००८

॥ नारद उवाच ॥ ॥
जन्माष्टमीव्रतं ब्रूहि व्रतानां व्रतमुत्तमम् ॥
फलं जयन्तीयोगस्य सामान्येनैव साम्प्रतम् ॥ १ ॥
को वा दोषोऽप्यकरणे भोजनो वा महामुने ॥
उपवासफलं किं वा जयन्त्यां च सुसम्मतम् ॥ २ ॥
व्रतं पूजाविधानं च संयमस्य च साम्प्रतम् ॥
उपवासपारणयोः सुविचार्य वद प्रभो ॥ ३ ॥
॥ नारायण उवाच ॥ ॥
कृत्वा हविष्यं सप्तम्यां संयतः पारणे तथा ॥
अरुणोदयवेलायां समुत्थाय परेऽहनि ॥ ४ ॥
प्रातःकृत्य संविधाय स्नात्वा सङ्कल्पमाचरेत् ॥
व्रतोपवासयोर्ब्रह्मञ्छ्रीकृष्णप्रीतिहेतुकम् ॥ ५ ॥
मन्वादिदिवसे प्राप्ते यत्फलं स्नानपूजनैः ॥
फलं भाद्रपदेऽष्टम्यां भवेत्कोटिगुणं द्विज ॥ ६ ॥
तस्यां तिथौ वारिमात्रं पितॄणां यः प्रयच्छति ॥
गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः ॥ ७ ॥
स्नात्वा नित्यक्रियां कृत्वा निर्माय सूतिकागृहम् ॥
लोहखण्डवह्निजालैर्युक्तं रक्षकसङ्घकैः॥ ॥ ८ ॥
तत्र द्रव्यं बहुविधं नाभिच्छेदनकर्तनम् ॥
धात्रीस्वरूपां नारीं च यत्नतः स्थापयेद्बुधः ॥ ९ ॥
पूजाद्रव्याणि चारूणि सोपचाराणि षोडश ॥
फलान्यष्टौ च मिष्टानि द्रव्याण्येव हि नारद ॥ 4.8.१० ॥
जातीफलं च कङ्कोलं दाडिमं श्रीफलं तथा ॥
नारिकेरं च जम्बीरं कूष्माण्डं च सुवाससम् ॥ ११ ॥
आसनं वसनं पाद्यं मधुपर्कं तथैव च ॥
अर्घ्यमाचनीयं च स्नानीयं शयनं तथा ॥१२ ॥
गन्धं पुष्पं च नैवेद्यं ताम्बूलमनुलेपनम् ॥
धूपदीपौ भूषणं वै चोपचारांश्च षोडश ॥ १३ ॥
पादप्रक्षालनं कृत्वा धृत्वा धौते च वाससी ॥
आचम्य चासने स्थित्वा स्वस्तिवाचनपूर्वकम् ॥ १४ ॥
घटस्यारोपणं कृत्वा सम्पूज्य पञ्च देवताः ॥
घटे ह्यावाहनं कृत्वा श्रीकृष्णं परमेश्वरम् ॥ १५ ॥
वसुदेवं देवकीं च यशोदां नन्दमेव च ॥
रोहिणीं बलदेवं च षष्ठीदेवीं वसुन्धराम् ॥ १६ ॥
रोहिणीं ब्राह्मणीं चैव अष्टमीं स्थानदेवताम् ॥
अश्वत्थाम्ना सह बलिं हनुमन्तं विभीषणम् ॥ १७ ॥
कृपं परशुरामं च वेदव्यासं मृकण्डकम् ॥
सर्वस्यावाहनं कृत्वा ध्यानं कुर्याद्धरेस्तदा ॥ १६ ॥
पुष्पकं मस्तके न्यस्य पुनर्ध्यायेद्विचक्षणः ॥
ध्यानं च सामवेदोक्तं शृणु वक्ष्यामि नारद ॥ १९ ॥
ब्रह्मणा कथितं पूर्वं कुमाराय महात्मने ॥ 4.8.२० ॥
बालं नीलाम्बुजाभमतिशयरुचिरं स्मेरवक्त्राम्बुजं तं
ब्रह्मेशानन्तधर्मैः कतिकतिदिवसैः स्तूयमानं परं यत् ॥
ध्यानासाध्यमृषीन्द्रैर्मुनिगणमनुजैः सिद्धसङ्घैरसाध्यं
योगीन्द्राणामचिन्त्यमतिशयमतुलं साक्षिरूपं भजेऽहम् ॥ २१ ॥
ध्यात्वा पुष्पं च दत्त्वा च तत्सर्वं च निवेदयेत् ॥
एवं व्रती व्रतं कुर्याच्छृणु मन्त्रक्रमं मुने ॥ २२ ॥
आसनं सर्वशोभाढ्यं सद्रत्नमणिनिर्मितम्॥
विचित्रं च विचित्रेण गृह्यतां शोभनं हरे ॥ २३ ॥
वसनं वह्निशौचं च निर्मितं विश्वकर्मणा ॥
प्रतप्तस्वर्णखचितं चित्रितं गृह्यतां हरे ॥ २४ ॥
पादप्रक्षालनार्थं च स्वर्णपात्रस्थितं जलम् ॥
पवित्रं निर्मलं चारु पाद्यं च गृह्यतां हरे ॥ २५ ॥
मधुसर्पिर्दधिक्षीरं शर्करासंयुतं परम् ॥
स्वर्णपात्रस्थितं देयं स्नानार्थं गृह्यतां हरे ॥ २६ ॥
दूर्वाक्षतं शुक्लपुष्पं स्वच्छतोयसमन्वितम् ॥
चन्दनागुरुकस्तूरीसहितं गृह्यतां हरे ॥ २७ ॥
सुस्वादु स्वच्छतोयं च वासितं गन्धवस्तुना ॥
शुद्धमाचमनीयं च गृह्यतां परमेश्वर ॥ २८ ॥
गन्धद्रव्यसमायुक्तं विष्णो तैलं सुवासितम् ॥
आमलक्या द्रवं चैव स्नानीयं गृह्यतां हरे ॥ २९ ॥
सद्रत्नमणिसारेण रचितां सुमनोहराम् ॥
छादितां सूक्ष्मवस्त्रेण शय्यां च गृह्यतां हरे ॥ 4.8.३० ॥
चूर्णं च वृक्षभेदानां मूलानां द्रवसंयुतम् ॥
कस्तूरीद्रवसंयुक्तं गन्धं च गृह्यतां हरे ॥ ३१ ॥
पुष्पं सुगन्धियुक्तं च संयुक्तं कुङ्कुमेन च ॥
सुप्रियं सर्वदेवानां साम्प्रतं गृह्यतां हरे ॥ ३२ ॥
गृह्यतां स्वस्तिकोक्तं च मिष्टद्रव्यसमन्वितम् ॥
सुपक्वफलसंयुक्तं नैवेद्यं गृह्यतां हरे ॥ ३३ ॥
लड्डुकं मोदकं चैव सर्पिः क्षीरं गुडं मधु ॥
नवोद्धृतं दधि तक्रं नैवेद्यं गृह्यतां हरे ॥ ३४ ॥
शीतलं शर्करायुक्तं क्षीरस्वादुसुपक्वकम् ॥
ताम्बूलं भोगसारं च कर्पूरादिसमन्वितम् ॥ ३५ ॥
भक्त्या निवेदितमिदं गृह्यतां परमेश्वर ॥
चन्दनागुरु कस्तूरीकुङ्कुमद्रवसंयुतम् ॥ ३६ ॥
अबीरचूर्णं रुचिरं गृह्यतां परमेश्वर ॥
तरुभेदरसोत्कर्षो गन्धयुक्तोऽग्निना सह ॥ ३७ ॥
सुप्रियः सर्वदेवानां धूपोऽयं गृह्यतां हरे ॥
घोरान्धकारनाशैकहेतुरेव शुभावहः ॥ ३८ ॥
सुप्रदीपो दीप्तिकरो दीपोऽयं गृह्यतां हरे ॥
पवित्रं निर्मलं तोयं कर्पूरादिसमायुतम् ॥ ३९ ॥
जीवनं सर्वबीजानां पानार्थं गृह्यतां हरे ॥
नानापुष्पसमायुक्तं ग्रथितं सूक्ष्मतन्तुना ॥ 4.8.४० ॥
शरीरभूषणवरं माल्यं च प्रतिगृह्यताम् ॥
दत्त्वा देयानि द्रव्याणि पूजोपयोगितानि च ॥ ४१ ॥
व्रतस्थानस्थितं द्रव्यं हरये देयमेव च ॥
फलानि तरुबीजानि स्वादूनि सुन्दराणि च ॥ ४२ ॥
वंशवृद्धिकराण्येव गृह्यतां परमेश्वर ॥
आवाहितांश्च देवांश्च प्रत्येकं पूजयेद्व्रती ॥ ४३ ॥
तान्पूज्य भक्तिभावेन दद्यात्पुष्पाञ्जलित्रयम् ॥
सुनन्दनन्दकुमुदान्गोपान्गोपीश्च राधिकाम् ॥ ४४ ॥
गणेशं कार्त्तिकेयं च ब्रह्माणं च शिवं शिवाम् ॥
लक्ष्मीं सरस्वतीं चैव दिक्पालांश्च ग्रहांस्तथा ॥ ४५ ॥
शेषं सुदर्शनं चैव पार्षदप्रवरांस्तथा॥
सम्पूज्य सर्वदेवांश्च प्रणम्य दण्डवद्भुवि ॥
ब्राह्मणेभ्यश्च नैवेद्यं दत्त्वा दद्याच्च दक्षिणाम् ॥ ४६ ॥
कथां च जन्माध्यायोक्तां शृणुयाद्भक्ति भावतः ॥
तदा कुशासने स्थित्वा कुर्याज्जागरणं व्रती ॥ ४७ ॥
प्रभाते चाह्निकं कृत्वा सम्पूज्य श्रीहरिं मुदा ॥
ब्राह्मणान्भोजयित्वा च कारयेद्धरिकीर्तनम् ॥ ४८ ॥
॥ नारद उवाच ॥ ॥
व्रतकालव्यवस्थां च वेदोक्तां सर्वसम्मताम् ॥
वेदार्थं च समालोच्य संहितां च पुरातनीम् ॥४९॥
उपवासे जागरणे व्रते किं वा फलं मुने ॥
किं वा पापं तत्र भुक्त्वा वद वेदविदां वर ॥4.8.५० ॥
॥ श्रीनारायण उवाच ॥ ॥
अष्टमी कर्क्षसंयुक्ता रात्र्यर्थे यदि दृश्यते ॥
स एव मुख्यकालश्च तत्र जातः स्वयं हरिः ॥ ५१ ॥
जयं पुण्यं च कुरुते जयन्ती तेन संस्मृता ॥
तत्रोपोष्य व्रतं कृत्वा कुर्याज्जागरणं बुधः ॥ ५२ ॥
सर्वापवादः कालोऽयं प्रधानः सर्वसम्मतः ॥
इति वेदविदां वाणी चेत्युक्ता वेधसा पुरा ॥ ५३ ॥
तत्र जागरणं कृत्वा यश्चोपोष्य व्रतं चरेत् ॥
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ ५४ ॥
वर्जनीया प्रयत्नेन सप्तमीसहिताष्टमी ॥
सा सर्क्षापि न कर्तव्या सप्तमीसहिताष्टमी ॥
अविद्धायां कऋक्षायां जातो देवकिनन्दनः ॥ ५५ ॥
वेदवेदाङ्गगुप्तेतिविशिष्टं मङ्गलक्षणे ॥
व्यतीते रोहिणीऋक्षे व्रती कुर्याच्च पारणाम् ॥ ५६ ॥
तिथ्यन्ते च हरिं स्मृत्वा कृत्वा देवार्चनं व्रती। ॥
पारणं पावनं पुंसां सर्वपापप्रणाशनम् ॥ ५७ ॥
उपवासाङ्गभूतं च फलदं सिद्धिकारणम् ॥
सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते ॥ ५८ ॥
अन्यथा फलहानिः स्यात्कृते धारणपारणे॥
न रात्रौ पारणं कुर्यादृते वै रोहिणीव्रतात् ॥५९॥
निशायां पारणं कुर्याद्वर्जयित्वा महानिशाम् ॥
पूर्वाह्णे पारणं शस्तं कृत्वा विप्रसुरार्चनम् ॥ 4.8.६० ॥
सर्वेषां सम्मतं कुर्यादृते वै रोहिणी व्रतम् ॥
बुधसोमसमायुक्ता जयन्ती यदि लभ्यते ॥६१॥
न कुर्याद्गर्भवासं च तत्र कृत्वा व्रतं व्रती ॥
उदये चाष्टमी किञ्चिन्नवमी सकला यदि ॥ ६२ ॥
भवेद्बुधेन्दुसंयुक्ता प्राजापत्यर्क्षसंयुता ॥
अपिवर्षशतेनापि लभ्यते वा न लभ्यते ॥ ६३ ॥
व्रतं तत्र व्रती कुर्यात्पुंसां कोटिं समुद्धरेत् ॥
नृणां विना व्रतेनापि भक्तानां हीनसम्पदाम् ॥ ६४ ॥
कृतेनैवोपवासेन प्रीतो भवति माधवः ॥
भक्त्या नानोपचारेण रात्रौ जागरणेन च ॥ ६५ ॥
फलं ददाति दैत्यारिर्जयन्तीव्रतसम्भवम् ॥
वित्तशाठ्यमकुर्वाणः सम्यक्फलमवाप्नुयात् ॥६६॥
कुर्वाणो वित्तशाठ्यं च लभते सदृशं फलम् ॥
अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं बुधः ॥ ६७ ॥
हन्यात्पुराकृतं पुण्यं चोपवासार्जितं फलम् ॥
तिथिरष्टगुणं हन्ति नक्षत्रं च चतुर्गुणम् ॥ ६८ ॥
तस्मात्प्रयत्नतः कुर्यात्तिथिभान्ते च पारणम् ॥
महानिशायां प्राप्तायां तिथिभान्तं यदा भवेत् ॥ ६९ ॥
तृतीयेऽह्नि मुनिश्रेष्ठ पारणं कुरुते बुधः ॥
षण्मुहूर्ते व्यतीते तु रात्रावेव महानिशा ॥ 4.8.७० ॥
लभते ब्रह्महत्यां च तत्र भुक्त्वा च नारद ॥
गोमांसविण्मूत्रसमं ताम्बूलं च फलं जलम् ॥ ७१ ॥
पुंसामभक्ष्यं शुद्धानामोदनस्य च का कथा ॥
त्रियामां रजनी प्राहुस्त्यक्त्वाद्य च चतुष्टयम् ॥ ७२ ॥
नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसञ्ज्ञिते ॥
जन्माष्टम्यां च शुद्धायां कृत्वा जागरणं व्रतम् ॥ ७५ ॥
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥
जन्माष्टम्यां च शुद्धायामुपोष्य केवलं नरः ॥ ७४ ॥
अश्वमेधफलं तस्य व्रतं जागरणं विना ॥
यद्बाल्ये यच्च कौमारे यौवने यच्च वार्धके ॥ ७५ ॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥
श्रीकृष्णजन्मदिवसे यश्च भुक्तं नराधमः ॥ ७६ ॥
स भवेन्मातृगामी च ब्रह्महत्याशतं लभेत् ॥
कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम् ॥ ७७ ॥
अनर्हश्चाशुचिः शश्वद्दैवे पित्र्ये च कर्मणि ॥
अन्ते वसेत्कालसूत्रे यावच्चन्द्रदिवाकरौ ॥ ७८ ॥
कृमिभिः शूलतुल्यैश्च तीक्ष्णदंष्ट्रैश्च भक्षितः ॥
पापी ततः समुत्थाय भारते जन्म चेल्लभेत् ॥ ७९ ॥
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ॥
गृध्रकोटिसहस्राणि शतजन्मानि सूकरः ॥ 4.8.८० ॥
श्वापदः शतजन्मानि सृगालः सप्त जन्म च ॥
सप्तजन्मसु सर्पश्च काकश्च सप्तजन्मसु ॥ ८१ ॥
ततो भवेन्नरो मूको गलत्कुष्ठी सदातुरः ॥
ततो भवेत्पशुघ्नश्च व्यालग्राही ततो भवेत् ॥ ८२ ॥
तदन्ते च भवेद्दस्युर्धर्महीनश्च गृध्रकः ॥
ततो भेवत्स रजकस्तैलकारस्ततो भवेत् ॥ ८३ ॥
ततो भवेद्देवलको ब्राह्मणश्च सदाऽशुचिः ॥
उपवासासमर्थश्चेदेकं विप्रं च भोजयेत् ॥ ८४ ॥
तावद्धनानि वा दद्याद्यद्भुक्तं द्विगुणं भवेत् ॥
सहस्रसम्मितां देवीं जपेद्वा प्राणसंयमान् ॥ ॥ ८५ ॥
कुर्याद्द्वादशसङ्ख्याकान्यथार्थं तद्व्रते नरः ॥
इत्येवं कथितं वत्स श्रुतं यद्धर्मवक्त्रतः ॥
व्रतोपवासपूजानां विधानमकृते च यत् ॥ ८६ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे नारायणनारदसंवादे श्रीकृष्णजन्मखण्डे कृष्णजन्माष्टमीव्रतपूजोपवासनिरूपणं नामा ष्टमोऽध्यायः ॥ ८ ॥