमन्दिरे ॥ ४५ ॥
सुषाव पुत्रं कृष्णांशं तप्तरौप्याभमीश्वरम् ॥
ईषद्धास्यं प्रसन्नास्यं ज्वलन्तं ब्रह्मतेजसा ॥ ४६ ॥
तस्यैव जन्ममात्रेण देवा मुमुदिरे तदा ॥
स्वर्गे दुन्दुभयो नेदुरानका मुरजादयः ॥ ४७ ॥
जयशब्दं शङ्खशब्दं चक्रुर्देवा मुदान्विताः ॥
नन्दो हृष्टो ब्राह्मणेभ्यो धनं बहुविधं ददौ ॥ ४८ ॥
चिच्छेद नाडीं धात्री च स्नापयामास बालकम् ॥
जयशब्दं जगुर्गोप्यः सर्वाभ रणभूषिताः ॥ ४९ ॥
परपुत्रोत्सवं नन्दश्चकार परमादरात् ॥
तदा यशोदा गोपीभ्यो ब्राह्मणेभ्यो ददौ मुदा ॥ 4.9.५० ॥
धनानि नानावस्तूनि तैलं सिन्दूरमेव च ॥
इत्येवं कथितं वत्स यशोदानन्दयोस्तपः ॥ ५१ ॥
जन्माख्यानं च हलिनो रोहिणीचरितं तथा ॥
अधुना ते वाञ्छनीयं नन्दपुत्रोत्सवं शृणु ॥ ५२ ॥
सुखदं मोक्षदं सारं जन्ममृत्युजरापहम् ॥
मङ्गलं कृष्णचरितं वैष्णवानां च जीवनम् ॥ ५३ ॥
सर्वाशुभविनाशं च भक्तिदास्यप्रदं हरेः ॥
श्रीकृष्णं वसुदेवश्च संस्थाप्य नन्दमन्दिरे ॥ ५४ ॥
गृहीत्वा बालिकां हृष्टो जगाम निजमन्दिरम् ॥
कथितं चरितं तस्याः श्रुतं सम्मुखतो मुने ॥ ५५ ॥
अधुना गोकुले कृष्णचरितं शृणु मङ्गलम् ॥
वसुदेवे गृहं याते यशोदा नन्द एव च ॥ ५६ ॥
मङ्गले सूतिकागारे जयागारे जयान्विते ॥
ददर्श पुत्रं भूमिस्थं नवीननीरदप्रभम् ॥५७॥
अतीव सुन्दरं नग्नं पश्यन्तं गृहशेखरम् ॥
शरत्पार्वणचन्द्रास्यं नीलेन्दीवरलोचनम् ॥ ५८ ॥
रुदन्तं च हसन्तं च् वेणुसंसक्तविग्रहम् ॥
हस्तद्वयं सुविन्यस्तं प्रेमवन्तं पदाम्बुजम् ॥ ५९ ॥
दृष्ट्वा नन्दः स्त्रिया सार्द्धं हरिं हृष्टो बभूव ह ॥
धात्री तं स्नापयामास शीततोयेन बालकम् ॥ 4.9.६० ॥
चिच्छेद नाडीं बालस्य हर्षाद्गोप्यो जयं ददुः ॥
आजग्मुर्गोपिकाः सर्वा बृहच्छ्रोण्यश्चलत्कुचाः ॥ ६१ ॥
बालिकाश्च वयस्यश्च विप्रपत्न्याश्च सूतिकाम् ॥
आशिषं युयुजुः सर्वा ददृशुर्बालकं मुदा ॥ ६२ ॥
क्रोडे चक्रुः प्रशंसन्त्य ऊषुस्तत्र च काश्चन ॥
नन्दः सचैलः स्नातश्च धृत्वा धौते च वाससी ॥ ६३ ॥
पारम्पर्यविधिं तत्र चकार हृष्टमानसः ॥
ब्राह्मणान्भोजयामास कारयामास मङ्गलम् ॥ ६४ ॥
वाद्यानि वादयामास बन्दिभ्यश्च ददौ धनम् ॥
ततो नन्दश्च सानन्दं ब्राह्मणेभ्यो ददौ धनम् ॥ ६५ ॥
सद्रत्नानि प्रवालानि हीरकाणि च सादरम् ॥
तिलानां पर्वतान्सप्त सुवर्णशतकं मुने ॥ ६६ ॥
रौप्यं धान्याचलं वस्त्रं गोसहस्रं मनोहरम् ॥
दधि दुग्धं शर्करां च नवनीतं घृतं मधु ॥ ६७ ॥
मिष्टान्नं सल्लड्डुकौघं स्वादूनि मोदकानि च ॥
भूमिं च सर्वसस्याढ्यां वायुवेगांस्तुरङ्गमान् ॥ ६८ ॥
ताम्बूलानि च तैलानि दत्त्वा हृष्टो बभूव ह ॥
रक्षितुं सूतिकागारं योजयामास ब्राह्मणान् ॥ ६९ ॥
तत्र मन्त्रज्ञमनुजान्स्थविरान्गोपिकागणान् ॥
वेदांश्च पाठयामास हरेर्नामैकमङ्गलम् ॥ 4.9.७० ॥
भक्त्या च ब्राह्मणद्वारा पूजयामास देवताः ॥
गोपालिकाश्च वृद्धाश्च रत्नालङ्कारभूषिताः ॥ ७१ ॥
सस्मिता शीघ्रगामिन्य आजग्मुर्नन्दमन्दिरम् ॥
नानाविधाश्च गणका ज्योतिःशास्त्रविशारदाः॥ ७२ ॥
वाक्सिद्धाः पुस्तककरा आजग्मुर्नन्दमन्दिरम् ॥
सस्मिता विप्रपत्न्यश्च वयस्याः स्थविरा वराः ॥ ७३ ॥
बालिका बालकयुता आजग्मुर्नन्दमन्दिरम् ॥
तेभ्योऽपि प्रददौ रत्नं धनानि विविधानि च॥ ७४ ॥
वरवस्त्राणि रौप्याणि गोसहस्राणि सादरम् ॥
नन्दस्तेभ्यो नमस्कृत्य चकार विनयं मुदा ॥ ७५ ॥
आशिषं युयुजुः सर्वे ददृशुर्बालकं परम् ॥
एवं सम्भृतसम्भारो बभूव व्रजपुङ्गवः ॥७६॥
गणकैः कारयामास यद्भविष्यं शुभाशुभम् ॥
एवं ववर्ध बालश्च शुक्लपक्षे यथा शशी ॥ ७७ ॥
नन्दालये हली चैव भुक्त मातुः पयोधरम् ॥
तदा च रोहिणी हृष्टा तत्र पुत्रोत्सवे मुदा ॥७८॥
तैलसिन्दूरताम्बूलं धनं ताभ्यो ददौ मुने ॥
दत्त्वाशिषश्च शिरसि ताश्च ते स्वालयं ययुः ॥ ७९ ॥
यशोदारोहिणीनन्दास्तस्थुर्गेहे मुदान्विताः ॥ 4.9.८० ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृ ष्णजन्मखण्डे नारायणनारदसंवादे नन्दपुत्रोत्सवो नाम नवमोऽध्यायः ॥ ९ ॥