००४

॥ नारद उवाच ॥ ॥
केन वा प्रार्थितः कृष्णो महीं च केन हेतुना ॥
आजगाम जगन्नाथो वद वेदविदां वर ॥ १ ॥
॥ नारायण उवाच ॥ ॥
पुरा वाराहकल्पे सा भाराक्रान्ता वसुन्धरा ॥
भृशं बभूव शोकार्ता ब्रह्माणं शरणं ययौ ॥ २ ॥
सुरैश्चासुरसन्तप्तैर्भृशमुद्विग्नमानसैः ॥
सार्द्धं तैस्तां दुर्गमां च जगाम वेधसः सभाम् ॥ ३ ॥
ददर्श तस्यां देवेशं ज्वलन्तं ब्रह्मतेजसा ॥
ऋषीन्द्रैश्च मुनीन्द्रैश्च सिद्धेन्द्रैः सेवितं मुदा ॥ ४ ॥
अप्सरोगणनृत्यं च पश्यन्तं सस्मितं मुदा ॥
गन्धर्वाणां च सङ्गीतं श्रुतवन्तं मनोहरम् ॥ ५ ॥
जपन्तं परमं ब्रह्म कृष्ण इत्यक्षरद्वयम् ॥
भक्त्यानन्दाश्रुपूर्णं तं पुलकाङ्कितविग्रहम् ॥ ६ ॥
भक्त्या सा त्रिदशैः सार्द्धं प्रणम्य चतुराननम् ॥
सर्वं निवेदनं चक्रे दैत्यभारादिकं मुने ॥
साऽश्रुपूर्णा सपुलका तुष्टाव च रुरोद च ॥७॥
तामुवाच जगद्धाता कथं स्तौषि च रोदिषि ॥
कथमागमनं भद्रे वद भद्रं भविष्यति ॥८॥
सुस्थिरा भव कल्याणि भयं किं ते मयि स्थिते॥
आश्वास्य पृथिवीं ब्रह्मा देवान्पप्रच्छ सादरम् ॥ ९ ॥
कथमागमनं देवा युष्माकं मम सन्निधिम् ॥
ब्रह्मणो वचनं श्रुत्वा देवा ऊचुः प्रजापतिम् ॥ १० ॥
भाराक्रान्ता च वसुधा दस्युग्रस्ता वयं प्रभो ॥
त्वमेव जगतां स्रष्टा शीघ्रं नो निष्कृतिं कुरु ॥ ११ ॥
गतिस्त्वमस्या भो ब्रह्मन्निर्वृतिं कर्तुमर्हसि ॥
पीडिता येन भारेण पृथिवीयं पितामह ॥ १२ ॥
वयं तेनैव दुःखार्तास्तद्भारहरणं कुरु ॥
देवानां वचनं श्रुत्वा तां पप्रच्छ जगद्विधिः॥१३॥
दूरीकृत्य भयं वत्से सुखं तिष्ठ ममान्तिकम् ॥
केषां भारमशक्ता त्वं सोढुं पङ्कजलोचने ॥ १४ ॥
अपनेष्यामि तं भद्रे भद्रं ते भविता धुवम् ॥
तस्य सा वचनं श्रुत्वा तमुवाच स्वपीडनम्॥
पीडिता येन येनैवं प्रसन्नवदनेक्षणा ॥ १५ ॥
॥ क्षितिरुवाच ॥ ॥
शृणु तात प्रवक्ष्यामि स्वकीयां मानसीं व्यथाम् ॥
विना बन्धुं सविश्वासं नान्यं कथितुमर्हति ॥ १६ ॥
स्त्रीजातिरबला शश्वद्रक्षणीया स्वबन्धुभिः ॥
जनकस्वामिपुत्रैश्च गर्हिताऽन्यैश्च निश्चितम् ॥ १७ ॥
त्वया पृष्टा जगत्तात न लज्जा कथितुं मम ॥
येषां भारैः पीडिताऽहं श्रूयतां कथयामि ते ॥ १८ ॥
कृष्णभक्तिविहीना ये ये च तद्भक्तनिन्दकाः ॥
तेषां महापातकिनामशक्ता भारवाहने ॥ १९ ॥
स्वधर्माचारहीना ये नित्यकृत्यविवर्जिताः ॥
श्रद्धाहीनाश्च वेदेषु तेषां भारेण पीडिता ॥ २० ॥
पितृमातृगुरुस्त्रीणां पोषणं पुत्रपोष्ययोः ॥
ये न कुर्वन्ति तेषां च न शक्ता भारवाहने ॥ २१ ॥
ये मिथ्यावादिनस्तात दयासत्य विवर्जिताः ॥
निन्दका गुरुदेवानां तेषां भारेण पीडिता ॥२२॥
मित्रद्रोही कृतघ्नश्च मिथ्यासाक्ष्यप्रदायकः ॥
विश्वासघ्नो न्यासहर्ता तेषां भारेण पीडिता ॥ २३ ॥
कल्याणसूक्तसामानि हरेर्नामैकमङ्गलम् ॥
कुर्वन्ति विक्रयं ये वै तेषां भारेण पीडिता ॥ २४ ॥
जीवघाती गुरुद्रोही ग्रामयाजी च लुब्धकः ॥
शवदाही शूद्रभोजी तेषां भारेण पीडिता ॥ २५ ॥
पूजायज्ञोपवासादि व्रतानि विविधानि च ॥
ये ये मूढा विहन्तारस्तेषां भारेण पीडिता ॥२६॥
सदा द्विषन्ति ये पापा गोविप्रसुरवैष्णवान् ॥
हरिं हरिकथां भक्तिं तेषां भारेण पीडिता ॥ २७ ॥
शङ्खादीनां च भारेण पीडिताऽहं यथा विधे ॥
ततोऽधिकानां दैत्यानां भारेण परिपीडिता ॥२८॥
इत्येवं कथितं सर्वं मद्व्यथाया निवेदनम् ॥
त्वया यदि सुपाल्याऽहं प्रतीकारं कुरु प्रभो॥२९॥
इत्येवमुक्त्वा वसुधा रुरोद च मुहुर्मुहुः ॥
ब्रह्मा तद्रोदनं दृष्ट्वा तामुवाच कृपानिधिः ॥ ३० ॥
भारं तवापनेष्यामि दस्यूनामप्युपायतः ॥
उपायतोऽपि कार्याणि सिद्ध्यन्त्येव वसुन्धरे ॥३१॥
कालेन भारहरणं करिष्यति मदीश्वरः ॥
मन्त्रं मङ्गलकुम्भं च शिवलिङ्गं च कुङ्कुमम् ॥ ३२ ॥
मधुकाष्ठं चन्दनं च कस्तूरीं तीर्थमृत्तिकाम् ॥
खङ्गगण्डकखण्डं च स्फाटिकं पद्मरागकम् ॥३३॥
इन्द्रनीलं सूर्यमणिं रुद्राक्षं कुशमूलकम् ॥
शालग्रामशिलां शङ्खं तुलसीं प्रतिमां जलम् ॥३४॥
शङ्खं प्रदीपमालां च शिलामर्च्यां च घण्टिकाम्॥
निर्माल्यं चैव नैवेद्यं हरिद्वर्णमणिं तथा॥
ग्रन्थियुक्तं यज्ञसूत्रं दर्पणं श्वेतचामरम् ॥३५॥
गोरोचनं च मुक्तां च शुक्तिं माणिक्यमेव च ॥
पुराणसंहितां वह्निं कर्पूरं परशुं तथा ॥ ३६ ॥
रजतं काञ्चनं चैव प्रवालं रत्नमेव च ॥
कुशबीजं तीर्थतोयं गव्यं गोमूत्रगोमयम् ॥ ३७ ॥
त्वयि ये स्थापयिष्यन्ति मूढाश्चैतानि सुन्दरि ॥
पच्यन्ते कालसूत्रेण वर्षाणामयुतं ध्रुवम् ॥३८॥
ब्रह्मा पृथ्वीं समाश्वास्य देवताभिस्तया सह ॥
जगाम जगतां धाता कैलासं शङ्करालयम् ॥ ३९ ॥
गत्वा तमाश्रमं रम्यं ददर्श शङ्करं विधिः ॥
वसन्तमक्षयवटमूले स्वःसरितस्तटे॥ ४० ॥
व्याघ्रचर्मपरीधानं दक्षकन्यास्थिभूषणम् ॥
त्रिशूलपट्टिशधरं पञ्चवक्त्रं त्रिलोचनम् ॥ ४१ ॥
नानासिद्धैः परिवृतं योगीन्द्रगणसेवितम्॥
परितोऽप्सरसां नृत्यं पश्यन्तं सस्मितं मुदा ॥ ४२ ॥
गन्धर्वाणां च सङ्गीतं श्रुतवन्तं कुतूहलात् ॥
पश्यन्तीं पार्वतीं प्रीत्या पश्यन्तं वक्रचक्षुषा ॥ ४३ ॥
जपन्तं पञ्चवक्त्रेण हरेर्नामैकमङ्गलम् ॥
मन्दाकिनीपद्मबीजमालया पुलकाङ्कितम् ॥ ४४॥
एतस्मिन्नन्तरे ब्रह्मा तस्थावग्रे स धूर्जटेः ॥
पृथिव्या सुरसङ्घैश्च सार्द्धं प्रणतकन्धरैः ॥ ४५ ॥
उत्तस्थौ शङ्करः शीघ्रं भक्त्या दृष्ट्वा जगद्गुरुम् ॥
ननाम मूर्ध्ना सम्प्रीत्या लब्धवानाशिषं ततः ॥ ४६ ॥
प्रणेमुर्देवताः सर्वे शङ्करं चन्द्रशेखरम् ॥
प्रणनाम धरा भक्त्या चाशिषं युयुजे हरः ॥ ४७ ॥
वृत्तान्तं कथयामास पार्वतीशं प्रजापतिः ॥
श्रुत्वा नतमुखस्तूर्णं शङ्करो भक्तवत्सलः ॥ ४८ ॥
भक्तापायं समाकर्ण्य पार्वतीपरमेश्वरौ ॥
बभूवतुस्तौ दुःखार्तौ बोधयामास तौ विधिः ॥ ४९ ॥
ततो ब्रह्मा महेशश्च सुरसङ्घान्वसुन्धराम् ॥
गृहं प्रस्थापयामास समाश्वास्य प्रयत्नतः ॥५०॥
ततो देवेश्वरैस्तूर्णमागत्य धर्ममन्दिरम् ॥
सह तेन समालोच्य प्रजग्मुर्भवनं हरेः ॥ ५१ ॥
वैकुण्ठं परमं धाम जरामृत्युहरं परम् ॥
वायुना धार्यमाणं च ब्रह्माण्डादूर्ध्वमुत्तमम् ॥
कोटियोजनमूर्ध्वं च ब्रह्मलोकात्सनातनम् ५२ ॥
वर्णनीयं न कविभिर्विचित्रं रत्ननिर्मितम् ॥
पद्मरागैरिन्द्रनीलै राजमार्गैर्विभूषितम् ॥ ५३ ॥
ते मनोयायिनः सर्वे सम्प्रापुस्तं मनोहरम् ॥
हरेरन्तःपुरं गत्वा ददृशुः श्रीहरिं सुराः ॥ ५४ ॥
रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम् ॥
रत्नकेयूरवलयरत्ननूपुरशोभितम् ॥ ९५ ॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ॥
पीतवस्त्रपरीधानं वनमालाविभूषितम् ॥ ५६ ॥
शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ॥
कोटिकन्दर्पलीलाभं स्मितवक्त्रं चतुर्भुजम् ॥ ५७ ॥
सुनन्दनन्दकुमुदैः पार्षदैरुपसेवितम् ॥
चन्दनोक्षितसर्वाङ्गं सुरत्नमुकुटोज्ज्वलम् ॥
परमानन्दरूपं च भक्तानुग्रहकारकम् ॥ ५८ ॥
तं प्रणेमुः सुरेन्द्राश्च भक्त्या ब्रह्मादयो मुने ॥
तुष्टुवुः परया भक्त्या भक्तिनम्रात्मकन्धराः ॥
परमानन्दभारार्ताः पुलकाञ्चितविग्रहाः ॥ ९९ ॥
ब्रह्मोवाच ॥ ॥ नमामि कमलाकान्तं शान्तं सर्वेष्टमच्युतम् ॥
वयं यस्य कलाभेदाः कलांशकलया सुराः ॥६०॥
मनवश्च मुनीन्द्राश्च मानुषाश्च चराचराः ॥
कलाकलांशकलया भूतास्त्वत्तो निरञ्जन ॥६१॥
शङ्कर उवाच ॥
त्वामक्षयमक्षरं वा व्यक्तमव्यक्तमीश्वरम् ॥
अनादिमादिमानन्दरूपिणं सर्वरूपिणम् ॥६२॥
अणिमादिकसिद्धीनां कारणं सर्वकारणम्॥
सिद्धिज्ञं सिद्धिदं सिद्धिरूपं कः स्तोतुमीश्वरः॥६३॥
॥ धर्म उवाच ॥ ॥
वेदे निरूपितं वस्तु वर्णनीयं विचक्षणैः ॥
वेदे निर्वचनीयं यत्तन्निर्वक्तुं च कः क्षमः ॥
यस्य सम्भावनीयं यद्गुणरूपं निरञ्जनम् ॥ ६४ ॥
तदतिरिक्तं स्तवनं किमहं स्तौमि निर्गुणम् ॥
ब्रह्मादीनामिदं स्तोत्रं षट्श्लोकोक्तं महामुने ॥ ६९ ॥
पठित्वा मुच्यते दुर्गाद्वाञ्छितं च लभेन्नरः ॥
देवानां स्तवनं श्रुत्वा तानुवाच हरिः स्वयम् ॥ ६६ ॥
गोलोकं यात यूयं च यामि पश्चाच्छ्रिया सह ॥
नरनारायणौ तौ द्वौ श्वेतद्वीपनिवासिनौ ॥ ६७ ॥
एते यास्यन्ति गोलोके तथा देवी सरस्वती ॥
अनन्ता मम माया च कार्त्तिकेयो गणाधिपः ॥
सावित्री वेदमाता च पश्चाद्यास्यन्ति निश्चितम् ॥ ६८ ॥
तत्राहं द्विभुजः कृष्णो गोपीभी राधया सह ॥
अत्राहं कमलायुक्तः सुनन्दादिभिरावृतः ॥ ६९ ॥
नारायणश्च कृष्णोऽहं श्वेतद्वीपनिवासकृत् ॥
ममैवैताः कलाः सर्वे देवा ब्रह्मादयः स्मृताः ॥ ७० ॥
कलाकलांशकलया सुरासुरनरादयः ॥
गोलोकं यात यूयं च कार्यसिद्धिर्भविष्यति ॥ ७१ ॥
वयं पश्चाद्गमिष्यामः सर्वेषामिष्टसिद्धये ॥
इत्युक्त्वा वै सभामध्ये विरराम हरिः स्वयम् ॥ ७२ ॥
प्रणम्य देवताः सर्वा जग्मुर्गोलोकमद्भुतम् ॥
विचित्रं परमं धाम जरामृत्युहरं परम् ॥ ७३ ॥
ऊर्ध्वं वैकुण्ठतो गम्यं पञ्चाशत्कोटियोजनम् ॥
वायुना धार्यमाणं च निर्मितं स्वेच्छया विभोः ॥ ७४ ॥
तमनिर्वचनीयं च देवास्ते गमनोत्सुकाः ॥
ते मनोयायिनः सर्वे सम्प्रापुर्विरजातटम् ॥ ७५ ॥
दृष्ट्वा देवाः सरित्तीरं विस्मयं परमं ययुः ॥
शुद्धस्फटिकसङ्काशं सुविस्तीर्णं मनोहरम् ॥ ७६ ॥
मुक्तामाणिक्यपरममणिरत्नाकरान्वितम् ॥
कृष्णशुभ्रहरिद्रक्तमणिराजिविराजितम् ॥ ७७ ॥
प्रवालाङ्कुरमुद्भूतं कुत्रचित्सुमनोहरम् ॥
परमामूल्यसद्रत्नाकरराजिविभूषितम् ॥ ७८ ॥
विधेरदृश्यामाश्चर्य निधिश्रेष्ठाकरान्वितम् ॥
पद्मरागेन्द्रनीलानामाकरं कुत्रचिन्मुने ॥ ७९ ॥
कुत्रचिच्च मरकताकरश्रेणीसमन्वितम् ॥
स्यमन्तकाकरं कुत्र कुत्रचिद्रुचकाकरम् ॥ ८० ॥
अमूल्यपीतवर्णाभं मणिश्रेण्याकरान्वितम् ॥
रत्नाकरं कुत्रचिच्च कुत्रचित्कौस्तुभाकरम् ॥ ८१ ॥
कुत्र निर्वचनीयानां मणीनामाकरं परम् ॥
कुत्रचित्कुत्रचिद्रम्यविहारस्थलमुत्तमम् ॥ ८२ ॥
दृष्ट्वा तु परमाश्चर्यं जग्मुस्तत्पारमीश्वराः ॥
ददृशुः पर्वतश्रेष्ठं शतशृङ्गं मनोरमम् ॥ ८३ ॥
पारिजाततरूणां च वनराजिविराजितम् ॥
कल्पवृक्षैः परिवृतं वेष्टितं कामधेनुभिः ॥ ८४ ॥
कोटियोजनमूर्ध्वं च दैर्घ्यं दशगुणोत्तरम् ॥
शैलप्रस्थपरिमितं पञ्चाशत्कोटियोजनम् ॥८५॥
प्राकाराकारमस्यैव शिखरे रासमण्डलम् ॥
दशयोजनविस्तीर्णं वर्तुलाकारमुत्तमम् ॥ ८६ ॥
पुष्पोद्यानसहस्रेण पुष्पितेन सुगन्धिना ॥
सङ्कुलेन मधुघ्राणां समूहेन समन्वितम् ॥ ८७ ॥
सुरत द्रव्यसंयुक्तै राजितं रतिमन्दिरैः ॥
रत्नमण्डपकोटीनां सहस्रेण समन्वितम् ॥ ८८ ॥
रत्नसोपानयुक्तेन सद्रत्नकलशेन च ॥
हरिन्मणीनां स्तम्भेन शोभितेन च शोभितम् ॥८९॥
सिन्दूरवर्णमणिभिः परितः खचितेन च ॥
इन्द्रनीलैर्मध्यगतैर्मण्डितेन मनोहरैः ॥ ९० ॥
रत्नप्राकारसंयुक्तमणिभेदैर्विराजितम् ॥
द्वारैः कपाटसंयुक्तैश्चतुर्भिश्च विराजितम् ॥ ९१ ॥
रज्जुग्रन्थिसमायुक्तरसालपल्लवान्वितैः ।
परितः कदलीस्तम्भसमूहैश्च समन्वितम् ॥ ९२ ॥
शुक्लधान्यपर्णजालफलदूवांर्कुरान्वितम् ॥
चन्दनागरुकस्तूरीकुङ्कुमद्रवचर्चितम् ॥ ९३ ॥
वेष्टितं गोपकन्यानां समूहैः कोटिशो मुने ॥
रत्नालङ्कारसंयुक्तै रत्नमालाविराजितैः ॥ ९४ ॥
रत्नकङ्कणकेयूर रत्ननूपुरभूषितैः ॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितैः ॥ ९५ ॥
रत्नाङ्गुलीयललितैर्हस्ताङ्गुलिविराजितैः ॥
रत्नपाशकवृन्दैश्च विराजितपदाङ्गुलैः ॥ ९६ ॥
भूषितै रत्नभूषाभिः सद्रत्नमुकुटोज्ज्वलैः ॥
गजेन्द्रमुक्तालङ्कारैर्नासिकामध्यराजितैः ॥ ९७ ॥
सिन्दूरबिन्दुना सार्द्धमलकाधःस्थलोज्ज्वलैः ॥
चारुचम्पकवर्णाभैश्चन्दनद्रवचर्चितैः ॥ ९८ ॥
पीतवस्त्रपरीधानैर्बिम्बाधरमनोहरैः ॥
शरत्पार्वणचन्द्राणां प्रभां मुष्णन्मुखोज्ज्वलैः ॥ ९९ ॥
शरत्प्रफुल्लपद्मानां शोभामोषणलोचनैः ॥
कस्तूरीपात्रिकायुक्तै रेखाक्तकज्जलोज्ज्वलैः ॥ १०० ॥
प्रफुल्लमालतीमालाजालैःकबरशोभितैः ॥
मधुलुब्धमधुघ्राणां समूहैश्चापि सङ्कुलैः ॥
चारुणा गमनेनैव गजखञ्जनगञ्जनैः ॥ १०१ ॥
वक्रभ्रूभङ्गसंयोगश्लक्ष्णस्मितसमन्वितैः ॥
पक्वदाडिमबीजाभदन्तपङ्क्तिविराजितैः ॥ १०२ ॥
खगेन्द्रचञ्चुशोभाढ्यनासिकोन्नतभूषितैः ॥
गजेन्द्रगण्डयुग्माभस्तनभारनतैरिव ॥ १०३ ॥
नितम्बकठिनश्रोणीपीनभारभरानतैः ॥
कन्दर्पशरचेष्टाभिर्जर्जरीभूतमानसै ॥ १०४ ॥
दर्पणैः पूर्णचन्द्रास्यसौन्दर्यदर्शनोत्सुकैः ॥
राधिकाचरणाम्भोजसेवासक्तमनोरथैः ॥१०५॥
सुन्दरीणां समूहैश्च रक्षितं राधिकाज्ञया ॥
क्रीडासरोवराणां च लक्षैश्च परिवेष्टितम् ॥ १०६ ॥
श्वेतरक्तैर्लोहितैश्च वेष्टितैः पद्मराजितैः ॥
सुकूजद्भिर्मधुघ्राणां समूहैः सङ्कुलैः सदा ॥ १०७ ॥
पुष्पोद्यानसहस्रेण पुष्पितेन समन्वितम् ॥
कोटिकुञ्जकुटीरैश्च पुष्पशय्यासमन्वितैः ॥ १०६ ॥
भोगद्रव्यसकर्पूरताम्बूलवस्त्रसंयुतैः ॥
रत्नप्रदीपैः परितः श्वेतचामरदर्पणैः ॥ ॥ १०९ ॥
विचित्रपुष्पमालाभिः शोभितैः शोभितं मुने ॥
तं रासमण्डपं दृष्ट्वा जग्मुस्ते पर्वताद्बहिः ॥ ११० ॥
ततो विचक्षणं रम्यं ददृशुः सुन्दरं वनम् ॥
वनं वृदावनं नाम राधामाधवयोः प्रियम् ॥ १११ ॥
क्रीडास्थानं तयोरेव कल्पवृक्षचयान्वितम् ॥
विरजातीरनीराक्तैः कम्पितं मन्दवायुभिः ॥ ११२ ॥
कस्तूरीयुक्तपत्राब्जैः पुष्पौघैः सुरभीकृतम् ॥
नवपल्लवसंसक्तपरपुष्टरुतैर्युतम्॥११३॥
कुत्र हेलिकदम्बानां कदम्बैः कमनीयकम् ॥
मन्दाराणां चम्पकानां चन्दनानां तथैव च ॥११४॥
सुगन्धिकुसुमानां च गन्धेन सुरभीकृतम् ॥
आम्राणां नागरङ्गाणां पनसानां तथैव च ॥ ११५ ॥
तालानां नारिकेलानां वृन्दैर्वृन्दारकं वनम् ॥
जम्बूनां बदरीणां च खर्जूराणां विशेषतः ॥ ११६ ॥
गुर्वाकाम्रातकानां च जम्बीराणां च नारद ॥
कदलीनां श्रीफलानां दाडिमानां मनोहरैः ॥ ११७ ॥
सुपक्वफलसंयुक्तैः समूहैश्च विराजितम् ॥
पिप्पलीनां च शालानामश्वत्थानां तथैव च ॥ ११८ ॥
निम्बानां शाल्मलीनां च तित्तिडीनां च शोभनैः ॥
अन्येषां तरुभेदानां सङ्कुलैः सङ्कुलं सदा ॥ ११९ ॥
परितः कल्पवृक्षाणां वृन्दैर्वृन्दैर्विराजितम् ॥
मल्लिकामालतीकुन्दकेतकीमाधवी लताः ॥ १२० ॥
एतासां च समूहैश्च यूथिकाभिः समन्वितम् ॥
चारुकुञ्जकुटीरैस्तैः पञ्चाशत्कोटिभिर्मुने ॥ १२१ ॥
रत्नप्रदीपदीपैश्च धूपेन सुरभीकृतैः ॥
शृङ्गारद्रव्ययुक्तैश्च वासितैर्गन्धवायुभिः ॥ १२२ ॥
चन्दनाक्तैः पुष्पतल्पैर्मालाजालसमन्वितैः ॥
मधुलुब्धमधुघ्राणां कलशब्दैश्च शब्दितम् ॥ १२३ ॥
रत्नालङ्कारशोभाढयैर्गोपीवृन्दैश्च वेष्टितम् ॥
पञ्चाशत्कोटिगोपीभी रक्षितं राधिकाज्ञया ॥१२४॥
द्वात्रिंशत्काननं तत्र रम्यं रम्यं मनोहरम् ॥
वृन्दावनाभ्यन्तरितं निर्जनस्थानमुत्तमम् ॥ १२९ ॥
सुपक्वमधुरस्वादुफलैर्वृन्दारकं मुने ॥
गोष्ठानां च गवां चैव समूहैश्च समन्वितम् ॥१२६॥
पुष्पोद्यानसहस्रेण पुष्पितेन सुगन्धिना ॥
मधुलुब्धमधुघ्राणां |समूहेन समन्वितम् ॥१२७॥
पञ्चाशत्कोटिगोपीनां विलासैश्च विराजितम् ॥
श्रीकृष्णतुल्यरूपाणां सद्रत्नगुण्ठितैर्वरैः ॥१२८॥
दृष्ट्वा वृन्दावनं रम्यं ययुर्गोलोकमीश्वराः ॥
परितो वर्तुलाकारं कोटियोजनविस्तृतम् ॥ १२९ ।॥
रत्नप्राकारसंयुक्तं चतुर्द्धारान्वितं मुने॥
गोपानां च समूहैश्च द्वारपालैः समन्वितम् ॥ १३० ॥
आश्रमै रत्नखचितैर्नानाभोगसमन्वितैः ॥
गोपीनां कृष्णभृत्यानां पञ्चाशत्कोटिभिर्युतम् ॥१३१॥
भक्तानां गोपवृन्दानामाश्रमैः शतकोटिभिः ॥
ततोऽधिकसुविस्तीर्णैः सद्रत्नग्रथितैर्युतम् ॥१३२॥
आश्रमैः पार्षदानां च ततोऽधिकविलक्षणैः ॥
अमूल्यरत्नरचितैः संयुक्तं दशकोटिभिः ॥ १३३ ।
पार्षदप्रवराणां च श्रीकृष्णरूपधारिणाम् ॥
आश्रमैः कोटिभिर्युक्तं सद्रत्नेन विनिर्मितैः ॥ १३४॥
राधिकाशुद्धभक्तानां गोपीनामाश्रमैर्वरैः ॥
सद्रत्नरचितैर्द्रव्यैर्द्वात्रिंशत्कोटिभिर्युतम्॥१३५॥
तासां च किकरीणां च भवनैः सुमनोहरैः॥
मणिरत्नादिरचितैः शोभितं दशकोटिभिः॥१३६॥
शतजन्मतपःपूता भक्ता ये भारते भुवि ॥
हरिभक्तिपरा ये च कर्मनिर्वाणकारकाः ॥ १३७ ॥
स्वप्ने ज्ञाने हरेर्ध्याने विविष्टमानसा मुने ॥
राधाकृष्णेति कृष्णेति प्रजपन्तो दिवानिशम् ॥ १३८ ॥
तेषां श्रीकृष्णभक्तानां निवासैः सुमनोहरैः ॥
सद्रत्नमणिनिर्माणैर्नानाभोगसमन्वितैः ॥ १३९ ॥
पुष्पशय्यापुष्पमालाश्वेतचामरशोभितैः॥
रत्नदर्पणशोभाढ्यैर्हरिन्मणिसपर्पितैः॥१४०॥
अमूल्यरत्नकलशसमूहान्वितशेखरैः॥
सूक्ष्मवस्त्राभ्यन्तरितैः संयुक्तं शतकोटिभिः ॥ १४ १ ॥
देवास्तमद्भुतं दृष्ट्वा कियद्दूरं ययुर्मुदा ॥
तत्राक्षयवटं रम्यं ददृशुर्जगदीश्वराः ॥ |॥१४२॥
पञ्चयोजनविस्तीर्णमूर्ध्वं तद्द्विगुणं मुने ॥
सहस्रस्कन्धसंयुक्तशाखासंस्थासमन्वितम् ॥ १४३॥
रक्तपक्कफलाकीर्णं शोभितं रत्नवेदिभिः ॥
कृष्णस्वरूपांस्तन्मूले ददृशुर्वल्लभाञ्छिशून् ॥ १४४ ॥
पीतवस्त्रपरीधानान्क्रीडासक्तमनोहरान् ॥
चन्दनोक्षितसर्वाङ्गान्रत्नभूषणभूषितान् ॥ १४५ ॥
ददृशुस्तत्र देवेशाः पार्षदप्रवरान्हरेः ॥
ततोऽविदूरे ददृशू राजमार्गं मनोहरम् ॥ १४६ ॥
सिन्दूराकारमणिभिः परितो रचितं मुने ॥
इन्द्रनीलैः पद्मरागैर्हीरकै रुचकैस्तथा ॥ १४७ ॥
निर्मितैर्वेदिभिर्युक्तं परितो रत्नमण्डपम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवचर्चितम् ॥ १४८ ॥
दधिपूर्णलाजफलपुष्पदूर्वाङ्कुरान्वितम् ॥
सूक्ष्मसूत्रग्रन्थियुक्तश्रीखण्डपल्लवान्वितम् ॥ १४९ ॥
रम्भास्तम्भसमूहैश्च कुङ्कुमाक्तैर्विराजितम् ॥
सद्रत्नमण्डलघटैः फलशाखासमन्वितैः ॥ १५० ॥
सिन्दूरकुङ्कुमाक्तैश्च गन्धचन्दनचर्चितैः ॥
भूषितैः पुष्पमालाभिः पादपैः परिभूषितम् ॥ १५१ ॥
गोपिकानां समूहैश्च क्रीडासक्तैश्च वेष्टितम ॥
बहुमूल्येन रत्नेन रत्नसोपाननिर्मितान् ॥ १५२ ॥
वह्निशौचांशुकै रम्यैः श्वेतचामरदर्पणैः ॥
रत्नतल्पविचित्रैश्च पुष्पमाल्यैर्विराजितान ॥ १५३ ॥
षोडशद्वारसंयुक्तान्द्वारपालैश्च रक्षितान् ॥
परितः परिखायुक्तान्रत्नप्राकारवेष्टितान् ॥ १५४ ॥
चन्दनागुरुकस्तूरीकुङ्कुमद्रवचर्चितान्॥
गृहान्मनोरमान्दृष्ट्वा ते देवा गमनोत्सुकाः ॥ १५५ ॥
जग्मुः शीघ्रं कियद्दूरं ददृशुः सुन्दरं ततः ॥
आश्रमं राधिकायाश्च रासेश्वर्याश्च नारद ॥ १५६ ॥
देवाधिदेव्या गोपीनां वरायाश्चारुनिर्मितम् ॥
प्राणाधिकायाः कृष्णस्य रम्यद्रव्यमनोहरम् ॥ १५७ ॥
सर्वानिर्वचनीयं च पण्डितैर्न निरूपितम् ॥
सुचारुवर्तुलाकारं षड्गव्यूतिप्रमाणकम् ॥ १५८ ॥
शतमन्दिरसंयुक्तं ज्वलितं रत्नतेजसा ॥
अमूल्यरत्नसाराणां चयौर्विरचितं वरम् ॥ १५९ ॥
दुर्लङ्घ्याभिर्गभीराभिः परिखाभिः सुशोभितम् ॥
कल्पवृक्षैः परिवृतं पुष्पोद्यानशतान्तरम् ॥ १६० ॥
सुमूल्यरत्नखचितप्राकारैः परिवेष्टितम् ॥
सद्रत्नवेदिकायुक्तैर्युक्तं द्वारैश्च सप्तभिः ॥ १६१ ॥
संयुक्तरत्नचित्रैश्च विचित्रैर्वर्तुलं मुने ॥
प्रधानसप्तद्वारेभ्यः क्रमशः क्रमशो मुने ॥ १६२ ॥
सर्वतोऽपि ततस्तत्र षोडशद्वारसंयुतम् ॥
देवा द्दष्ट्वा च प्राकारं सहस्रधनुरुच्छ्रितम् ॥ १६३ ॥
सद्रत्नक्षुद्रकलशसमूहैः सुमनोहरैः ॥
प्रदीप्तं तेजसा रम्यं परमं विस्मयं ययुः ॥ १६४ ॥
ततः प्रदक्षिणीकृत्य कियद्दूरं ययुर्मुदा ॥
पुरतो गच्छतां तेषां पश्चाद्भूतस्तदाश्रमः ॥ १६५ ॥
गोपानां गोपिकानां च ददृशुश्चाश्रमान्परान् ॥
अमूल्यरत्नरचिताञ्छतकोटिमितान्मुने ॥ १६६ ॥
दर्शन्दर्शं च परितो गोपानां सर्वमाश्रमम् ॥
गोपिकानां चापरं वा रम्यं रम्यं नवन्नवम् ॥ १६७ ॥
गोलोकं निखिलं दृष्ट्वा पुलकाङ्गं ययुः सुराः ॥
तदेव वर्तुलाकारं रम्यं वृन्दावनं वनम् ॥ ३६८ ॥
ददृशुः शतशृङ्गं च तद्बहिर्विरजानदीम् ॥
विरजां तां ययुर्देवा ददृशुः शून्यमेव च ॥ १६९ ॥
वाय्वाधारं च गोलोकं सद्रत्नमयमद्भुतम् ॥
ईश्वरेच्छाविनिर्माणं राधिकाज्ञानुबन्धनात् ॥ १७० ॥
युक्तं सहस्रैः सरसां केवलं मङ्गलालयम् ॥
नृत्यं च ददृशुस्तत्र देवाश्च सुमनोहरम् ॥ १७१ ॥
सुतानं चारुसङ्गीतं राधाकृष्णगुणान्वितम् ॥
श्रुत्वैव गीतपीयूषं मूर्छामापुः सुरा मुने ॥ १७२ ॥
क्षणेन चेतनां प्राप्य ते देवाः कृष्णमानसाः ॥
ददृशुः परमाश्चर्यं स्थानेस्थाने मनोहरम् ॥ १७३ ॥
ददृशुर्गोपिकाः सर्वा नानावेषविधायिकाः ॥
काश्चिन्मृदङ्गहस्ताश्च काश्चिद्वीणाकरा वराः ॥ १७४ ॥
काश्चिच्चामरहस्ताश्च करतालकराः पराः ॥
काश्चिद्यन्त्रवाद्यहस्ता रत्ननूपुरशोभिताः ॥ १७५ ॥
सद्रत्नकिङ्किणीजालशब्देन शब्दिता वराः ॥
काश्चिन्मस्तककुम्भाश्च नृत्यभेदमनोरथाः ॥ १७६ ॥
पुंवेषनायिकाः काश्चित्काश्चित्तासां च नायिकाः ॥
कृष्णवेषधराः काश्चिद्राधावेषधराः पराः ॥ १७७ ॥
काश्चित्संयोगविरताः काश्चिदालिङ्गने रताः ॥
क्रीडासक्ताश्च ता दृष्ट्वा सस्मिता जगदीश्वराः ॥ १७८ ॥
प्रगच्छन्तः कियद्दूरं ददृशुश्चाश्रमान्बहून् ॥
राधासखीनां गेहांश्च प्रधानानां च नारद ॥१७९॥
रूपेणैव गुणेनैव वेषेण यौवनेन च ॥
सौभाग्येनैव वयसा सदृशीनां च तत्र वै ॥ १८० ॥
त्रयस्त्रिंशद्वयस्याश्च राधिकायाश्च गोपिकाः ॥
वेषानिर्वचनीयाश्च तासां नामानि च शृणु ॥ १८१ ॥
सुशीला च शशिकला यमुना माधवी रती ॥
कदम्बमाला कुन्ती च जाह्नवी च स्वयम्प्रभा ॥ १८२ ॥
चन्द्रमुखी च सावित्री गायत्री सुमुखी सुखा ॥
पद्मालया पारिजाता गौरी च सर्वमङ्गला ॥ १८३ ॥
कालिका कमला दुर्गा भारती च सरस्वती ॥
गङ्गा ऽम्बिका मधुमती चम्पाऽपर्णा च सुन्दरी ॥ १८४ ॥
कृष्णप्रिया सती चैव नन्दिनी नन्दनेति च ॥
एताः समानाः सद्रत्नरचिता राधिकाप्रियाः ॥ १८५ ॥
एतासां समरूपाणां रत्नधातुविचित्रितान् ॥
नानाप्रकारचित्रेण चित्रितान्सुमनोहरान् ॥ १८५ ।
अमूल्यरत्नकलशसमूहैः शिखरोज्ज्वलान् ॥
सद्रत्नरचिताञ्छुभ्रानाश्रमान्ददृशुस्तथा ॥ १८७ ॥
ब्रह्माण्डाद्बहिरूर्ध्वं च नास्ति लोकस्तदूर्ध्वकः ॥
ऊर्ध्वं शून्यमयं सर्वं तदन्ता सृष्टिरेव च ॥ १८८. ॥
रसातलेभ्यः सप्तभ्यो नास्त्यधः सृष्टिरेव च ॥
तदधश्च जलं ध्वान्तमगन्तव्यमदृश्यकम् ॥
ब्रह्माण्डान्तं तद्बहिश्च सर्वं मत्तो निशामय ॥ १८९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे गोलोकवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥