॥ श्रीनारायण उवाच ॥ ॥
राधा रतिगृहं गत्वा न ददर्श हरिं मुने ॥
विरजां च सरिदूपां दृष्ट्वा गेहं जगाम सा॥१॥
श्रीकृष्णो विरजां दृष्ट्वा सरिद्रूपां प्रियां सतीम् ॥
उच्चै रुरोद विरजातीरे नीरमनोहरे॥२॥
ममान्तिकं समागच्छ प्रेयसीनां परे वरे ॥
त्वया विनाऽहं सुभगे कथं जीवामि सुन्दरि ॥ ३ ॥
नद्यधिष्ठात्रि देवि त्वं भव मूर्तिमती सती ॥
ममाशिषा रूपवती सुन्दरी योषिता वरा॥४॥
पूर्वरूपाच्च सौभाग्यादिदानीं सुभगा भव ॥
पुरातनं शरीरं ते सरिदूपमभूत्सति ॥५॥
जलादुत्थाय चागच्छ विधाय तनुमुत्तमाम्॥
अष्टौ सिद्धीर्मया दत्ताः सुरसुन्दरि सत्वरम् ॥ ६ ॥
कृष्णाज्ञया च विरजा विधाय तनुमुत्तमाम् ॥
आजगाम हरेरग्रे साक्षाद्राधेव सुन्दरी ॥ ७ ॥
पीतवस्त्रपरीधाना स्मेराननसरोरुहा ॥
पश्यन्तं प्राणनाथं च पश्यन्ती वक्रचक्षुषा ॥ ८ ॥
नितम्बश्रोणिभारार्ता पीनोन्नतपयोधरा ॥
मानिनी मानिनीनां च गजेन्द्रमन्दगामिनी ॥ ९ ॥
सुन्दरी सुदरीणां च धन्या मान्या च योषिताम् ॥
चारुचम्पकवर्णाभा पक्वबिम्बाधरा वरा ॥4.3.१०॥
पक्व दाडिमबीजाभदन्तपङ्क्तिमनोहरा ॥
शरत्पार्वणचन्द्रास्या फुल्लेन्दीवरलोचना ॥ ११ ॥
कस्तूरीबिन्दुना सार्धं सिन्दूरबिन्दुभूषिता ॥
चारुपत्रक शोभाढ्या सुचारुकबरीयुता ॥ १२ ॥
रत्नकुण्डलगण्डस्था भूषिता रत्नमालया ॥
गजमौक्तिकनासाग्रा मुक्ताहारविराजिता ॥ १३ ॥
रत्नकङ्कणकेयूरचारुशङ्खकरोज्ज्वला ॥
किङ्किणीजालशब्दाढ्या रत्नमञ्जीररञ्जिता ॥ १४ ॥
तां च रूपवतीं दृष्ट्वा प्रेमोद्रेका जगत्पतिः ॥
चकारालिङ्गनं तूर्णं चुचुम्ब च मुहुर्मुहुः ॥१५॥
नानाप्रकारशृङ्गारं विपरीतादिकं विभुः ॥
रहसि प्रेयसीं प्राप्य चकार च पुनः पुनः ॥ १६ ॥
विरजा सा रजोयुक्ता धृत्वा वीर्यममोघकम् ॥
सद्यो बभूव तत्रैव धन्या गर्भवती सती॥ १७ ॥
दधार गर्भमीशस्य दिव्यं वर्षशतं च सा ॥
ततः सुषाव तत्रैव पुत्रान्सप्त मनोहरान् ॥ १८ ॥
माता सा सप्तपुत्राणां श्रीकृष्णस्य प्रिया सती ॥
तस्थौ तत्र सुखासीना सार्द्धं पुत्रैश्च सप्तभिः ॥ १९ ॥
एकदा हरिणा सार्द्धं वृन्दारण्ये च निर्जने ॥
विजहार पुनः साध्वी शृङ्गारासक्तमानसा ॥ 4.3.२० ॥
एतस्मिन्नन्तरे तत्र मातुः क्रोडं जगाम ह ॥
कनिष्ठपुत्रस्तस्याश्च भ्रातृभिः पीडितो भिया ॥ २१ ॥
भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः ॥
क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ ॥ २२ ॥
प्रबोध्य बालं सा साध्वी न ददर्शान्तिके प्रियम् ॥
विललाप भृशं तत्र शृङ्गारातृप्तमानसा ॥ २३ ॥
शशाप स्वसुतं कोपाल्लवणोदो भविष्यसि॥
कदाऽपि ते जलं केचिन्न खादिष्यन्ति जीविनः ॥ २४ ॥
शशाप बालान्सर्वांश्च यान्तु मूढा महीतलम् ॥
गच्छध्वं च महीं मूढा जम्बुद्वीपं मनोहरम् ॥ २५ ॥
स्थितिर्नैकत्र युष्माकं भविष्यति पृथक्पृथक् ॥
द्वीपे द्वीपे स्थितिं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ २६ ॥
द्वीपस्थाभिर्नदीभिश्च सह क्रीडन्तु निर्जने ॥
कनिष्ठो मातृशापाच्च लवणोदो बभूव ह ॥ २७ ॥
कनिष्ठः कथयामास मातृशापं च बालकान् ॥
आजग्मुर्दुःखिताः सर्वे मातृस्थाने च बालकाः॥२८॥
श्रुत्वा विवरणं सर्वे प्रजग्मुर्धरणीतलम् ॥
प्रणम्य चरणं मातुर्भक्तिनम्रात्ममूर्तयः ॥ २९ ॥
सप्तद्वीपसमुद्राश्च सप्त तस्थुर्विभागशः ॥
कनिष्ठाद्वृद्धपर्यन्तं द्विगुणं द्विगुणं मुने ॥ 4.3.३० ॥
लवणेक्षुसुरा सर्पिर्दधिदुग्धजलार्णवाः ॥
एतेषां च जलं पृथ्व्यां सस्यार्थं च भविष्यति ॥ ३१ ॥
व्याप्ताः समुद्राः सप्तैव सप्तद्वीपां वसुन्धराम् ॥
रुरुदुर्बालकाः सर्वे मातृभ्रातृशुचाऽन्विताः ॥ ३२ ॥
रुरोद च भृशं साध्वी पुत्रविच्छेदकातरा ॥
मूर्च्छामवाप शोकेन पुत्राणां भर्तुरेव च ॥ ३३ ॥
तां शोकसागरे मग्नां विज्ञाय राधिकापतिः ॥
आजगाम पुनस्तस्याः स्मेराननसरोरुहः ॥ ३४ ॥
दृष्ट्वा हरिं सा तत्याज शोकं रोदनमेव च ॥
आनन्दसागरे मग्ना दृष्ट्वा कान्तं बभूव ह ॥३५॥
चकार श्रीहरिं क्रोडे विजहार स्मरातुरा ॥
तां च पुत्र परित्यक्तां हरिस्तुष्टो बभूव ह॥ ३६ ॥
वरं तस्यै ददौ प्रीत्या प्रसन्नवदनेक्षणः ॥
कान्ते नित्यं तव स्थानमागमिष्यामि निश्चितम् ॥ ३७ ॥
यथा राधा तत्समा त्वं भविष्यसि प्रिया मम ॥
पुत्रान्द्रक्ष्यसि नित्यं त्वं मद्वरस्य प्रसादतः ॥ ३८ ॥
इत्युक्तवन्तं श्रीकृष्णं वसन्तं विरजान्तिके ॥
दृष्ट्वा राधावयस्याश्च कथयामासुरीश्वरीम् ॥ ३९ ॥
श्रुत्वा रुरोष सा देवी सुष्वाप क्रोधमन्दिरे ॥
एतस्मिन्नन्तरे कृष्णो जगाम राधिकान्तिकम् ॥ 4.3.४० ॥
स तस्थौ राधिकाद्वारे श्रीदाम्ना सह नारद ॥
रासेश्वरी हरिं दृष्ट्वा रुष्टोवाच प्रियं पुरः ॥ ४१ ॥
मत्तो बहुतराः कान्ता गोलोके सन्ति ते हरे ॥
याहि तासां सन्निधानं मया ते किं प्रयोजनम् ॥ ४२ ॥
विरजा प्रेयसी कान्ता सरिद्रूपा बभूव ह ॥
देहं त्यक्त्वा मम भयात्तथाऽपि याहि तां प्रति ॥ ४३ ॥
तत्तीरे मन्दिरं कृत्वा तिष्ठ तिष्ठ च याहि ताम्॥
नदी बभूव सा त्वं च नदो भवितुमर्हसि ॥ ४४ ॥
नदस्य नद्या सार्द्धं च सङ्गमो गुणवान्भवेत् ॥
स्वजातौ परमा प्रीतिः शयने भोजने सुखात् ॥ ४५ ॥
देवचूडामणेः क्रीडा नद्या सार्द्धमहो बत ॥
महाजनः स्मेरमुखः श्रुत्वा सद्यो भविष्यति ॥ ४६ ॥
ये त्वां वदन्ति सर्वेशं ते किं जानन्ति तत्त्वतः ॥
भगवान्सर्वभूतात्मा नदीं सम्भोक्तुमिच्छति ॥ ४७ ॥
इत्युक्त्वा राधिका देवी विरराम रुषाऽन्विता ॥
नोत्तस्थौ भूमिशयनाद्गोपीलक्षसमन्विता॥४८ ॥
काश्चिच्चामरहस्ताश्च काश्चित्सूक्ष्मांशुकाम्बराः ॥
काश्चित्ताम्बूलहस्ताश्च काश्चिन्मालाकरा वराः ॥ ४९ ॥
वासितोदकराः काश्चित्काश्चित्पद्मकरा वराः ॥
काश्चित्सिन्दूरहस्ताश्च पानहस्ताश्च काश्चन ॥ 4.3.५० ॥
रत्नालङ्कारहस्ताश्च काश्चित्कज्जलवाहिकाः ॥
वेणुवीणाकराः काश्चित्काश्चित्कङ्कतिकाकराः ॥ ५१ ॥
काश्चिदावीरहस्ताश्च यन्त्रहस्ताश्च काश्चन ॥
सुगन्धितैलहस्ताश्च काश्चन प्रमदोत्तमाः ॥ ५२ ॥
करतालकराः काश्चिद्गेन्दुहस्ताश्च काश्चन ॥
काश्चिन्मृदङ्गमुरजमुरलीतानकारिकाः ॥ ५३ ॥
सङ्गीतनिपुणाः काश्चित्काश्चिन्नर्तनतत्पराः ॥
क्रीडावस्तुकराः काश्चिन्मधुहस्ताश्च काश्चन ॥ ५४ ॥
सुधापात्रकराः काश्चिदङ्घ्रिपीठकराः पराः ॥
वेषवस्तुकराः काश्चित्काश्चिच्चरणसेविकाः ॥ ५५ ॥
पुटाञ्जलिकराः काश्चित्काश्चित्स्तुतिपरा वराः ॥
एवं कतिविधाः सन्ति राधिकापुरतो मुने ॥ ५६ ॥
बहिर्देशस्थिताः काश्चित्कोटिशः कोटिशः सदा ॥
काश्चिद्द्वारनियुक्ताश्च वयस्या वेत्रधारिकाः ॥ ५७ ॥
कृष्णमभ्यन्तरं गन्तुं न ददुर्द्वारसंस्थिताः ॥
पुरःस्थितं तं प्राणेशं राधा पुनरुवाच सा ॥
नानुरूपमत्यकथ्ययमयोग्यमतिकर्कशम् ॥ ५८ ॥
॥ राधिकोवाच ॥
हे कृष्ण विरजाकान्त गच्छ मत्पुरतो हरे ॥
कथं दुनोषि मां लोल रतिचौरातिलम्पट ॥ ५९ ॥
शीघ्रं पद्मावतीं गच्छ रत्नमालां मनोरमाम् ॥
अथवा वनमालां वा रूपेणाप्रतिमां व्रज ॥ 4.3.६० ॥
हे नदीकान्त देवेश देवानां च गुरोर्गुरो ॥
मया ज्ञातोऽसि भद्रं ते गच्छ गच्छ ममाश्रमात् ॥ ६३ ॥
शश्वत्ते मानुषाणां च व्यवहारस्य लम्पट ॥
लभतां मानुषीं योनिं गोलोकाद्व्रज भारतम् ॥ ६२ ॥
हे सुशीले शशिकले हे पद्मावति माधवि ॥
निवार्यतां च धूर्तोऽयं किम्मस्यात्र प्रयोजनम् ॥ ६३ ॥
राधिकावचनं श्रुत्वा तमूचुर्गोपिका हरिम् ॥
हितं तथ्यं च विनयं सारं यत्समयोचितम् ॥ ६४ ॥
काश्चिदूचुरिति हरे गच्छ स्थानान्तरं क्षणम् ॥
राधाकोपापनयने ह्यागमिष्यामहे वयम् ॥ ६९ ॥
काश्चिदूचुरिति प्रीत्या क्षणं गच्छ गृहान्तरम् ॥
त्वयैव वर्धिता राधा त्वां विना कं च वक्ष्यति ॥ ६६ ॥
काश्चिदूचुरिति प्रेम्णा राधिकायां हरिं मुने ॥
क्षणं वृन्दावनं गच्छ मानापनयनावधि ॥ ६७ ॥
काश्चिदित्यूचुरीशं च परिहासपरं वचः ॥
मानापनयनं भक्त्या मानिन्याः कुरु कामुक ॥ ६८ ॥
काश्चनोचुरितीशं तं याहि जायान्तरं तव ॥
लोलुपस्य कथं नाथ करिष्यामो यथोचितम् ॥ ६९ ॥
काश्चनोचुरिति हरिं सस्मितं पुरतः स्थितम् ॥
गत्वा समीपमुत्थाय मानापनयनं कुरु ॥ 4.3.७० ॥
काश्चनोचुरिति प्राणनाथं गोप्यो दुरक्षरम् ॥
कः क्षमः साम्प्रतं द्रष्टं राधिकामुखपङ्कजम् ॥ ७१ ॥
काश्चनोचुरिति विभुं व्रज स्थानान्तरं हरे ॥
कोपापनयने काले पुनरागमनं तव ॥ ७२ ॥
काश्चनोचुरितीदं तं प्रगल्भाः प्रमदोत्तमाः ॥
वयं त्वां दारयिष्यामो न चेद्याहि गृहान्तरम् ॥ ७३ ॥
काश्चिन्निवारयामासुर्माधवं प्रमदोत्तमाः ॥
स्मितवक्त्रं च सर्वेशं स्वस्थमक्रोधमीश्वरम् ॥ ७४ ॥
गोपीर्भिर्वार्यमाणे च जगत्कारणकारणे ॥
सद्यश्चुकोप श्रीदामा हरौ गेहान्तरं गते ॥ ७९ ॥
कोपादुवाच श्रीदामा राधिकां परमेश्वरीम् ॥
रक्तपद्मेक्षणां रुष्टां रक्तपङ्कजलोचनाम् ॥ ७६ ॥
॥ श्रीदामोवाच ॥ ॥
कथं वदसि मातस्त्वं कटुवाक्यं मदीश्वरम् ॥
विचारणां विना देवि करोषि भर्त्सनं वृथा ॥ ७७ ॥
ब्रह्मानन्तेशदेवेशं जगत्कारणकारणम् ॥
वाणीपद्मालयामायाप्रकृतीशं च निर्गुणम् ॥ ७८ ॥
स्वात्मारामं पूर्णकामं करोषि त्वं विडम्बनम् ॥
देवीनां प्रवरा त्वं च निबोध यस्य सेवया ॥ ७९ ॥
यस्य पादार्चनेनैव सर्वेषामीश्वरी परा ॥
तन्न जानासि कल्याणि किमहं वक्तुमीश्वरः ॥ 4.3.८० ॥
भ्रूभङ्गलीलया कृष्णः स्रष्टुं शक्तश्च त्वद्विधाः ॥
कोटिशः कोटिशो देव्यस्तं न जानासि निर्गुणम् ॥ ८१ ॥
वैकुण्ठे श्रीहरेरस्य चरणाम्बुजमार्जनम् ॥
करोति केशैः शश्वच्छ्रीः सेवनं भक्तिपूर्वकम् ॥ ८२ ॥
सरस्वती च स्तवनैः कर्णपीयूषसुन्दरैः ॥
सततं स्तौति यं भक्त्या न जानासि तमीश्वरम् ॥ ८३ ॥
भीता च प्रकृतिर्माया सर्वेषां बीजरूपिणी ॥
सततं स्तौति यं भक्त्या तं न जानासि मानिनि ॥ ८४ ॥
स्तुवन्ति सततं वेदा महिम्नः षोडशीं कलाम् ॥
कदापि न विजानन्ति तं न जानासि भामिनि ॥ ८५ ॥
वक्त्रैश्चतुर्भिर्यं ब्रह्मा वेदानां जनको विभुः ॥
स्तौति सेवां च कुरुते चरणाम्बुजमीश्वरि ॥ ८६ ॥
शङ्करः पञ्चभिर्वक्त्रैः स्तौति यं योगिनां गुरुः ॥
साश्रुपूर्णः सपुलकः सेवते चरणाम्बुजम् ॥ ८७ ॥
शेषः सहस्रवदनैः परमात्मानमीश्वरम् ॥
सततं स्तौति यं भक्त्या सेवते चरणाम्बुजम् ॥ ८८ ॥
धर्मःपाता च सर्वेषां साक्षी च जगतां पतिः ॥
भक्त्या च चरणाम्भोजं सेवते सततं मुदा॥८९॥
श्वेतद्वीपनिवासी यः पाता विष्णुः स्वयं विभुः ॥
तस्यांशश्च तथा यं यं धार्यतेऽप्यक्षरं परम् ॥4.3.९०॥
सुरासुरमुनीन्द्राश्च मनवो मानवा बुधाः ॥
सेवन्ते न हि पश्यन्ति स्वप्नेऽपि चरणाम्बुजम्॥९१॥
क्षिप्रं रोषं परित्यज्य भज पादाम्बुजं हरेः॥
भ्रूभङ्गलीलामात्रेण सृष्टिसंहर्तुरेव च ॥ ९२ ॥
निमेषमात्रादस्यैव ब्रह्मणः पतनं भवेत् ॥
यस्यैकदिवसेऽप्यष्टाविंशतीन्द्राः पतन्त्यपि ॥ ९३ ॥
एवमष्टोत्तरशतमायुर्यस्य जगद्विधेः ॥
त्वं वा काऽन्याश्च वा राधे मदीश्वरवशेऽखिलम् ॥९४॥
श्रीदाम्नो वचनं श्रुत्वा केवलं कटुमुज्ज्वलम् ॥
सद्यश्चुकोप सा ब्रह्मन्सद्यः प्राणेश्वरी हरेः ॥ ९५ ॥
रासेश्वरी बहिर्गत्वा तमुवाच ह निष्ठुरम् ॥
स्फुरदोष्ठी मुक्तकेशी रक्ताम्भोरुहलोचना ॥९६॥ ॥
राधिकोवाच ॥
रेरे जाल्म महामूढ शृणु लॆपटकिङ्कर ॥
त्वं च जानासि सर्वार्थं न जानामि त्वदीश्वरम् ॥ ९७ ॥
त्वदीश्वरश्च श्रीकृष्णो न ह्यस्माकं व्रजाधम ॥
जानामि जनकं स्तौषि सदा निन्दसि मातरम् ॥ ९८ ॥
यथाऽसुराश्च त्रिदशा नित्यं निन्दन्ति सन्ततम् ॥
तथा निन्दसि मां मूढ तस्मात्त्वमसुरो भव ॥ ९९ ॥
गोप व्रजासुरीं योनिं गोलोकाच्च बहिर्भव ॥
मयाऽद्य शप्तो मूढस्त्वं कस्त्वां रक्षितुमीश्वरः ॥ 4.3.१०० ॥
रासेश्वरी तमित्युक्त्वा सुष्वाप विरराम च ॥
वयस्याः सेवयामासुश्चामरै रत्नमुष्टिभिः ॥ १०१ ॥
श्रुत्वा च वचनं तस्याः कोपेन स्फुरिताधरः ॥
शशाप तां च श्रीदामा व्रज योनिं च मानुषीम् ॥
श्रीदामोवाच ॥ ॥
मानुष्या इव कोपस्ते तस्मात्त्वं मानुषी भुवि ॥ १०२ ॥
भविष्यसि न सन्देहो मया शप्ता त्वमम्बिके ॥
छायया कलया वाऽपि परशक्त्या कलङ्किना ॥ १०३ ॥
मूढा रापाणपत्नी त्वां वक्ष्यति जगतीतले ॥
रापाणः श्रीहरेरंशो वैश्यो वृन्दावने वने ॥ १०४ ॥
भविष्यति महायोगी राधाशापेन गर्भजः ॥
गोकुले प्राप्य तं कृष्णं विहरिष्यसि कानने ॥ १०५ ॥
भविता ते वर्षशतं विच्छेदो हरिणा सह ॥
पुनः प्राप्य तमीशं च गोलोकमागमिष्यसि॥ १०६ ॥
तामित्युक्त्वा च नत्वा च स जगाम हरेः पुरः ॥
गत्वा प्रणम्य श्रीकृष्णं शापाख्यानमुवाच ह ॥ १०७ ॥
आनुपूर्व्यात्तु तत्सर्वं रुरोद च भृशं पुनः ॥
उवाच तं रुदन्तं च गच्छध्वं धरणीतलम् ॥ १०८ ॥
न जेता ते त्रिभुवने ह्यसुरेन्द्रो भविष्यसि ॥
काले शङ्करशूलेन देहं त्यक्त्वा ममान्तिकम्॥ १०९ ॥
आगमिष्यसि पञ्चाशद्युगान्ते तु ममाशिषा ॥
श्रीकृष्णस्य वचः श्रुत्वा तमुवाच शुचाऽन्वितः ॥ 4.3.११० ॥
त्वद्भक्तिरहितं मां च कदाचिन्न करिष्यसि ॥
इत्युक्त्वा श्रीहरिं नत्वा जगाम स्वाश्रमाद्बहिः ॥ १११ ॥
पश्चाज्जगाम सा देवी रुरोद च पुनःपुनः ॥
क्व यासि वत्सेत्युच्चार्य विललाप भृशं सती ॥११२॥
श्रीदामाऽपि च तां नत्वा रुरोद प्रेमविह्वलः ॥
स एव शङ्खचूडश्च बभूव तुलसीपतिः॥ ११३ ॥
गते श्रीदाम्नि सा देवी जगामेश्वरसन्निधिम् ॥
सर्वं निवेदयामास हरिः प्रत्युत्तरं ददौ ॥ ११४ ॥
शोकातुरां च तां कृष्णो बोधयामास प्रेयसीम् ॥
शङ्खचूडश्च कालेन सम्प्राप पुनरीश्वरम् ॥ ११५ ॥
राधा जगाम धरणीं वाराहे हरिणा सह ॥
वृषभानुगृहे जन्म ललाभ गोकुले मुने ॥ ११६ ॥
इत्येवं कथितं सर्वं श्रीकृष्णाख्यानमङ्गलम् ॥
सर्वेषां वाञ्छितं सारं किं भूयः श्रोतुमिच्छसि ॥११७॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे सप्तसमुद्रजन्म राधाश्रीदामशापोद्भवो नाम तृतीयोऽध्यायः ॥ ३ ॥