॥ श्रीनारायण उवाच ॥ ॥
येन वा प्रार्थितः कृष्ण आजगाम महीतलम्॥
यं यं विधाय भूमौ स जगाम स्वालयं विभुः ॥ १॥
भारावतरणोपायं दुष्टानां च वधोद्यमम् ॥
सर्वं ते कथयिष्यामि सुविचार्य विधानतः ॥ २ ॥
अधुना गोपवेषं च गोकुलागमनं हरेः ॥
राधा गोपालिका येन निबोध कथयामि ते ॥ ३ ॥
शङ्खचूडवधं पूर्वं सङ्क्षेपात्कथितं श्रुतम् ॥
अधुना तत्सुविस्तार्य निबोध कथयामि ते ॥ ॥ ४ ॥
श्रीदाम्नः कलहश्चैव बभूव राधया सह ॥
श्रीदामा शङ्खचूडश्च शापात्तस्या बभूव ह ॥ ५ ॥
राधां शशाप श्रीदामा याहि योनिं च मानवीम् ॥
व्रजे व्रजाङ्गना भूत्वा विचरस्व महीतले ॥ ६ ॥
भीता श्रीदामशापात्सा श्रीकृष्णं समुवाच ह ॥
गोपीरूपा भविष्यामि श्रीदामा मां शशाप ह ॥ ७ ॥
कमुपायं करिष्यामि वद मां भयभञ्जन ॥
त्वया विना कथमहं धरिष्यामि स्वजीवनम् ॥ ८ ॥
क्षणमेकं युगशतं कालनाथ त्वया विना ॥
चक्षुर्निमेषविरहाद्भवेदन्धं मनो मम ॥ ९॥
शरत्पार्वणचन्द्राभं क्षुधापूर्णाननं तव ॥
नाथ चक्षुञ्चकोराभ्यां पिबाम्यहमहर्निशम्॥ 4.2.१० ॥
त्वमात्मा मे मनः प्राणा देहमात्रं वहाम्यहम् ॥
दृष्टिशक्तिश्च चक्षुस्त्वं जीवनं परमं धनम् ॥११॥
स्वप्ने ज्ञाने त्वयि मनः स्मरामि त्वत्पदाम्बुजम् ॥
तव दास्यं विना नाथ न जीवामि क्षणं विभो ॥ १२ ॥
कृष्णस्तद्वचनं श्रुत्वा बोधयामास सुन्दरीम् ॥
वक्षसि प्रेयसीं कृत्वा चकार निर्भयां च ताम् ॥१३॥
महीतलं गमिष्यामि वाराहे च वरानने ॥
मया सार्धं भूगमनं जन्म तेऽपि निरूपितम् ॥१४॥
व्रजं गत्वा व्रजे देवि विहरिष्यामि कानने ॥
मम प्राणाधिका त्वं च भयं किं ते मयि स्थिते ॥१५॥
तामित्युक्त्वा हरिस्तत्र विरराम जगत्पतिः ॥
अतो हेतोर्जगन्नाथो जगाम नन्दगोकुलम्॥ १५ ॥
किं वा तस्य भयं कंसाद्भयान्तकारकस्य च ॥
माया भयच्छलेनैव जगाम राधिकान्तिकम् ॥ १७ ॥
विजहार तया सार्धं गोपवेषं विधाय सः ॥
सह गोपाङ्गनाभिश्च प्रतिज्ञापालनाय च ॥१८॥
ब्रह्मणा प्रार्थितः कृष्णः समागत्य महीतलम् ॥
भारावतरणं कृत्वा जगाम स्वालयं विभुः ॥ १९ ॥
नारद उवाच ॥
श्रीदाम्नः कलहश्चैव कथं वा राधया सह ॥
सङ्क्षेपात्कथितं पूर्वं संव्यस्य कथयाधुना ॥ 4.2.२० ॥ ॥
श्रीनारायण उवाच ॥
एकदा राधया सार्धं गोलोके श्रीहरिः स्वयम् ॥
विजहार महारण्ये निर्जने रासमण्डले ॥ ॥ २१ ॥
राधिकासुखसम्भोगाद् बुबुधे न स्वकं परम्॥
कृत्वा विहारं श्रीकृष्णस्तामपृष्ट्वा विहाय च॥२२॥
गोपिकां विरजामन्यां शृङ्गारार्थं जगाम ह ॥
वृन्दारण्ये च विरजा सुभगा राधिकासमा ॥२३॥
तस्या वयस्याः सुन्दर्यो गोपीनां शतकोटयः ॥
कृष्णप्राणाधिका गोपी धन्या मान्या च योषिताम् ॥२४॥
रत्नसिंहासनस्था सा ददर्श हरिमन्तिके॥
ददर्श श्रीहरिस्तां च शरच्चन्द्रनिभाननाम् ॥२५॥
मनोहरां सस्मितां च पश्यन्तीं वक्रचक्षुषा ॥
सदा षोडशवर्षीयां प्रोद्भिन्ननवयौवनाम् ॥२६॥
रत्नालङ्कारशोभाढ्यां भूषितां शुक्लवाससा ॥
पुलकाङ्कितसर्वाङ्गीं कामबाणप्रपीडिताम् ॥२७॥
दृष्ट्वा तां श्रीहरिस्तूर्णं विजहार तया सह ॥
पुष्पतल्पे महारण्ये निर्जने रत्नमण्डपे ॥२८॥
मूर्च्छामवाप विरजा कृष्णशृङ्गारकौतुकात् ॥
कृत्वा वक्षसि प्राणेशं कोटिकन्दर्पसन्निभम् ॥ २९ ॥
तया सक्तं श्रीहरिं च रत्नमण्डपसंस्थितम् ॥
दृष्ट्वा च राधिकाल्यश्च चक्रुस्तां च निवेदनम् ॥ 4.2.३० ॥
तासां च वचनं श्रुत्वा सुष्वाप च चुकोप ह ॥
भृशं रुरोद सा देवी रक्तपङ्कजलोचना ॥ ३१ ॥
ता उवाच महादेवी मां तं दर्शयितुं क्षमाः ॥
यदि सत्यं ब्रूत यूयं मया सार्धं प्रगच्छत ॥ ३२ ॥
करिष्यामि फलं गोप्याः कृष्णस्य च यथोचितम् ॥
को रक्षिताऽद्य तस्याश्च मयि शास्तिं प्रकुर्वति ॥ ३३ ॥
शीघ्रमानयताल्यश्च तया सार्द्धं हरिं प्रियम् ॥
अन्तर्वक्त्रं सस्मितं च विषकुम्भं सुधामुखम् ॥ ३४ ॥
मदाश्रयं समागन्तुं यूयं दासं न दास्यथ ॥
तमेव मण्डपं रम्यं यात संरक्षतेश्वरम् ॥ ३५ ॥
राधिकावचनं श्रुत्वा काश्चिद्गोप्यो भयान्विताः ॥
ताः सर्वाः सम्पुटाञ्जल्यो भक्तिनम्रात्मकन्धराः ॥
तामूचुः पुरतः स्थित्वा सर्वा एव प्रियां सतीम् ॥ ३६ ॥
॥ आल्य ऊचुः ॥
वयं तं दर्शयिष्यामो विरजासहितं विभुम् ॥ ३७ ॥
तासां च वचनं श्रुत्वा रथमारुह्य सुन्दरी ॥
जगाम सार्धं गोपीभिस्त्रिषष्टिशतकोटिभिः ॥ ३८ ॥
रत्नेन्द्रसाररचितं कोटिसूर्यसमप्रभम् ॥
मणीन्द्रसाररचितं कलशानां त्रिकोटिभिः ॥ ३९ ॥
राजितं चित्रराजीभिर्वैजयन्तीविराजितम् ॥
लक्षचक्रसमायुक्तं मनोयायि मनोहरम् ॥ 4.2.४० ॥
मणिसारविकारैश्च कोटिस्तम्भैः सुशोभितम् ॥
नानाचित्रविचित्रैश्च सहितैः सुमनोहरैः ॥ ४१ ॥
सिन्दूराकारमणिभिर्मध्यदेशे विभूषितैः ॥
रत्नकृत्रिमसिंहैश्च रथचक्रोर्ध्वसंस्थितैः ॥ ४२ ॥
चतुर्लक्षपरिमितैश्चित्रघण्टासमन्वितैः ॥
चित्रपुत्तलिशोभाढ्यैर्विचित्रैश्च विराजितम् ॥ ४३ ॥
रतिमन्दिरलक्षैश्च रत्नसारविनिर्मितैः ॥
मणिसारकपाटैश्च शोभितैश्चित्रवाजिभिः ॥ ४४ ॥
मणीन्द्रसारकलशैः शेखरोज्ज्वलितैर्युतम् ॥
भोगद्रव्यसमायुक्तं वेषद्रव्यसमन्वितम् ॥ ४५ ॥
शोभितं रत्नशय्याभी रत्नपात्रघटान्वितम् ॥
हरिन्मणीनां वेदीनां समूहेन समन्वितम् ॥ ४६ ॥
कुङ्कुमाभमणीनां च सोपानैः कोटिभिर्युतम् ॥
स्यमन्तकैः कौस्तुभैश्च रुचकैः प्रवरैस्तथा ॥ ४७ ॥
पद्मकृत्रिमकोटीनां शतकैश्च सुशोभितम् ॥
चित्रकाननवापीभि र्विशिष्टाभिर्विराजितम् ॥ ४८ ॥
रत्नेन्द्रसाररचितकलशोज्ज्वलशेखरम् ॥
शतयोजनमूर्ध्वं च दशयोजनविस्तृतम् ॥ ४९ ॥
पारिजातप्रसूनानां मालाकोटिविराजितम् ॥
कुन्दाना करवीराणां यूथिकानां तथैव च ॥ 4.2.५० ॥
सुचारुचम्पकानां च नागेशानां मनोहरैः ॥
मल्लिकानां मालतीनां माधवीनां सुगन्धिनाम् ॥ ५१ ॥
कदम्बानां च मालानां कदम्बैश्च विराजितम् ॥
सहस्रदलपद्मानां मालाभिश्च विराजितम् ॥ ५२ ॥
चित्रपुष्पोद्यानसरः काननैश्च विभूषितम् ॥
सर्वेषां स्यन्दनानां च श्रेष्ठं वायुवहं परम् ॥ ५३ ॥
तत्सूक्ष्मवस्त्रसाराणां वरैराच्छादितं परम् ॥
रत्नदर्पणलक्षाणां शतकैश्च समन्वितम् ॥ ५४ ॥
श्वेतचामरकोटीभिर्वज्रकोटिभिरन्वितम् ॥
चन्दनागरुकस्तूरीकुङ्कुमद्रवचर्चितैः ॥ ५५ ॥
पारिजातप्रसूनानां कोटितल्पविराजितम् ॥
कोटिघण्टासमायुक्तं पताकाकोटिभिर्युतम् ॥ ५६ ॥
रत्नशय्याकोटिभिश्च चित्रवज्रपरिच्छदैः ॥
चन्दनाक्तैश्चम्पकानां कुङ्कुमैश्च विचित्रितैः ॥ ५७ ॥
पुष्पोपधानसंयुक्तैः शृङ्गारार्हाभिरन्वितम् ॥
अदृश्यैरश्रुतैर्द्रव्यैः सुन्दरैश्च विभूषितम् ॥ ५८ ॥
एवम्भूताद्रथात्तूर्णमवरुह्य हरिप्रिया ॥
जगाम सहसा देवी तं रत्नमण्डपं मुने ॥ ५९ ॥
द्वारे नियुक्तं ददृशे द्वारपालं मनोहरम् ॥
लक्षगोपैः परिवृतं स्मेराननसरोरुहम् ॥ 4.2.६० ॥
गोपं श्रीदामनामानं श्रीकृष्णप्रियकिङ्करम् ॥
तमुवाच रुषा देवी रक्तपङ्कजलोचना ॥ ६१ ॥
गच्छ दूरं गच्छ दूरं रतिलम्पटकिङ्कर ॥
कीदृशीं मत्परां कान्तां द्रक्ष्यामि त्वत्प्रभोरहम् ॥ ६२ ॥
राधिकावचनं श्रुत्वा निःशङ्कः पुरतः स्थितः ॥
तामेव न ददौ गन्तुं वेत्रपाणिर्महाबलः ॥ ६३ ॥
तूर्णं च राधिकाल्यश्च श्रीदामानं सकिङ्करम् ॥
बलेन प्रेरयामासुः कोपेन स्फुरिताधराः ॥ ६४ ॥
श्रुत्वा कोलाहलं शब्दं गोपिकानां हरिः स्वयम् ॥
ज्ञात्वा च कोपितां राधामन्तर्धानं चकार ह ॥ ६५ ॥
विरजा राधिकाशब्दादन्तर्धानं हरेरपि ॥
दृष्ट्वा राधां भयार्ता सा जहौ प्राणांश्च योगतः ॥ ६६ ॥
सद्यस्तत्र सरिद्रूपं तच्छरीरं बभूव ह ॥
व्याप्तं च वर्तुलाकारं तया गोलोकमेव च ॥ ६७ ॥
कोटियोजनविस्तीर्णं प्रस्थेऽतिनिम्नमेव च ॥
दैर्घ्ये दशगुणं चारु नानारत्नाकरं परम् ॥ ६८ ॥ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे विरजानदप्रस्ताववर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥