श्रीनारायण उवाच ॥ ॥
ध्यात्वा स्तुत्वा च तिष्ठन्तो देवास्ते तेजसः पुरः ॥
ददृशुस्तेजसो मध्ये शरीरं कमनीयकम् ॥ १ ॥
सजलाम्भोदवर्णाभं सस्मितं सुमनोहरम् ॥
परमाह्लादकं रूपं त्रैलोक्यचित्तमोहनम् ॥ २ ॥
गण्डस्थलकपोलाभ्यां ज्वलन्मकर कुण्डलम् ॥
सद्रत्ननूपुराभ्यां च चरणाम्भोजराजितम् ॥ ३ ॥
वह्निशुद्धहरिद्राभामूल्यवस्त्रविराजितम् ॥
मणिरत्नेन्द्रसाराणां स्वेच्छा कौतुकनिर्मितैः ॥ ४ ॥
भूषितं भूषणै रम्यैस्तद्रूपेणैव भूषितैः ॥
विनोदमुरलीयुक्तबिम्बाधरमनोहरम् ॥ ५ ॥
प्रसन्नेक्षणपश्यन्तं भक्तानुग्रहकातरम् ॥
सद्रत्नगुटिकायुक्तकवचोरःस्थलोज्ज्वलम् ॥ ६ ॥
कौस्तुभासक्तसद्रत्नप्रदीप्ततेजसोज्ज्वलम् ॥
तत्र तेजसि चार्वङ्गीं ददृशू राधिकाभिधाम् ॥ ७ ॥
पश्यन्तं सस्मितं कान्तं पश्यन्तीं वक्रचक्षुषा ॥
मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिविराजिताम् ॥ ॥ ८ ॥
ईषद्धास्यप्रसन्नास्यां शरत्पङ्कजलोचनाम् ॥
शरत्पार्वणचन्द्राभाविनिन्दास्यमनोहराम् ॥ ९ ॥
बन्धुजीवप्रभामुष्टाधरौष्ठरु चिराननाम् ॥
रणन्मञ्जीरयुग्मेन पादाम्बुजविराजिताम् ॥ 4.6.१० ॥
मणीन्द्राणां प्रभामोषनखराजिविराजिताम् ॥
कुङकुमाभासमाच्छाद्य पदाधोरागभूषिताम् ॥ ११ ॥
अमूल्यरत्नसाराणां रशनाश्रोणिभूषिताम् ॥
हुताशनविशुद्धांशुकामूल्यज्वलितोज्ज्वलाम् ॥ १२ ॥
महामणीन्द्रसाराणां किङ्किणीमध्यसंयुताम् ॥
सद्रत्नहारकेयूरकरकङ्कणभूषिताम् ॥ १३ ॥
रत्नेन्द्रसाररचितकपोलोज्ज्वलकुण्डलाम् ॥
कर्णोपरि मणीन्द्राणां कर्णभूषणभूषिताम् ॥ १४ ॥
खगेन्द्रचञ्चुनासाग्र गजेन्द्रमौक्तिकान्विताम् ॥
मालतीमालया वक्रकबरीभारशोभि ताम् ॥ १५ ॥
मालया कौस्तुभेन्द्राणां वक्षःस्थलसुशोभिताम्॥
पारिजातप्रसूनानां मालाजालोज्ज्वलाम्बराम् ॥ १६ ॥
रत्नाङ्गुलीय निकरैः कराङ्गुलिविभूषिताम् ॥
दिव्यशङ्खविकारैश्च चित्ररागविभूषितैः ॥१७॥
सूक्ष्मसूत्राकृतै रम्यैर्भूषिता शङ्खभूषणैः ॥
सद्रत्नसारगुटिकाराजिसूत्रसुशोभिताम् ॥ १८॥
प्रतप्तस्वर्णवर्णाभामाच्छाद्य चारुविग्रहाम् ॥
नितम्बश्रोणिललितां पीनस्तननताम्बराम् ॥१९॥
भूषितां भूषणैः सर्वैः सौन्दर्येण विभूषितैः ॥
विस्मितास्त्रिदशाः सर्वे दृष्ट्वा तामीश्वरीं वराम्॥
तुष्टुवुस्ते सुराः सर्वे पूर्णसर्वमनोरथाः॥4.6.२०॥
॥ ब्रह्मोवाच ॥
तव चरणसरोजे मन्मनश्चञ्चरीको भ्रमतु सततमीश प्रेमभक्त्या सरोजे ॥
भुवनविभवभोगात्तापशान्त्यौषधायसुदृढसु परिपक्वादेहिभक्ति चदास्यम् ॥ २१ ॥
॥ शङ्कर उवाच ॥ ॥
भवजलनिधिमग्नम्बित्तमीनो मदीयो भ्रमति सततमस्मिन्घोरसंसार कूपे ॥
विषयमतिविनिन्द्यं सृष्टिसंहाररूपमपनय तव भक्तिं देहि पादारविन्दे ॥ २२ ॥
॥ धर्म उवाच ॥
तव निजजनसार्द्धं सङ्गमो मे मदीश भवतु विषयबन्धच्छेदने तीक्ष्णखङ्गः।
तव चरणसरोजे स्थानदानैकहेतुर्जनुषि जनुषि भक्तिं देहि पादारविन्दे ॥२३॥
इत्येवं स्तवनं कृत्वा परिपूर्णैकसानसाः ॥
कामपूरस्य पुरतस्तिष्ठतो राधिकापतेः ॥ २४ ॥
सुराणां स्तवनं श्रुत्वा तानु वाच कृपानिधिः ॥
हितं तथ्यं च वचनं स्मेराननसरोरुहः ॥ २५ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
तिष्ठतागच्छत सुरा मदीया नात्र संशयः ॥
शिवाश्रयाणां कुशलं प्रष्टुं युक्तं न साम्प्रतम् ॥ २६ ॥
निश्चिन्ता भवतात्रैव का चिन्ता वो मयि स्थिते॥
स्थितोऽहं सर्वजीवेषु प्रत्यक्षोऽहं स्तवेन वै॥२७॥
युष्माकं यमभिप्रायं सर्वं जानामि निश्चितम् ॥
शुभाशुभं च यत्कर्म काले खलु भविष्यति ॥ २८ ॥
महत्क्षुद्रं च यत्कर्म सर्वं कालकृतं सुराः ॥
स्वे स्वे काले च तरवः फलिताः पुष्पिणः सदा ॥ २९ ॥
परिपक्वफलाः काले काले पक्वफलान्विताः ॥
सुखं दुःखं विपत्सम्पच्छोकचिन्ताशुभाशुभम् ॥ 4.6.३० ॥
स्वकर्मफलनिष्ठं च सर्वकालेऽप्युपस्थितम् ॥
न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये ॥ ३१ ॥
काले कार्यवशात्सर्वे भवन्त्येवाप्रियाः प्रियाः ॥
राजानो मनवः पृथ्व्यां दृष्टा युष्माभिरत्र वै ॥ ३२ ॥
स्वकर्मफलपाकेन सर्वे कालवशं गताः ॥
युष्माकमधुना चैव गोलोके यत्क्षणं गतम् ॥ ३३ ॥
पृथिव्यां तत्क्षणेनैव सप्तमन्वतरं गतम् ॥
इन्द्राः सप्त गतास्तत्र देवेन्द्र श्चाष्टमोऽधुना ॥ ३४ ॥
कालचक्रं भ्रमत्येव मदीयं च दिवानिशम् ॥
इन्द्राश्च मानवा भूपाः सर्वे कालवशं गताः ॥ ३५ ॥
कीर्तिः पृथ्व्यां पुण्यमद्य कथामात्रावशेषितम् ॥
अधुनाऽपि च राजानो दुष्टाश्च हरिनिन्दकाः ॥ ३६ ॥
बभूवुर्बहवो भूमौ महाबल पराक्रमाः ॥
सर्वे यास्यन्ति राजानः कालान्तरवशं धुवम् ॥ ३७ ॥
उपस्थितोऽपि कालोऽयं वातो वाति निरन्तरम् ॥
वह्निर्दहति सूर्यश्च तपत्येव ममाज्ञया ॥ ३८ ॥
व्याधयः सन्ति देहेषु मृत्युश्चरति जन्तुषु ॥
वर्षन्त्येते जलधराः सर्वे देवा ममाज्ञया ॥ ३९ ॥
ब्राह्मण्यनिष्ठा विप्राश्च तपोनिष्ठास्तपोधनाः ॥ ब्र
ह्मर्षयो ब्रह्मनिष्ठा योगनिष्ठाश्च योगिनः ॥ 4.6.४० ॥
ते सर्वे मद्भयाद्भीताः स्वकर्मधर्मतत्पराः ॥
मद्भक्ताश्चैव निःशङ्काः कर्मनिर्मूलकारकाः ॥ ४१ ॥
देवाः कालस्य कालोऽहं विधाता धातुरेव च ॥
संहारकर्तुः संहर्ता पातुः पाता परात्परः ॥ ४२ ॥
ममाज्ञयाऽयं संहर्ता नाम्रा तेन हरः स्मृतः ॥
त्वं विश्वसृट् सृष्टिहेतोः पाता धर्मस्य रक्षणात् ॥ ४३ ॥
ब्रह्मादितृणपर्यन्तं सर्वेषामहमीश्वरः ॥
स्वकर्मफलदाताऽहं कर्मनिर्मूलकारकः ॥ ४४ ॥
अहं यान्संहरिष्यामि कस्तेषामपि रक्षिता ॥
यानहं पालयिष्यामि तेषां हन्ता न कोऽपि वा ॥ ४५ ॥
सर्वेषामपि संहर्ता स्रष्टा पाताऽहमेव च ॥
नाहं शक्तश्च भक्तानां संहारे नित्यदेहिनाम् ॥ ४६ ॥
भक्ता ममानुगा नित्यं मत्पादार्चनतत्पराः ॥
अहं भक्तान्तिके शश्वत्तेषां रक्षणहेतव ॥ ४७ ॥
सर्वे नश्यन्ति ब्रह्माण्डे प्रभवन्ति पुनःपुनः ॥
न मे भक्ताः प्रणश्यन्ति निःशङ्काश्च निरापदः ॥ ४८ ॥
अतो विपश्चितः सर्वे दास्यं वाञ्छन्ति नो वरम् ॥
ये मां दास्यं प्रयाचन्ते धन्यास्तेऽन्ये च वञ्चिताः ॥ ४९ ॥
जन्ममृत्युजराव्याधि भयं च यमयातना ॥
अन्येषां कर्मिणामस्ति न भक्तानां च कर्हिचित् ॥ 4.6.५० ॥
भक्ता न लिप्ताः पापेषु पुण्येषु सर्वक र्मिणः ॥
अहं धुनोमि तेषां च कर्मभोगान्सुनिश्चितम् ॥ ५१ ॥
अहं प्राणश्च भक्तानां भक्ताः प्राणा ममापि च ॥
ध्यायन्ते ते च मां नित्यं तान्स्मरामि दिवानिशम् ॥ ५२ ॥
चक्रं सुदर्शनं नाम षोडशारं सुतीक्ष्णकम् ॥
यत्तेजः षोडशांशोऽपि नास्ति सर्वेषु जीविषु ॥ ९३ ॥
भक्तान्तिके तु तच्चक्रं दत्त्वा रक्षार्थमीप्सितम् ॥
न स्वास्थ्यं न च प्रीतिर्मे यामि तेषां च सन्निधिम् ॥ ५४ ॥
न मे स्वास्थ्यं च वैकुण्ठे गोलोके राधिकान्तिके ॥
यत्र तिष्ठन्ति भक्तास्ते तत्र तिष्ठाम्यहर्निशम् ॥ ५५ ॥
प्राणेभ्यः प्रेयसी राधा स्थितोरसि दिवानिशम् ॥
यूयं प्राणाधिका लक्ष्मीर्न मे भक्तात्परा प्रिया ॥ ५६ ॥
भक्तदत्तं च यद्द्रव्यं भक्त्या ऽश्नामि सुरेश्वराः ॥
अभक्तदत्तं नाश्नामि ध्रुवं भुङ्क्ते बलिं स्वयम् ॥ ५७ ॥
स्त्रीपुत्रस्वजनांस्त्यक्त्वा ध्यायन्ते मामहर्निशम् ॥
युष्मान्विहाय तान्नित्यं स्मराम्यहमहर्निशम् ॥ ५८ ॥
दुष्टा यदा मे भक्तानां ब्राह्मणानां गवामपि ॥
क्रतूनां देवतानां च हिंसां कुर्वन्ति निश्चितम् ॥ ५९ ॥
तथाऽचिरं ते नश्यन्ति यथा वह्नौ तृणानि च ॥
न कोऽपि रक्षिता तेषां मयि हन्तर्युपस्थिते ॥ 4.6.६० ॥
यास्यामि पृथिवीं देवा यात यूयं स्वमालयम् ॥
यूयं चैवांशरूपेण शीघ्रं गच्छत भूतलम् ॥ ६१ ॥
इत्युक्त्वा जगतां नाथो गोपाना हूय गोपिकाः ॥
उवाच मधुरं वाक्यं सत्यं यत्समयोचितम् ॥ ६२ ॥
गोपा गोप्यश्च शृणुत यात नन्दव्रजं परम् ॥
वृषभानुगृहे क्षिप्रं गच्छ त्वमपि राधिके ॥ ६३ ॥
वृषभानुप्रिया साध्वी नन्दगोपकलावती ॥
सुबलस्य सुता सा च कमलांशसमुद्भवा ॥ ॥ ६४ ॥
पितॄणां मानसी कन्या धन्या मान्या च योषिताम् ॥
पुरा दुर्वाससः शापाज्जन्म तस्या व्रजे गृहे ॥ ६५ ॥
तस्या गृहे जन्म लभ शीघ्रं नन्दव्रजं व्रज ॥
त्वामहं बालरूपेण गृह्णामि कमलानने ॥ ६६ ॥
त्वं मे प्राणाधिका राधे तव प्राणाधिकोऽप्यहम्॥
न किञ्चिदावयोर्भिन्नमेकाङ्गं सर्वदैव हि ॥६७॥
श्रुत्वैवं राधिका तत्र रुरोद प्रेमविह्वला ॥
पपौ चक्षुश्चकोराभ्यां मुखचन्द्रं हरेर्मुने ॥६८॥
जनुर्लभत गोपाश्च गोप्यश्च पृथिवीतले ॥
गोपानामुत्तमानां च मन्दिरे मन्दिरे शुभे ॥६९॥
एतस्मिन्नन्तरे सर्वे ददृशू रथमुत्तमम् ॥
मणिरत्नेन्द्रसारेण हीरकेण विभूषितम् ॥4.6.७०॥
श्वेतचामरलक्षेण शोभितं दर्पणायुतैः ॥
सूक्ष्मकाषायवस्त्रेण वह्निशुद्धेन भूषितम् ॥ ॥ ७१ ॥
सद्रत्नकलशानां च सहस्रेण सुशोभितम् ॥
पारिजातप्रसूनानां मालाजालैर्विराजितम् ॥ ७२ ॥
पार्षदप्रवरैयुक्तं शात कुम्भमयं शुभम् ॥
तेजःस्वरूपमतुलं शतसूर्यसमप्रभम् ॥ ७३ ॥
तत्रस्थं पुरुषं श्यामं सुन्दरं कमनीयकम् ॥
शङ्खचक्रगदापद्मधरं पीताम्बरं वरम् ॥ ७४ ॥
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवचर्चितम् ॥ ७५ ॥
चतुर्भुजं स्मेरवक्त्रं भक्तानुग्रहकातरम् ॥
मणिरत्नेन्द्रसाराणां सारभूषणभूषितम् ॥ ७६ ॥
देवीं तद्वामतो रम्यां शुक्लवर्णां मनोहराम् ॥
रत्नालङ्कारशोभाढ्यां शोभितां पीतवाससा ॥ ७७ ॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ॥
पक्वबिम्बाधरोष्ठीं च स्मेरयु क्तां मनोहराम् ॥ ७८ ॥
वेणुवीणाग्रन्थहस्तां भक्तानुग्रहकातराम् ॥
विद्याधिष्ठातृदेवीं च ज्ञानरूपां सरस्वतीम् ॥ ७९ ॥
अपरां दक्षिणे रम्यां शतचन्द्रसमप्रभाम् ॥
प्रतप्तस्वर्णवर्णाभां सस्मितां सुमनोहराम् ॥ 4.6.८० ॥
सद्रत्नकुण्डलाभ्यां च सुकपोलविराजि ताम् ॥
अमूल्यरत्नखचितामूल्यवस्त्रेण भूषिताम् ॥ ८१ ॥
अमूल्यरत्नकेयूरकरकङ्कणशोभिताम् ॥
सद्रत्नसारमञ्जीरकलशब्दस मन्विताम् ॥ ८२ ॥
मणीन्द्रकिङ्किणीयुक्तमध्यदेशसमन्विताम् ॥
पारिजातप्रसूनानां मालावक्षः स्थलोज्ज्वलाम् ॥ ८३ ॥
प्रफुल्ल मालतीमालासंयुक्तकबरीयुताम् ॥
शरच्चन्द्रप्रभामुष्णन्मुखचारुविभूषिताम् ॥ ८४ ॥
कस्तूरीबिन्दुसंयुक्तसिन्दुरतिलकान्विताम् ॥
सुचारुकज्जलासक्तशरत्पङ्कजलोचनाम् ॥ ८५ ॥
सहस्रदलसंसक्तलीलाकमलसंयुताम् ॥
नारायणं च पश्यन्तं पश्यन्ती वक्रच क्षुषा ॥ ८६ ॥
अवरुह्य रथात्तूर्ण सस्त्रीकः सहपार्षदः ॥
जगाम च सभां रम्यां गोपगोपीसमन्विताम् ॥ ८७ ॥
देवा गोप्यश्च गोपाश्च तस्थुः प्राञ्जलयो मुदा ॥
सामवेदोक्तस्तोत्रेण कृतेन च सुरर्षिभिः ॥ ८८ ॥
गत्वा नारायणो देवो विलीनः कृष्णविग्रहे ॥
दृष्ट्वा च परमाश्चर्यं ते सर्वे विस्मयं ययुः ॥ ८९ ॥
एतस्मिन्नन्तरे तत्र शातकुम्भमयाद्रथात् ॥
अवरुह्य स्वयं विष्णुः पाता च जग तां पतिः ॥ 4.6.९० ॥
आजगाम चतुर्बाहुर्वनमालाविभूषितः ॥
पीताम्बरधरः श्रीमान्सस्मितः सुमनोहरः ॥ ९१ ॥
सर्वालङ्कारशोभा ढ्यः सूर्यकोटिसमप्रभः ॥
उत्तस्थुस्ते च तं दृष्ट्वा तुष्टुवुः प्रणता मुने ॥ ९२ ॥
स चापि लीनस्तत्रैव राधिकेशस्य विग्रहे ॥
ते दृष्ट्वा महदाश्चर्यं विस्मयं परमं ययुः ॥ ९३ ॥
संविलीने हरेरङ्गे श्वेतद्वीपनिवासिनि ॥
एतस्मिन्नन्तरे तूर्णमाजगाम त्वरान्वितः ॥ ९४ ॥
शुद्धस्फटिकसङ्काशो नाम्ना सङ्कर्षणः स्मृतः ॥
सहस्रशीर्षा पुरुषः शतसूर्यसमप्रभः ॥ ९५ ॥
आगतं तुष्टुवुः सर्वे दृष्ट्वा तं विष्णुवि ग्रहम् ॥
स चागत्य नतस्कधस्तुष्टाव राधिकेश्वरम् ॥ ९६ ॥
सहस्रमूर्धा भक्त्या च प्रणनाम च नारद ॥
आवां च धर्मपुत्रौ द्वौ नर नारायणाभिधौ ॥ ९७ ॥
लीनोऽहं कृष्णपादाब्जे बभूव फाल्गुनोऽवरः॥
ब्रह्मेशशेषधर्माश्च तस्थुरेकत्र तत्र वै ॥ ९८ ॥
एतस्मिन्नन्तरे देवा ददृशू रथमुत्तमम् ॥
स्वर्णसारविकारं च नानासनपरिच्छदम् ॥ ९९ ॥
मणीन्द्रसारसंयुक्तं वह्निशुद्धांशुकान्वितम् ॥
श्वेतचामर संयुक्तं भूषितं दर्पणान्वितैः ॥ 4.6.१०० ॥
सद्रत्नसारकलशसमूहेन विराजितम् ॥
पारिजातप्रसूनानां मालाजालैः सुशोभितम्॥ १०१ ॥
सहस्रचक्रसंयुक्तं मनोयायि मनोहरम् ॥
ग्रीष्ममध्याह्नमार्तण्डप्रभामोषकरं वरम् ॥ १०२ ॥
मुक्तामाणिक्यवज्राणां समूहेन समुज्ज्वलम् ॥
चित्रपुत्तलिकापुष्पसरः काननचित्रितम् ॥ १०३ ॥
देवानां दानवानां च रथानां प्रवरं मुने ॥
यत्नेन शङ्करप्रीत्या निर्मितं विश्वकर्मणा ॥ १०४ ॥
पञ्चाशद्योजनोर्ध्वं च चतुर्योजनविस्तृतम् ॥
रतितुल्यवधूयुक्तैः शोभितं रतिमं दिरैः ॥ १०५ ॥
तत्रस्थां ददृशुर्देवीं रत्नालङ्कारभूषिताम् ॥
प्रदग्धस्वर्णसाराणां प्रभामोषकरद्युतिम् ॥ १०६ ॥
तेजःस्वरूपा मतुलां मूलप्रकृतिमीश्वरीम् ॥
सहस्रभुजसंयुक्तां नानायुधसमन्विताम् ॥ १०७ ॥
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् ॥
गण्डस्थलकपोलस्थसद्रत्नकुण्डलोज्ज्वलाम् ॥ १०८ ॥
रत्नेन्द्रसाररचितक्वणन्मञ्जीररञ्जिताम् ॥
मणीन्द्रमेखलायुक्तमध्य देशसुशोभिताम् ॥ १०९ ॥
सद्रत्नसारकेयूरकरकङ्कणभूषिताम् ॥
मन्दारपुष्पमालाभिरुरःस्थलसमुज्ज्वलाम् ॥ 4.6.११० ॥
नितम्बकठिनश्रोणीं पीनोन्नतकुचानताम् ॥
शरत्सुधाकराभासविनिन्दास्यमनोहराम् ॥ १११ ॥
कज्जलोज्जलरेखाक्तशरत्पङ्कजलोच नाम् ॥
चन्दनागुरुकस्तूरीचित्रपत्रविभूषिताम् ॥ ११२ ॥
मुक्तापङ्क्तिप्रभामुष्टदन्तराजिविराजिताम् ॥
प्रफुल्लमालतीमालासंसक्तकबरीं वराम् ॥११३ ॥
पक्षीन्द्रचञ्चुनासाग्रगजेन्द्रमौक्तिकान्विताम् ॥
वह्निशुद्धांशुकेनातिज्वलितेन समुज्ज्वलाम् ॥ ११४ ॥
सिंहपृष्ठसमारूढां सुताभ्यां सहितां मुदा ॥
अवरुह्य रथात्तूर्ण श्रीकृष्णं प्रणनाम च ॥ ११५ ॥
सुताभ्यां सहिता देवी समुवा स वराननाः ॥
गणेशः कार्त्तिकेयश्च नत्वा कृष्ण परात्परम् ॥ ११६ ॥
ननाम शङ्करं धर्ममनन्तं कमलोद्भवम् ॥
उत्तस्थुरारात्ते देवा दृष्ट्वा तौ त्रिदशेश्वरौ ॥ ११७ ॥
आशिषं च ददुर्देवा वासयामासुरन्तिके ॥
ताभ्यां सह सदालापं चक्रुर्देवा मुदाऽन्विताः ॥ ११८ ॥
तस्थुर्देवाः सभामध्ये देवस्य पुरतो हरेः ॥
गोपा गोप्यश्च बहुशो बभूवुर्विस्मयाकुलाः ॥ ११९ ॥
उवाच कमलां कृष्णः स्मेराननसरोरुहः ॥
त्वं गच्छ भीष्मकगृहं नानारत्नसमन्वितम् ॥ 4.6.१२० ॥
वैदर्भ्या उदरे जन्म लभ देवि सना तनि ॥
तव पाणिं ग्रहीष्यामि गत्वाऽहं कुण्डिनं सति ॥ १२१ ॥
ता देव्यः पार्वतीं दृष्ट्वा समुत्थाय त्वरान्विताः ॥
रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ॥ १२२॥
विप्रेन्द्र पार्वतीलक्ष्मीवागधिष्ठातृदेवताः ॥
तस्थुरेकासने तत्र सम्भाष्य च यथोचि तम् ॥ १२३ ॥
ताश्च सम्भाषयामासुः सम्प्रीत्या गोपकन्यकाः ॥
ऊचुर्गोपालिकाः काश्चिन्मुदा तासां च सन्निधौ ॥ १२४ ॥
श्रीकृष्णः पार्वतीं तत्र समुवाच जगत्पतिः ॥
देवि त्वमंशरूपेण जन नन्दव्रजे शुभे ॥ १२५ ॥
उदरे च यशोदायाः कल्याणी नन्दरेतसा ॥
लभ जन्म महामाये सृष्टिसंहारकारिणि ॥ १२६ ॥
ग्रामे ग्रामे च पूजां ते कारयिष्यामि भूतले ॥
कृत्स्ने महीतले भक्त्या नगरेषु वनेषु च ॥ १२७ ॥
तत्राधिष्ठातृदेवीं त्वां पूजयिष्यन्ति मानवाः ॥
द्रव्यैर्नानाविधैर्दिव्यैर्बलिभिश्च मुदाऽन्विताः ॥ १२८ ॥
त्वद्भूमिस्पर्शमात्रेण सूतिकामन्दिरे शिवे ॥
पिता मां तत्र संस्थाप्य त्वामादाय गमिष्यति ॥ १२९ ॥
कंसदर्शन मात्रेण गमिष्यसि शिवान्तिकम् ॥
भारावतरणं कृत्वा गमिष्यामि स्वमाश्रमम् ॥ 4.6.१३० ॥
इत्युक्त्वा श्रीहरिस्तूर्णमुवाच च षडाननम् ॥
अंशरूपेण वत्स त्वं गमिष्यसि महीतलम् ॥ १३१ ॥
जाम्बवत्याश्च गर्भे च लभ जन्म सुरेश्वर ॥
अंशेन देवताः सर्वा गच्छन्तु धरणीतलम् ॥ १३२ ॥
भारहारं करिष्यामि वसुधायाश्च निश्चितम् ॥
इत्युक्त्वा राधिकानाथस्तस्थौ सिंहासने वरे ॥ १३३ ॥
तस्थुर्देवाश्च देव्यश्च गोपा गोप्यश्च नारद ॥
एतस्मिन्नन्तरे ब्रह्मा समुत्तस्थौ हरेः पुरः ॥
पुटाञ्जलिर्जगत्कान्तमुवाच विन यान्वितः ॥ १३४ ॥
॥ ब्रह्मोवाच ॥ ॥
अवधानं कुरु विभो किङ्करस्य निवेदनम् ॥ १३५ ॥
आज्ञां कुरु महाभाग कस्य कुत्र स्थलं भुवि ॥
भर्ता पातोद्धारकर्ता सेवकानां प्रभुः सदा ॥ १३६ ॥
स भृत्यः सर्वदा भक्त ईश्वराज्ञां करोति यः ॥
के देवाः केन रूपेण देव्यश्च कलया कया ॥ १३७ ॥
कुत्र कस्याभिदेयं च विषयं च महीतले ॥
ब्रह्मणो वचनं श्रुत्वा प्रत्युवाच जगत्पतिः ॥ १३८ ॥
यत्र यस्यावकाशं च कथयामि विधानतः ॥
श्रीकृष्ण उवाच ॥ ॥
कामदेवो रौक्मिणेयो रतिर्मायावती सती ॥ १३९ ॥
शम्बरस्य गृहे या च छायारूपेण संस्थिता ॥
त्वं तस्य पुत्रो भविता नाम्नाऽनिरुद्ध एव च ॥ 4.6.१४० ॥
भारती शोणितपुरे बाणपुत्री भविष्यति ॥
अनन्तो देवकीगर्भाद्रौहिणेयो जगत्पतिः ॥ १४१ ॥
मायया गर्भसङ्कर्षान्नाम्ना सङ्कर्षणः प्रभुः ॥
कालिन्दी सूर्यतनया गङ्गांशेन महीतले ॥ १४२ ॥
अर्द्धांशेनैव तुलसी लक्ष्मणा राज कन्यका ॥
सावित्री वेदमाता च नाम्ना नाग्नजिती सती ॥ १४३ ॥
वसुन्धरा सत्यभामा शैब्या देवी सरस्वती ॥
रोहिणी मित्रविन्दा च भविता राजकन्यका ॥ १४४ ॥
सूर्यपत्नी रत्नमाला कलया च जगत्प्रभोः ॥
स्वाहांशेन सुशीला च रुक्मिण्याद्याः स्त्रियो नव ॥ १४५ ॥
दुर्गांशार्द्धाज्जाम्बवती महिषीणां दश स्मृताः ॥
अर्द्धांशेन शैलपुत्री यातु जाम्बवतो गृहम् ॥ १४६ ॥
कैलासे शङ्कराज्ञा च बभूव पार्वतीं पुरा ॥
कैलासगामिनं विष्णुं श्वेतद्वीपनिवासिनम् ॥
आलिङ्गनं देहि कान्ते नास्ति दोषो ममा ज्ञया ॥ १४७ ॥
॥ ब्रह्मोवाच ॥
कथं शिवाज्ञा तां देवीं बभूव राधिकापते ॥
विष्णोः सम्भाषणे पूर्वं श्वेतद्वीपनिवासिनः ॥ १४८ ॥
॥ श्रीभगवानुवाच ॥ ॥
पुरा गणेशं द्रष्टुं च प्रजग्मुः सर्वदेवताः ॥
श्वेतद्वीपात्स्वयं विष्णुर्जगाम शङ्करालये ॥ १४९ ॥
दृष्ट्वा गणेशं मुदितः समुवास सुखासने ॥
सुखेन ददृशुः सर्वे त्रैलोक्यमोहनं वपुः ॥ 4.6.१५०॥
किरीटिनं कुण्डलिनं पीताम्बरधरं वरम् ॥
सुन्दरं श्याम रूपं च नवयौवनसंयुतम् ॥ १५१ ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवसंयुतम् ॥
रत्नालङ्कारशोभाढयं स्मेराननसरोरुहम् ॥ १५२ ॥
रत्न सिंहासनस्थं च पार्षदैः परिवेष्टितम् ॥
वन्दितं च सुरैः सर्वैः शिवेन पूजितं स्तुतम् ॥१५३॥
तं दृष्ट्वा पार्वती विष्णुं प्रसन्नवदनेक्षणा ॥
मुखमाच्छादितं चक्रे वाससा व्रीडया सती ॥१५४॥
अतीव सुन्दरं रूपं दर्शन्दर्शं पुनःपुनः ॥
ददर्श मुखमाच्छाद्य निमेषरहिता सती ॥ १५९ ॥
परमाद्भुतवेषं च सस्मिता वक्रचक्षुषा ॥
सुखसागरसम्मग्ना बभूव पुलकाञ्चिता ॥१५६॥
क्षणं ददर्श पञ्चास्यं शुभ्रवर्णं त्रिलोचनम् ॥
त्रिशूलपरिघधरं कन्दर्पकोटिसुन्दरम् ॥ १५७ ॥
क्षणं ददर्श श्यामं तमेकास्यं च द्विलोचनम् ॥
चतुर्भुजं पीतवस्त्रं वनमालाविभूषितम् ॥ १५८ ॥
एकं बह्म मूर्तिभेदमभेदं वा निरूपितम् ॥
दृष्ट्वा बभूव सा माया सकामा विष्णु मायया ॥ १५९ ॥
मदंशाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥
ताभ्यामौत्कर्षपाताच्च श्रेष्ठः सत्त्वगुणात्मकः ॥ 4.6.१६० ॥
दृष्ट्वा तं पार्वती भक्त्या पुलकाञ्चितविग्रहा॥
मनसा पूजयामास परमात्मानमीश्वरम् ॥ १६१ ॥
दुर्गान्तराभिप्रायं च बुबुधे शङ्करः स्वयम् ॥
सर्वान्तरात्मा भगवानन्तर्यामी जगत्पतिः ॥ १६२ ॥
दुर्गां निर्जनमाहूय तामुवाच हरः स्वयम् ॥
बोधयामास विविधं हितं तथ्यमखण्डितम् ॥ १६३ ॥
॥ श्रीशङ्कर उवाच ॥ ॥
निवेदनं मदीयं च निबोधं शैलकन्यके ॥
शृङ्गारं देहि भद्रं ते हरये परमात्मने ॥ १५४ ॥
अहं ब्रह्मा च विष्णुश्च ब्रह्मैकं च सनातनम् ॥
वदैको वेदरहितो विषयान्मूर्तिभेदकः ॥ १६५ ॥
एका प्रकृतिः सर्वेषां माता त्वं सर्वरूपिणी ॥
स्वयम्भूरसि वाणी त्व लक्ष्मीर्नारायणोरसि ॥ १६६ ॥
मम वक्षसि दुर्गा त्वं निबोधाध्यात्मकं सति ॥
शिवस्य वचनं श्रुत्वा तमुवाच सुरेश्वरी ॥ १६७ ॥
॥ पार्वत्युवाच ॥ ॥
दीनबन्धो कृपासिन्धो तव मामकृपा कथम्॥
सुचिरं तपसा लब्धो नाथस्त्वं जगतां मया ॥ १६८ ॥
मादृशीं किङ्करी नाथ न परित्यक्तुमर्हसि ॥
अयोग्यमीदृशं वाक्यं मा मा वद महेश्वर ॥ १६९ ॥
तव वाक्यं महादेव करिष्याम्येव पालनम् ॥
देहान्तरे जन्म लब्ध्वा भजिष्यामि हरिं हर ॥ 4.6.१७० ॥
इत्येवं वचनं श्रुत्वा विरराम महेश्वरः ॥
उच्चैर्जहासाभयदः पार्वत्यै चाभयं ददौ ॥ १७१ ॥
तत्प्रतिज्ञापालनाय पार्वती जाम्बवद्गृहे ॥
लभिष्यति जनुर्धातर्नाम्ना जाम्बवती सती ॥ १७२ ॥
॥ ब्रह्मोवाच ॥ ॥
भूमौ कतिविधे भूपे संस्थिते पार्वती कथम् ॥
ललाभ भारते जन्म निन्दिते भाल्लुके गृहे ॥१७३॥
॥ श्रीकृष्ण उवाच ॥ ॥
रामावतारे त्रेतायां देवांशाश्च ययुर्महीम् ॥
हिमालयांशो भल्लूको जाम्बवान्नाम किङ्करः ॥ १७४ ॥
रामस्य वरदानेन चिरञ्जीवी श्रिया युतः ॥
कोटिसिंहबलाधानं विधत्ते च महाबलः ॥ १७५ ॥
पितुरंशगृहे दुर्गा जगामांशेन भूतलम् ॥
पूर्वं पूर्वस्य वृत्तान्तं कथितं शृणु मन्मुखात् ॥ १७५ ॥
सर्वेषां च सुराणां वै वंशा गच्छन्तु भूतलम् ॥
नृपपुत्रा मत्सहाया भविष्यन्ति रणे विधे ॥ १७७ ॥
कमलाकलया सर्वा भवन्तु नृपकन्यकाः ॥
मन्महिष्यो भविष्यन्ति सहस्राणां च षोडश ॥ १७८ ॥
धर्मोऽयमंशरूपेण पाण्डुपुत्रो युधिष्ठिरः ॥
वायोरंशाद्भीमसेनः स वज्री ह्यर्जुनः स्वयम् ॥ १७९ ॥
नकुलः सहदेवश्च स्वर्वैद्यांशसमुद्भवौ ।
सृर्यांशः कर्णवीरश्च विदुरः स यमः स्वयम् ॥ 4.6.१८० ॥
दुर्योधनः कलेरंशः समुद्रांशश्च शन्तनुः ॥
अश्वत्थामा शङ्करांशो द्रोणो वह्न्यंशसम्भवः ॥ १८१ ॥
हुताशनांशो भगवान्धृष्टद्युम्नो महाबलः ॥
चन्द्रांशोऽप्यभिमन्युश्च भीष्मश्चैव वसूद्भवः ॥ १८२ ॥
वसुदेवः कश्यपांशोऽप्यदित्यंशा च देवकी ॥
वस्वंशो नन्दगोपश्च यशोदा वसुका मिनी ॥ १८३ ॥
द्रौपदी कमलांशा च यज्ञकुण्डसमुद्भवा ॥
सुभद्रा शतरूपांशा देवकीगर्भसम्भवा ॥१८४॥
देवा गच्छन्तु पृथिवीमंशेन भारहारकाः ॥
कलया देवपत्न्यश्च गच्छन्तु पृथिवीतलम् ॥ १८५ ॥
इत्येवमुक्त्वा भगवान्विरराम च नारद ॥
सर्वं विवरणं श्रुत्वा तत्रोवास प्रजापतिः ॥१८६॥
कृष्णस्य वामे वाग्देवी दक्षिणे कमलालया ॥
पुरतो देवताः सर्वाः पार्वती चापि नारद ॥ १८७ ॥
गोप्यो गोपाश्च परितो राधा वक्षःस्थलस्थिता ॥
एतस्मिन्नन्तरे सा च तमुवाच व्रजेश्वरी ॥१८८॥
॥ राधिकोवाच ॥
शृणु नाथ प्रवक्ष्यामि किङ्करीवचनं प्रभो ॥
प्राणा दहन्ति सततमान्दोलयति मे मनः ॥ १८९ ॥
चक्षुर्निमीलनं कर्तुमशक्ता तव दर्शने ॥
त्वया विना कथं नाथ यास्यामि धरणीतलम् ॥ 4.6.१९० ॥
कियत्कालान्तरेणैव मेलनं मे त्वया सह ॥
प्राणेश्वर ब्रूहि सत्यं भविष्यत्येव गोकुले ॥ १९१ ॥
निमेषं च युगशतं भविता मे त्वया विना ॥
कं द्रक्ष्यामि क्व यास्यामि को वा मां पालयिष्यति ॥ १९२ ॥
मातरं पितरं बन्धुं भ्रातरं भगिनीं सुतम् ॥
त्वया विनाऽहं प्राणेश चिन्तयामि न कश्चन ॥ १९३ ॥
करोषि मायया छन्ना मां चेन्मायेश भूतले ॥
विस्मृतां विभवं दत्त्वा मे सत्यं शपथं कुरु ॥ १९४ ॥
अनुक्षणं मम मनोमधुपो मधुसूदन ॥
करोतु भ्रमणं नित्यं समाध्वीके पदाम्बुजे ॥ १९५ ॥
यत्रयत्र च यस्यां वा योनौ जन्म भवत्विदम् ॥
त्वं स्वस्य स्मरणं दास्यं मह्यं दास्यसि वाञ्छितम् ॥ १९६ ॥
कृष्णस्त्वं राधिकाऽहं च प्रेमसौभाग्यमावयोः ॥
न विस्मरामि भूमौ च देहि मह्यं वरं परम् ॥ १९७ ॥
यथा तन्वा सह प्राणाः शरीरं छायया सह ॥
तथाऽऽवयोर्जन्म यातु देहि मह्यं वरं विभो ॥ १९८ ॥
चक्षुर्निमेषविच्छेदो भविता नावयोर्भुवि ॥
तत्रागत्यापि कुत्रापि देहि मह्यं वरं प्रभो ॥ १९९ ॥
मम प्राणैस्तव तनुः केन वा करुणा हरे ॥
आत्मना मुरलीपादौ मनसा वा विनिर्मितौ ॥ 4.6.२०० ॥
स्त्रियः कतिविधाः सन्ति पुरुषा वा पुरुष्टुत ॥
नास्ति कुत्रापि कान्ता वा कान्त्या शक्त्या च मादृशी ॥ २०१ ॥
तव देहार्धभागेन केन वाऽहं विनिर्मिता ॥
अयमेवावयोर्भेदो नास्त्यतस्त्वयि मे मनः ॥ २०२ ॥
ममात्मा मानसं प्राणास्त्वयि संस्थापिता यथा ॥
तवात्ममानसप्राणा मयि वा संस्थितास्तथा ॥२०३॥
अतो निमेषविरहादात्मनोर्विक्लवं मनः ॥
प्रदग्धं सन्ततं प्राणा दहन्ति विरहश्रुतौ ॥ २०४ ॥
इत्येवमुक्त्वा सा देवी तत्रैव सुरसंसदि॥
भूयोभूयो रुरोदोच्चैर्धृत्वा तच्चरणाम्बुजम् ॥ २०५॥
क्रोडे कृत्वा तु तां कृष्णो मुखं सम्मृज्य वाससा ॥
बोधयामास विविधं सत्यं तथ्यं हितं वचः ॥ २०६ ॥
श्रीकृष्ण उवाच ॥
आध्यात्मिकं परं योगं शोकच्छेदनकारकम् ॥
शृणु देवि प्रवक्ष्यामि योगीन्द्राणां च दुर्लभम् ॥ २०७ ॥
आधाराधेययोः सर्वं ब्रह्माण्डं पश्य सुन्दरि ॥
आधारव्यतिरेकेण नास्त्याधेयस्य सम्भवः ॥ ॥ २०८ ॥
फलाधारं च पुष्पं च पुष्पाधारं च पल्लवम् ॥
स्कन्धश्च पल्लवाधारः स्कन्धाधारस्तरुः स्वयम् ॥ २०९ ॥
वृक्षाधारो ऽप्यङ्कुरश्च जीवशक्तिसमन्वितः ॥
अष्टिरेकाङ्कुराधारश्चाष्ट्याधारो वसुन्धरा ॥ 4.6.२१० ॥
शेषो वसुन्धराधारः शेषाधारो हि कच्छपः॥
वायुश्च कच्छपाधारो वाय्वाधारोऽहमेव च ॥ २११ ॥
ममाधारस्वरूपा त्वं त्वयि तिष्ठामि साम्प्रतम् ॥
त्वं च शक्तिसमूहा च मूलप्रकृ तिरीश्वरी ॥ २१२ ॥
त्वं शरीरस्वरूपाऽसि त्रिगुणाऽऽधाररूपिणी ॥
तवात्माऽहं निरीहश्च चेष्टावांश्च त्वया सह ॥२१३॥
पुरुषाद्वीर्यमुत्पन्नं वीर्यात्सन्ततिरेव च ॥
तयोराधाररूपा च कामिनी प्रकृतेः कला ॥ २१४ ॥
विना देहेन क्वात्मा च क्व शरीरं विनाऽऽत्मना॥
प्राधान्यं च तयोर्देवि विना त्वाऽद्य कुतो भवः ॥२१५॥
न कुत्राप्यावयोर्भेदो राधे संसारबीजयोः ॥
यत्रात्मा तत्र देहं च न भेदो विनयेन किम् ॥ २१६ ॥
यथा क्षीरे च धावल्यं दाहिका च हुताशने ॥
भूमौ गन्धो जले शैत्यं तथा त्वयि मयि स्थिते ॥ २१७ ॥
धावल्यदुग्धयोरैक्यं दाहिकानलयोर्यथा ॥
भूगन्धजलशैत्यानां नास्ति भेदस्तथाऽऽवयोः ॥ २१८ ॥
मया विना त्वं निर्जीवा चादृश्योऽहं त्वया विना ॥
त्वया विना भवं कर्तुं नालं सुन्दरि निश्चितम् ॥ २१९ ॥
विना मृदा घटं कर्तुं यथा नालं कुलालकः ॥
विना स्वर्णं स्वर्णकारोऽलङ्कारं कर्तुमक्षमः ॥ 4.6.२२० ॥
स्वयमात्मा यथा नित्यस्तथा त्वं प्रकृतिः स्वयम् ॥
सर्वशक्तिसमायुक्ता सर्वाधारा सनातनी ॥ २२१ ॥
मम प्राणसमा लक्ष्मीवाणी च सर्वमङ्गला ॥
ब्रह्मेशानन्तध र्माश्च त्वं मे प्राणाधिका प्रिया ॥ २२२ ॥
समीपस्था इमे सर्वे सुरा देव्यश्च राधिके ॥
एभ्योऽप्यधिका नो चेत्कथं वक्षः स्थलस्थिता ॥ २२३ ॥
त्यजाश्रुमोक्षणं राधे भ्रान्तिं च निष्फलां सति ॥
विहाय शङ्कां निःशङ्कं वृषभानुगृहं व्रज ॥ २२४ ॥
कलावत्याश्च जठरे मासानां नव सुन्दरि ॥
वायुना पूरयित्वा च गर्भं रोधय मायया ॥ २२५॥
दशमे समनुप्राप्ते त्वमाविर्भव भूतले ॥
स्वात्मरूपं परित्यज्य शिशुरूपं विधाय च ॥ २२६ ॥
वायुनिःसारणे काले कलावत्याः समीपतः ॥
भूमौ विवसनीभूय पतित्वा रोदिषि ध्रुवम् ॥२२७॥
अयोनिसम्भवा त्वं च भविता गोकुले सति ॥
अयोनिसम्भवोऽहं च नावयोर्गर्भसंस्थितिः ॥ २२८ ॥
भूमिसंस्पृष्टमात्रं मां गोकुले प्रापयिष्यति ॥
तव हेतोर्गमिष्यामि कृत्वा कंसभयं छलम् ॥ २२९ ॥
यशोदामन्दिरे मां च सानन्दं नन्दनन्दनम् ॥
नित्यं द्रक्ष्यसि कल्याणि ममाश्लेषणपूर्वकम् ॥ 4.6.२३० ॥
स्मृतिस्ते भविता काले वरेण मम राधिके ॥
स्वच्छन्दं विहरिष्यामि नित्यं वृन्दावने वने ॥ २३१ ॥
त्रिःसप्तशतकोटीभिर्गोपीभिर्गोकुलं व्रज ॥
त्रयस्त्रिंशद्वयस्याभिः सुशीलादिभिरेव च ॥ २३२ ॥
संस्थाप्य सङ्ख्यारहिता गोपीर्गोकुल एव च ॥
ता आश्वास्य प्रबोधैश्च मितया च सुधागिरा ॥२३३॥
अहं गोपाल सुहृदः संस्थाप्यात्रैव राधिके ॥
वसुदेवाश्रमं पश्चाद्यास्यामि मथुरां पुरीम् ॥ २३४ ॥
व्रजे व्रजन्तु क्रीडार्थं मम सङ्गे प्रियात्प्रियाः॥
बल्लवानां गृहे जन्म लभन्तां गोपकोटयः ॥ २३५ ॥
इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद ॥
ऊषुर्देवाश्च देव्यश्च गोपा गोप्यश्च तत्र वै ॥ २३६ ॥
ब्रह्मेशशेषधर्माश्च श्रीकृष्णं तं परात्परम् ॥
शिवापद्मासरस्वत्यस्तुष्टुवुः परया मुदा ॥ २३७ ॥
भक्त्या गोपाश्च गोप्यश्च विरहज्वरकातराः ॥
तत्र संस्तूय श्रीकृष्णं प्रणेमुः प्रेमविह्वलाः ॥ २३८
प्राणाधिकं प्रियं कान्तं राधापूर्णमनोरथम् ॥
परितुष्टोऽभवद्भक्त्याविरहज्वरकातराम् ॥ २३९ ॥
साश्रुपूर्णातिदीनां च दृष्ट्वा राधां भयाकुलाम् ॥
प्रबोधवचनं श्रुत्यमुवाच तां हरिः स्वयम् ॥ 4.6.२४० ॥
॥ श्रीकृष्ण उवाच ॥
प्राणाधिके महादेवि स्थिरा भव भयं त्यज ॥
यथा त्वं च तथाऽहं च का चिन्ता ते मयि स्थिते ॥ २४१ ॥
किं तु ते कथयिष्यामि किञ्चिदेवास्त्यमङ्गलम् ॥
वर्षाणां शतकं पूर्णं त्वद्विच्छेदो मया सह ॥ २४२ ॥
श्रीदामशापजन्येन कर्मभोगेन सुन्दरि ॥
भविष्यत्येव मम च मथुरागमनं ततः ॥ २४३ ॥
तत्र भारावतरणं पित्रोर्बन्धनमोचनम् ॥
मालाकारतन्तुवायकुब्जिकानां च मोक्षणम् ॥ २४४ ॥
घातयित्वा च यवनं मुचुकुन्दस्य मोक्षणम् ॥
द्वारकायाश्च निर्माणं राजसूयस्य दर्शनम् ॥ २४५ ॥
उद्वाहं राजकन्यानां सहस्राणां च षोडश ॥
दशाधिकशतस्यापि शत्रूणां दमनं तथा ॥ २४६ ॥
मित्रोपकरणं चैव वाराणस्याश्च दाहनम् ॥
हरस्य जृम्भणं तत्र बाणस्य भुजकृन्तनम् ॥ २४७ ॥
पारिजातस्य हरणं यद्यत्कर्माणि तानि च ॥
गमनं तीर्थयात्रायां मुनिसङ्घप्रदर्शनम् ॥ २४८ ॥
सम्भाषणं च बन्धूनां यज्ञसम्पादनं पितुः ॥
शुभक्षणे पुनस्तत्र त्वया सार्द्धं प्रदर्शनम् ॥
करिष्यामि च तत्रैव गोपिकानां च दर्शनम् ॥ २४९ ॥
तुभ्यमाध्यात्मिकं दत्त्वा पुनः सत्यं त्वया सह ॥
दिवानिशमविच्छेदो मया सार्द्धमतः परम् ॥ 4.6.२५० ॥
भविष्यति त्वया सार्द्धं पुनरागमनं व्रजे ॥
कान्ते विच्छेदसमये वर्षाणां शतके सति ॥ २५१ ॥
नित्यं सम्मीलन स्वप्ने भविष्यति त्वया सह ॥
मम नारायणांशो यस्तस्य यानं च द्वारकाम् ॥ २९२ ॥
शतवर्षान्तरे साध्यमेतदेव सुनिश्चितम् ॥
भविष्यति पुनस्तत्र वने रासस्त्वया सह ॥ २५३ ॥
पुनः पित्रोश्च गोपीनां शोकसम्मार्जनं परम् ॥
कृत्वा भारावतरणं पुनरागमनं मम ॥ २५४ ॥
त्वया सहापि गोलोकं गोपैर्गोपीभिरेव च ॥
मम नारायणांशस्य वाण्या च पद्मया सह ॥ २५५ ॥
वैकुण्ठगमनं राधे नित्यस्य परमात्मनः ॥
श्वेतद्वीपं धर्मगेहमंशानां च भविष्यति ॥ २५६ ॥
देवानां चैव देवीनामंशा यास्यन्ति स्वक्षयम् ॥
पुनः संस्थितिरत्रैव गोलोके मे त्वया सह ॥ २५७ ॥
इत्येवं कथितं सर्वं भविष्यं च शुभाशुभम् ॥
मया निरूपितं यत्तत्कान्ते केन निवार्यते ॥ २५८ ॥
इत्येवमुक्त्वा श्रीकृष्णः कृत्वा राधां स्ववक्षसि ॥
तस्थौ तस्थुः सुराः सर्वे सुरपत्न्यश्च विस्मिताः ॥ २५९ ॥
उवाच श्रीहरिर्देवान्देवीं च समयोचितम् ॥
देवा गच्छत कार्यार्थं स्वालयं विषयोचितम् ॥ 4.6.२६० ॥
गच्छ पार्वति कैलासं सुताभ्यां स्वामि ना सह ॥
मया नियोजितं कर्म सर्वं काले भविष्यति ॥ २६१ ॥
भविता कलया जन्म सर्वेषां च व्रजेश्वरि ॥
क्षुद्राणां चैव महतां देवं लम्बोदरं विना ॥ २६२ ॥
प्रणम्य श्रीहरिं देवाः स्वालयं प्रययुर्मुदा ॥
लक्ष्मीं सरस्वतीं भक्त्या प्रणम्य पुरुषोत्तमम् ॥ २६३ ॥
हरिणा योजितं कर्म कर्तुं व्यग्रा महीं ययुः ॥
भर्त्रा निरूपितं स्थानं देवानामपि दुर्लभम् ॥ २६४ ॥
उवाच राधिकां कृष्णो वृषभानुगृहं व्रज ॥
गोपगोपीसमूहैश्च सह पूर्वनिरूपितैः ॥ २६५ ॥
अहं यास्यामि मथुरां वसुदेवालयं प्रिये ॥
पश्चात्कंसभय व्याजाद्गोकुलं तव सन्निधिम् ॥ २६६ ॥
राधा प्रणम्य श्रीकृष्णं रक्तपङ्कजलोचना ॥
भृशं रुरोद पुरतः प्रेमविच्छेदकातरा ॥ २६७ ॥
स्थायंस्थायं क्वचिद्यान्ती गत्वागत्वा पुनः पुनः ॥
पुनः पुनः समागत्य दर्शन्दर्शं हरेर्मुखम् ॥ २६८ ॥
पपौ चक्षुश्चकोराभ्यां निमेषरहिता सती ॥
शरत्पार्वणचन्द्राभसुधापूर्णं प्रभोर्मुखम् ॥ २६९ ॥
ततः प्रदक्षिणीकृत्य सप्तधा परमेश्वरी ॥
प्रणम्य सप्तधा चैव पुनस्तस्थौ हरेः पुरः ॥ 4.6.२७० ॥
आजग्मुर्गोपिकानां च त्रिःसप्तशतकोटयः ॥
आजगाम च गोपानां समूहः कोटिसङ्ख्यकः ॥ २७१ ॥
गोपानां गोपिकानां च समूहैः सह राधिका ॥
पुनः प्रणम्य तं राधा तत्र तस्थौ च नारद ॥ २७२ ॥
त्रयस्त्रिंशद्वयस्याभिर्गोपीभिः सह सुन्दरी ॥
गोपानां च समूहैश्च प्रणम्य प्रययौ महीम् ॥ २७३ ॥
हरिणा योजितं स्थानं प्रजग्मुर्नन्दगोकुलम् ॥
वृषभानुगृहं राधा गोपीगोपगृहं ययौ ॥ २७४ ॥
महीं गतायां राधायां गोपीभिः सह गोपकैः ॥
बभूव श्रीहरिः सद्यः पृथिवीं गमनोत्सुकः ॥ २७५ ॥
सम्भाष्य गोपान्गोपीश्च नियोज्य स्वीयकर्मणि ॥
मनोयायी जगन्नाथो जगाम मथुरां हरिः ॥ २७६ ॥
पूर्वं यद्यदपत्यं च देवकीवसुदेवयोः ॥
बभूव सद्यस्तत्कंसः पुत्रषट्कं जघान ह ॥ २७७ ॥
शेषांशं सप्तमं गर्भं माययाऽऽकृष्य गोकुले ॥
निधाय रोहिणीगर्भे जगाम चाज्ञया हरेः ॥२७८॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे षष्ठोऽध्यायः ॥ ६ ॥