श्रीनारायण उवाच ॥
गोलोकं निखिलं दृष्ट्वा देवास्ते हृष्टमानसाः ॥
पुनराजग्मू राधायाः प्रधानद्वारमेव च ॥ १ ॥
सद्रत्नमणिनिर्माणं वेदिकायुग्मसंयुतम् ॥
हरिद्राकारमणिना वज्रसम्मिश्रितेन च ॥ २ ॥
अमूल्यरत्नरचितकपाटेन विभूषितम् ॥
द्वारे नियुक्तं ददृशुर्वीरभानुमनुत्तमम् ॥ ३ ॥
रत्नसिंहासनस्थं च रत्नाभरणभूषितम् ॥
पीतवस्त्रपरीधानं सद्रत्नमुकुटोज्ज्वलम् ॥ ४ ॥
द्वारं चित्रविचित्रेण विचित्रं परमाद्भुतम् ॥
सर्वं निवेदनं चक्रुर्देवा दौवारिकं मुदा ॥ ५ ॥
तानुवाच द्वारपालो निःशङ्कं त्रिदशेश्वरान् ॥
नाहं विनाऽऽज्ञया गन्तुं दातुं साम्प्रतमीश्वरः ॥६॥
किङ्करान्प्रेषयामास श्रीकृष्णस्थानमेव च ॥
हरेरनुज्ञां सम्प्राप्य ददौ गन्तुं सुरान्मुने ॥ ७ ॥
तं सम्भाष्य ययुर्देवा द्वितीयं द्वारमुत्तमम् ॥
ततोऽधिकं विचित्रं च सुन्दरं सुमनोहरम् ॥ ५ ॥
द्वारे नियुक्तं ददृशुश्चन्द्रभानुं च नारद ॥
किशोरं श्यामलं चारु स्वर्णवेत्रधरं वरम् ॥ ९ ॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥
गोपानां च समूहेन पञ्चलक्षेण शोभितम् ॥ 4.5.१० ॥
तं सम्भाष्य ययुर्देवास्तृतीयं द्वारमुत्तमम् ॥
ततोऽतिसुन्दरं चित्रं ज्वलन्तं मणितेजसा ॥ ११ ॥
द्वारे नियुक्तं ददृशुः सूर्यभानुं च नारद ॥
द्विभुजं मुरलीहस्तं किशोरं श्यामसुन्दरम् ॥ १२ ॥
मणिकुण्डलयुग्मेन कपोलस्थलराजितम् ॥
रत्नदण्डकरं श्रेष्ठं प्रेष्यं राधेशयोः परम् ॥ १३ ॥
नवलक्षेण गोपानां वेष्टितं च नृपेन्द्रवत् ॥
तं सम्भाष्य ययुर्देवाश्चतुर्थं द्वारमेव च ॥१४॥
तेभ्यो विलक्षणं रम्यं सुदीप्तं मणितेजसा ॥
अत्यद्भुतविचित्रेण भूषितं सुमनोहरम् ॥ १५ ॥
द्वारे नियुक्तं ददृशुर्वसुभानुं व्रजेश्वरम् ॥
किशोरं सुन्दरवरं मणिदण्डकरं परम् ॥ १६ ॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥
पक्वबिम्बाधरोष्ठं च सस्मितं सुमनोहरम् ॥ १७ ॥
तं सम्भाष्य ययुर्देवा पञ्चमं द्वारमेव च ॥
वज्रभित्तिस्थितैश्चित्रविचित्रैर्ज्वलितं परम् ॥ १८ ॥
द्वारपालं च ददृशुर्देवभानुं च तत्र वै ॥
चारु सिंहासनस्थं च रत्नभूषणभूषितम् ॥ १९ ॥
मयूरपिच्छचूडं च रत्नमालाविभूषितम् ॥
कदम्बपुष्पसंसक्तसद्रत्नकुण्डलोज्ज्वलम् ॥ 4.5.२० ॥
चन्दनागरुकस्तूरीकुङ्कुमद्रवचर्चितम् ॥
नृपेन्द्रवरतुल्यं च दशलक्षप्रजान्वितम् ॥ २१ ॥
तं वेत्रपाणिं सम्भाष्य ययुर्देवा मुदाऽन्विताः ॥
विलक्षणं द्वारषट्कं चित्रराजिविराजितम् ॥ २२ ॥
वज्रभित्तियुग्मयुक्ते पुष्पमाल्यविभूषिते ॥
द्वारे नियुक्तं ददृशुः शुक्रभानुं व्रजेश्वरम् ॥ २३ ॥
नानालङ्कारशोभाढ्यं दशलक्षप्रजान्वितम् ॥
श्रीखण्डपल्लवासक्तकपोलं कुण्डलोज्ज्वलम् ॥ २४॥
तूर्णं सुरास्तं सभाष्य ययुर्द्वारं च सप्तमम् ॥
नानाप्रकारचित्रं च षड्भ्यश्चातिविलक्षणम् ॥ २५ ॥
द्वारे नियुक्तं ददृशू रत्नभानुं हरेः प्रियम् ॥
चन्दनोक्षितसर्वाङ्गं पुष्पमालाविभूषितम् ॥
भूषितं भूषणै रम्यैर्मणिरत्नमनोहरैः ॥ २६ ॥
गोपैर्द्वादशलक्षैश्च राजेन्द्रमिव राजितम् ॥
रत्नसिंहासनस्थं च स्मेराननसरोरुहम् ॥ २७ ॥
तं वेत्रहस्तं सम्भाष्य जग्मुर्देवेश्वरा मुदा ॥
विचित्रमष्टमं द्वारं सप्तभ्योऽपि विलक्षणम् ॥ २८ ॥
दौवारिकं ते ददृशुः सुपार्श्वं सुमनोहरम् ॥
सस्मितं सुन्दरवरं श्रीखण्डतिलकोज्ज्वलम् ॥ २९ ॥
बन्धुजीवाधरोष्ठं च रत्नकुण्डलमण्डितम् ॥
सर्वालङ्कारशोभाढ्यं रत्नदण्डधरं वरम् ॥ 4.5.३० ॥
गोपैर्द्वादशलक्षैश्च किशोरैश्च समन्वितम् ॥
ततः शीघ्रं ययुर्देवा नवमं द्वारमीप्सितम् ॥३१॥
वज्रसद्रत्नरचितं चतुर्वेदिसमन्वितम् ॥
अपूर्वचित्ररचितमालजालैर्विराजितम् ॥ ३२ ॥
द्वारपालं च ददृशुः सुबलं ललिताकृतिम् ॥
नानाभूषणशोभाढ्यं भूषणार्हं मनोहरम् ॥ ३३ ॥
वज्रैर्द्वादशलक्षैश्च संयुक्तं सुमनोहरम् ॥
तं दण्डहस्तं सम्भाष्य सुरा द्वारातरं ययुः ॥ ३४ ॥
विशिष्टं दशमं द्वारं दृष्ट्वा ते विस्मयं ययुः ॥
सर्वानिर्वचनीयं चाप्यदृष्टमश्रुतं मुने ॥ ३९ ॥
ददृशुर्द्वारपालं च सुदामानं च सुन्दरम् ॥
अनिवर्चनीयरूपं कृष्णतुल्यं मनोहरम् ॥ ३६ ॥
गोपविंशतिलक्षाणां समूहैः परिवारितम् ॥
तं दण्डहस्तं दृष्ट्वैव जग्मुर्द्वारान्तरं सुराः ॥ ३७ ॥
द्वारमेकादशाख्यं च सुचित्रं महदद्भुतम् ॥
द्वारपालं च तत्रस्थं श्रीदामानं व्रजेश्वरम् ॥ ३८ ॥
राधिकापुत्रतुल्यं च पीतवस्त्रेण भूषितम् ॥
अमूल्यरत्नरचितरत्नसिंहासनस्थितम् ॥ ३९ ॥
अमूल्यरत्नभूषाभिर्भूषितं सुमनोहरम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमेन विराजितम् ॥ 4.5.४० ॥
गण्डस्थलकपोलार्हसद्रत्नकुण्डलोज्ज्वलम् ॥
सद्रत्नश्रेष्ठरचितविचित्रमुकुटोज्ज्वलम् ॥ ४१ ॥
प्रफुल्लमालतीमालाजालैः सर्वाङ्गभूषितम् ॥
कोटिगोपैः परिवृतं राजेन्द्राधिकमुज्ज्वलम् ॥ ४२ ॥
तं सम्भाष्य ययुर्द्वारं द्वादशाख्यं सुरा मुदा ॥
अमूल्यरत्नरचितवेदिकाभिः समन्वितम् ॥ ४३ ॥
सर्वेषां दुर्लभं चित्रमदृश्यमश्रुतं मुने ॥
वज्रभित्तिस्थितं चित्रं सुन्दरं सुमनोहरम् ॥ ४४ ॥
द्वारे नियुक्ता ददृशुर्देवा गोपाङ्गना वराः ॥
नवयौवनसम्पन्ना रत्नाभरणभूषिताः ॥ ४५ ॥
पीतवस्त्रपरीधानाः कबरीभारभूषिताः ॥
सुगन्धिमालतीमाला जालैः सर्वाङ्गभूषिताः ॥ ४६ ॥
रत्नकङ्कणकेयूररत्ननूपुरभूषिताः ॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताः ॥ ४७ ॥
चन्दनागुरु कस्तूरीकुङ्कुमद्रवचर्चिताः ॥
पीनश्रोणीभरानम्रा नितम्बाभारपीडिताः ॥ ४८ ॥
गोपीनां शतकोटीनां श्रेष्ठाः प्रेष्ठा हरेरपि ॥
गोपीश्च कोटिशो दृष्ट्वा सुरास्ते विस्मयं ययुः ॥ ४९ ॥
सम्भाष्य ता मुदा युक्ता ययुर्द्वारातरं मुने ॥
ततश्च क्रमशो विप्र त्रिषु द्वारेषु तत्र वै ॥ 4.5.५० ॥
गोपाङ्गनानां श्रेष्ठाश्च ददृशुः सुमनोहराः ॥
वराणां च वरा रम्या धन्या मान्याश्च शोभनाः ॥ ५१ ॥
सर्वाः सौभाग्ययुक्ताश्च राधिकायाः प्रियाश्च ताः ॥
भूषिता भूषणै रम्यैः प्रोद्भिन्ननवयौवनाः ॥ ५२ ॥
एवं द्वारत्रयं दृष्ट्वा स्वप्ना ज्ञानाद्भुताश्रुतम् ॥
अदृश्यमतिरम्यं चाप्यनिरूप्यं विचक्षणैः ॥ ५३ ॥
तास्ताः सम्भाष्य देवास्ते विस्मिता ययुरीश्वराः ॥
राधिकाभ्यन्तरं द्वारं षोडशाख्यं मनोहरम् ॥ ५४ ॥
सर्वासां च प्रधानं च गोप्यं गोपाङ्गनागणैः ॥
त्रयस्त्रिंशद्वयस्यानां निकरैर्वेष्टितं मुने ॥ ५५ ॥
तेषामनिर्वचनीयैर्नानागुणसमन्वितैः ॥
रूपयौवनसम्पन्नै रत्नालङ्कारभूषितैः ॥ ५६ ॥
रत्नकङ्कणकेयूरत्ननूपुरभूषितैः ॥
सद्रत्नकिङ्किणीजालैमर्ध्यदेशविभूषितैः ॥ ५७ ॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितैः ॥
प्रफुल्लमालतीमालाजालैर्वक्षस्थलोज्ज्वलैः ॥ ५८ ॥
शरत्पार्वणपद्मानां प्रभां मुष्णन्मुखेन्दुभिः ॥
पारिजातप्रसूनानां मालाजालेन वेष्टितैः ॥ ॥ ५९ ॥
पक्वबिम्बाधरोष्ठैश्च स्मेराननसरोरुहैः ॥
पक्वदाडिमबीजाभिः शोभितैर्दन्तपङ्क्तिभिः ॥ 4.5.६० ॥
चारुचम्पकवर्णाभिर्मध्यस्थलकृशैर्मुने ॥
गजमौक्तिकयुक्ताभिर्नासिकाभिर्विराजितैः ॥ ६१ ॥
खगेन्द्रचारुचञ्चूनां शोभामुष्णाभिरेव च ॥
गजेन्द्रगण्डकठिन स्तनभारभरानतैः ॥ ६२ ॥
पीनश्रोणिभरार्तैश्च मुकुन्दपदमानसैः ॥
निमेषरहिता देवा द्वारं च ददृशुश्च ताः ॥६३॥
लसद्रमणिरत्नैश्च वेदिकायुग्मशोभितम् ॥
हरिन्मणीनां स्तम्भानां समूहैः संयुतं सदा ॥ ६४ ॥
सिन्दूराकारमणिभिर्मध्यस्थलविराजितैः ॥
पारिजात प्रसूनानां मालाजालैर्विभूषितम् ॥ ६५ ॥
तत्संस्पर्शैर्गन्धवाहैः सर्वत्र सुरभीकृतम् ॥
दृष्ट्वा तत्परमाश्चर्यं राधिकाभ्यन्तरं सुराः ॥ ६६ ॥
श्रीकृष्णचरणाम्भोजदर्शनैकमनोरथाः ॥
ताः सम्भाष्य ययुः शीघ्रं पुलकाञ्चितविग्रहाः ॥ ६७ ॥
भक्त्युद्रेकादश्रुपूर्णाः किञ्चिन्नम्रात्मकन्धराः ॥
आरात्ते ददृशुर्देवा राधिकाभ्यन्तरं वरम् ॥ ६८ ॥
मन्दिराणां च मध्यस्थं चतुःशालं मनोहरम् ॥
अमूल्यरत्नसाराणां सारेण रचितं परम् ॥ ६९ ॥
नानारत्नमणिस्तम्भैर्वज्रयुक्तैश्च भूषितम् ॥
पारिजातप्रसूनानां मालाजालैर्विराजितम् ॥ 4.5.७० ॥
मुक्तासमूहैर्माणिक्यैः श्वेतचामरदर्पणैः ॥
अमूल्यरत्नसाराणां कलशैर्भूषितं मुने ॥ ७१ ॥
पट्टसूत्रग्रन्थियुक्तश्रीखण्डपल्लवान्वितैः ॥
मणिस्तम्भसमूहैश्च रम्यप्राङ्गणभूषितम् ॥ ७२ ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवसंयुतम् ॥
शु्क्लधान्यशुक्लपुष्पप्रवालफलतण्डुलैः ॥ ७३ ॥
पर्णदूर्वाक्षतैर्लाजैर्निर्मञ्छनविभूषितैः ॥
फलयुक्तै रत्नकुम्भैः सिन्दूरकुङ्कुमान्वितैः ॥ ७४ ॥
पारिजातप्रसूनानां मालायुक्तैर्विराजितम् ॥
प्रसूनाक्तैर्गन्धवाहैः सर्वत्र सुरभीकृतम् ॥ ७५ ॥
सर्वानिर्वचनीयं च यद्द्रव्यमनिरूपितम् ॥
ब्रह्माण्डे दुर्लभं यद्यद्वस्तुभिस्तैर्विराजितम् ॥ ७६ ॥
पारिजातप्रसूनानां मालाजालैः सुशोभितम् ॥
रत्नशय्यासु ललिताः सूक्ष्मवस्त्रपरिच्छदाः॥७७॥
कोटिशो रत्नकुम्भाश्च रत्नपात्राणि नारद ॥
अमूल्यानि च चारूणि तैस्तैरेव विभूषितम्॥७८॥
नानाप्रकारवाद्यानां कलनादैर्निनादितम्॥
स्वरयन्त्रैश्च वीणाभिर्गोपीसङ्गीतसुश्रुतम्॥ ७९ ॥
मोहितं वाद्यशब्दैश्च मृदङ्गानां च नारद ॥
गोपानां कृष्णतुल्यानां समूहैः परिवारितम्॥ ॥4.5.८०॥
राधासखीनां गोपीनां वृन्दैर्वृन्दैर्विराजितम् ॥
राधाकृष्णगुणोद्रेकपदसङ्गीतसुश्रुतम्॥८१॥
एवमभ्यन्तरं दृष्ट्वा बभूवुर्विस्मिताः सुराः॥ ।
शुश्रुवुर्मधुरं गीतं ददृशुर्नृत्यमुत्तमम् ॥८२॥
तत्र तस्थुः सुराः सर्वे ध्यानैकतानमानसाः ॥
रत्नसिंहासनं रम्यं ददृशुस्त्रिदशेश्वराः ॥ ८३ ॥
धनुःशतप्रमाणं च परितो वर्तुलाकृतिम्॥
सद्रत्नक्षुद्रकलशसमूहैश्च समन्वितम् ॥८४ ॥
चित्रपुत्तलिकापुष्पचित्रकाननभूषितम् ॥
तत्र तेजःसमूहं च सूर्यकोटिसमप्रभम् ॥ ८५ ॥
प्रभया ज्वलितं ब्रह्मन्नाश्चर्यं महदद्भुतम् ॥
सप्ततालप्रमाणं तद्व्याप्तमूर्ध्वं समन्ततः॥६६॥
तेजोमुषं च सर्वेषां महाश्रमविवर्जितम् ॥
सर्वव्यापि सर्वबीजं चक्षूरोधकरं परम् ॥८७॥
दृष्ट्वा तेजःस्वरूपं च ते देवा ध्यानतत्पराः ॥
प्रणेमुः परया भक्त्या भक्तिनम्रात्मकन्धराः ॥ ८८ ॥
परमानन्दसंयोगादश्रुपूर्णविलोचनाः ॥
पुलकाङ्कितसर्वाङ्गा वाञ्छापूर्णमनोरथाः ॥ ८९ ॥
नत्वा तेजःस्वरूपं च तमीशं त्रिदशेश्वराः ॥
तत्रोत्थाय ध्यानयुक्ताः प्रतस्थुस्तेजसः पुरः ॥ 4.5.९० ॥
ध्यात्वैवं जगतां धाता बभूव सम्पुटाञ्जलिः ॥
दक्षिणे शङ्करं कृत्वा वामे धर्मं च नारद ॥ ९१ ॥
भक्त्युद्रेकात्प्रतुष्टाव ध्यानैकतानमानसः ॥
परात्परं गुणातीतं परमात्मानमीश्वरम् ॥ ९२ ॥
॥ ब्रह्मोवाच ॥ ॥
वरं वरेण्यं वरदं वरदानां च कारणम् ॥
कारणं सर्वभूतानां तेजोरूपं नमाम्यहम् ॥ ९३ ॥
मङ्गलं मङ्गलानां च मङ्गलं मङ्गलप्रदम् ॥
समस्तमङ्गलाधारं तेजोरूपं नमाम्यहम्॥ ९४ ॥
स्थितं सर्वत्र निर्लिप्तमात्मरूपं परात्परम् ॥
निरीहमवितर्क्यं च तेजोरूपं नमाम्यहम् ॥ ९५ ॥
सगुणं निर्गुणं ब्रह्म ज्योतीरूपं सनातनम् ॥
साकारं च निराकारं तेजोरूपं नमाम्यहम् ॥ ९६ ॥
तमनिर्वचनीयं च व्यक्तमव्यक्तमेककम् ॥
स्वेच्छामयं सर्वरूपं तेजोरूपं नमाम्यहम् ॥ ९७ ॥
गुणत्रयविभागाय रूपत्रयधरं परम् ॥
कलया ते कृताः सर्वे किं जानन्ति श्रुतेः परम् ॥ ९८ ॥
सर्वाधारं सर्वरूपं सर्वबीजमबीजकम् ॥
सर्वान्तकमनन्तं च तेजोरूपं नमाम्यहम् ॥ ९९ ॥
लक्ष्यं षङ्गुणरूपं च वर्णनीयं विचक्षणैः ॥
किं वर्णयामि लक्ष्यं च तेजोरूपं नमाम्यहम् ॥ 4.5.१०० ॥
अशरीरं विग्रहवदिन्द्रियं यदतीन्द्रियम् ॥
यदसाक्षि सर्वसाक्षि तेजोरूपं नमाम्यहम् ॥ १०१ ॥
गमनार्हमपादं यदचक्षुः सर्वदर्शनम् ॥
हस्तास्यहीनं यद्भोक्तृ तेजोरूपं नमाम्यहम् ॥ १०२ ॥
वेदे निरूपितं वस्तु सन्तः शक्ताश्च वर्णितुम् ॥
वेदेऽनिरूपितं यत्तत्तेजोरूपं नमाम्यहम् ॥ १०३ ॥
सर्वेशं यदनीशं यत्सर्वादि यदनादि यत् ॥
सर्वात्मकमनात्मं यत्तेजोरूपं नमाम्यहम् ॥ १०४ ॥
अहं विधाता जगतो वेदानां जनकः स्वयम् ॥
पाता धर्मो हरो हर्ता स्तोतुं शक्ता न केऽपि यत् ॥ १०५ ॥
सेवया तव धर्मोऽयं पालने च निरूपितः॥
तवाज्ञया च संहर्ता त्वया काले निरूपिते ॥१०६॥
निःशेषोत्पत्तिकर्त्ताऽहं त्वत्पादाम्भोजसेवया ॥
कर्मिणां फलदाता च त्वं भक्तानां च नः प्रभुः ॥ १०७
ब्रह्माण्डे बिम्बसदृशे भूत्वा विषयिणो वयम् ॥
एवं कतिविधाः सन्ति तेष्वनन्तेषु सेवकाः ॥१०८॥
यथा न सङ्ख्या रेणूनां तथा तेषामणीयसाम् ॥
सर्वेषां जनकश्चेशो यस्तं स्तोतुं च के क्षमाः ॥१०९॥
एकैकलोमविवरे ब्रह्माण्डमेकमेककम् ॥
यस्यैव महतो विष्णोः षोडशांशस्तवैव सः ॥4.5.११०॥
ध्यायन्ते योगिनः सर्वे तवैतद्रूपमीप्सितम् ॥
त्वद्भक्तदास्यनिरताः सेवन्ते चरणाम्बुजम् ॥ १११ ॥
किशोरं सुन्दरतरं यक्षं कमनीयकम् ॥
मन्त्रध्यानानुरूपं च दर्शयास्माकमीश्वर ॥ ११२ ॥
नवीनजलदश्यामपीताम्बरधरं वरम् ॥
द्विभुजं मुरलीहस्तं सस्मितं सुमनोहरम् ॥ ११३ ॥
मयूरपिच्छचूडं च मालतीजालमण्डितम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवचर्चितम् ॥ ११४ ॥
अमूल्यरत्नसाराणां सारभूषणभूषितम् ॥
अमूल्यरत्नरचितकिरीटमुकुटोज्ज्वलम् ॥ ११५ ॥
शरत्प्रफुल्लपद्मानां प्रभामोष्यास्यचन्द्रकम् ॥
पक्वबिम्बसमानेन ह्यधरोष्ठेन राजितम् ॥ ११६ ॥
पक्वदाडिमबीजाभदन्तपङ्क्तिमनोहरम् ॥
केलीकदम्बमूले च स्थितं रासरसोन्मुखम् ॥ ११७ ॥
गोपीवक्त्रस्मिततनुं राधावक्षःस्थलस्थितम् ॥
एवं वाञ्छितरूपं ते दृष्टुं को वा न चोत्सुकः ॥११८॥
इत्येवमुक्त्वा विश्वसृट् प्रणनाम पुनः पुनः ॥
एवं स्तोत्रेण तुष्टाव धर्मोऽपि शङ्करः स्वयम् ॥११९॥
ननाम भूयोभूयश्च साश्रुपूर्णविलोचनः ॥
तिष्ठतोऽपि पुनः स्तोत्रं प्रचक्रुस्त्रिदशेश्वराः ॥ 4.5.१२० ॥
व्याप्तास्तत्राश्रमे सर्वे श्रीकृष्णतेजसा मुने ॥
स्तवराजमिमं नित्यं ब्रह्मेशधर्मभिः कृतम् ॥ १२१ ॥
पूजाकाले हरेरेवं भक्तियुक्तश्च यः पठेत् ॥
सुदुर्लभां दृढां भक्तिं निश्चलां लभते हरेः ॥ १२२ ॥
सुरासुरमुनीन्द्राणां दुर्लभं दास्यमेव च ॥
अणिमादिकसिद्धिं च सालोक्यादि चतुष्टयम् ॥१२३॥
इहैव विष्णुतुल्यश्च विख्यातः पूजितो धुवम् ॥
वाक्सिद्धिर्मन्त्रसिद्धिश्च भवेत्तस्य सुनिश्चितम् ॥ १२४ ॥
सर्वसौभाम्यसंयुक्तं यशसा पूरितं जगत् ॥
पुत्रश्च विद्या कविता निश्चला कमला तथा॥१२५॥
पत्नी पतिव्रता साध्वी सुशीला सुस्थिराः प्रजाः ॥
कीर्तिश्च चिरकालीना त्वन्ते कृष्णान्तिके गतिः ॥ १२६ ॥
इति श्रीब्रह्म वैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे गोलोकवर्णने श्रीकृष्णस्तोत्रराजपठनं नाम पञ्चमोऽध्यायः ॥ ५ ॥