नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥
नारद उवाच ॥ ॥
श्रुतं प्रथमतो ब्रह्मन्ब्रह्मखण्डं मनोहरम् ॥
ब्रह्मणो वदनाम्भोजात्परमाद्भुतमेव च ॥१॥
ततस्तद्वचनात्तूर्णं समागत्य तवान्तिकम् ॥
श्रुतं प्रकृतिखण्डं च सुधाखण्डात्परं वरम् ॥ २ ॥
ततो गणपतेः खण्डमखण्डभवखण्डनम् ॥
न मे तृप्तं मनो लोलं विशिष्टं श्रोतुमिच्छति ॥ ३ ॥
श्रीकृष्णजन्मखण्डं च जन्मादेः खण्डनं नृणाम् ॥
प्रदीपं सर्वतत्त्वानां कर्मघ्नं हरिभक्तिदम् ॥ ४ ॥
सद्यो वैराग्यजननं भवरोगनिकृन्तनम् ॥
कारणं मुक्तिबीजानां भवाब्धेस्तारणं परम् ॥ ५ ॥
कर्मोपभोगरोगाणां खण्डने च रसायनम् ॥
श्रीकृष्णचरणाम्भोजप्राप्तिसोपान कारणम् ॥ ६ ॥
जीवनं वैष्णवानां च जगतां पावनं परम् ॥
वद विस्तार्य मां भक्तं शिष्यं च शरणागतम् ॥ ७ ॥
केन वा प्रार्थितः कृष्ण आजगाम महीतलम् ॥
सर्वांशैरेक एवेशः परिपूर्णतमः स्वयम् ॥८॥
युगे कुत्र कुतो हेतोः कुत्र वाऽऽविर्बभूव ह ॥
वसुदेवोऽस्य जनकः को वा का वा च देवकी ॥ ९ ॥
वद कस्य कुले जन्म मायया सुविडम्बनम् ॥
किं चकार समागत्य केन रूपेण वा हरिः ॥ ॥ 4.1.१० ॥
जगाम गोकुलं कंसभयेन सूतिकागृहात् ॥
कथं कंसात्कीटतुल्याद्भयेशस्य भयं मुने ॥ ११ ॥
हरिर्वा गोपवेषेण गोकुले किं चकार ह ॥
कुतो गोपाङ्गनासार्धं विजहार जगत्पतिः ॥१२॥
का वा गोपाङ्गना के वा गोपाला बालरूपिणः ॥
का वा यशोदा को नन्दः किं वा पुण्यं चकार ह ॥१३॥
कथं राधा पुण्यवती देवी गोकुलवासिनी ॥
व्रजे वा व्रजकन्या सा बभूव प्रेयसो हरेः॥१४॥
कथं गोप्यो दुराराध्यं सम्प्रापुरीश्वरं परम् ॥
कथं ताश्च परित्यज्य जगाम मथुरां पुनः ॥ १९ ॥
भारावतरणं कृत्वा किं विधाय जगाम सः ॥
कथयस्व महाभाग पुण्यश्रवणकीर्तन ॥ १६ ॥
सुदुर्लभां हरिकथां तरणिं भवसागरे ॥
निषेकभोगनिगडक्लेशच्छेदन कर्तनीम् ॥ १७ ॥
पापेन्धनानां दहने ज्वलदग्निशिखामिव ॥
पुंसां श्रुतवतां कोटिजन्मकिल्बिषनाशिनीम् ॥ १८ ॥
मुक्तिं कर्णसुधारम्यां शोकसागरनाशिनीम् ॥
मह्यं भक्ताय शिष्याय ज्ञानं देहि कृपानिधे ॥ १९ ॥
तपोजपमहादानात्पृथिव्यां तीर्थदर्शनात् ॥
श्रुतिपाठादनशनाद्व्रताद्देवार्चनादपि ॥ 4.1.२० ॥
दीक्षायाः सर्वयज्ञेषु यत्फलं लभते नरः ॥
षोडशीं ज्ञानदानस्य कलां नार्हति तत्फलम् ॥ २१ ॥
पित्राऽहं प्रेषितो ज्ञानादानाय तव सन्निधिम् ॥
सुधासमुद्रं सम्प्राप्य को वाऽन्यत्पातुमिच्छति ॥ २२ ॥
श्रीनारायण उवाच ॥ ॥
मया ज्ञातोऽसि धन्यस्त्वं पुण्यराशिः सुमूर्तिमान् ॥
करोषि भ्रमणं लोकान्पावितुं कुलपावन ॥ २३ ॥
जनानां हृदयं सद्यः सुव्यक्तं वचनेन वै ॥
शिष्ये कलत्रे कन्यायां दौहित्रे बान्धवेऽपि च ॥ २४ ॥
पुत्रे पौत्रे च वचसि प्रतापे चापदि स्त्रियाम् ॥
वृद्धौ वैरिणि विद्यायां ज्ञायते हृदयं नृणाम् ॥ २५ ॥
जीवन्मुक्तोऽसि पूतस्त्वं शुद्धभक्तो गदाभृतः ॥
पुनासि पादरजसा सर्वाधारां वसुन्धराम् ॥ २६ ॥
पुनासि लोकान्त्सर्वांश्च स्वीयविग्रहदर्शनात् ॥
सुमङ्गलां हरिकथां तेन त्वं श्रोतुमिच्छसि ॥ २७ ॥
यत्र कृष्णकथाः सन्ति तत्रैव सर्वदेवताः ॥
ऋषयो मुनयश्चैव तीर्थानि निखिलानि च ॥ २८ ॥
कथाः श्रुत्वा कथान्ते ते यान्ति सन्तो निरापदम् ॥
भवन्ति तानि तीर्थानि येषु कृष्णकथाः शुभाः ॥ २९ ॥
सद्यः कृष्णकथावक्ता स्वस्य पुंसां शतं शतम्॥
समुद्धृत्य श्रुतवतां पुनाति निखिलं कुलम् ॥ 4.1.३० ॥
प्रष्टा तु प्रश्नमात्रेण पुनाति कुलमात्मनः ॥
श्रोता श्रवणमात्रेण स्वकुलं स्व स्वबान्धवान् ॥ ३१ ॥
शतजन्मतपस्तप्तो जन्मेदं भारते लभेत् ॥
करोति सफलं जन्म श्रुत्वा हरिकथामृतम् ॥ ३२ ॥
अर्चनं वन्दनं मन्त्रजपः सेवनमेव च ॥
स्मरणं कीर्तनं शश्वद्गुणश्रवणमीप्सितम् ॥ ३३ ॥
निवेदनं तस्य दास्यं नवधा भक्तिलक्षणम् ॥
करोति जन्म सुफलं कृत्वैतानि च नारद ॥ ३४ ॥
न च विघ्नो भवेत्तस्य परमायुर्न नश्यति ॥
न याति तत्पुरः कालो वैनतेयमिवोरगः ॥ ३५ ॥
न जहाति समीपं च क्षणं तस्य हरिः स्वयम् ॥
उपतिष्ठति तूर्णं तमणिमादिकसिद्धयः ॥ ३६ ॥
सुदर्शनं भ्रमत्येव तस्य पार्श्वे दिवानिशम् ॥
कृष्णाज्ञया च रक्षार्थं को वा किं कर्तुमीश्वरः ॥ ३७ ॥
न यान्ति तत्समीपं च स्वप्नेऽपि यमकिङ्कराः ॥
ज्वलदग्निं यथा दृष्ट्वा शलभा न व्रजन्ति तम् ॥ ३६ ॥
व्याधयो विपदः शोका विप्राश्च न प्रयान्ति तम् ॥
न याति तत्समीपं च मृत्युर्मृत्युभयान्मुने ॥ ३९ ॥
ऋषयो मुनयः सिद्धाः सन्तुष्टाः सर्वदेवताः ॥
स च सर्वत्र निःशङ्कः सुखी कृष्णप्रसादतः ॥ 4.1.४० ॥
तव कृष्णकथायां च रतिरात्यन्तिकी सदा ॥
जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् ॥ ४१ ॥
विप्रेन्द्र का प्रशंसेयं जन्म ते ब्रह्ममानसे ॥
यत्र यत्र कुले जन्म तन्मतिस्तादृशी भवेत् ॥ ४२ ॥
पिता विधाता जगतां कृष्णपादाब्जसेवया ॥
नित्यं करोति यः शश्वन्नवधा भक्तिलक्षणम् ॥ ४३ ॥
रतिः कृष्णकथायां च यस्याश्रुपुलकोद्गमः ॥
मनो निमग्नं तत्रैव स भक्तः कथितो बुधैः ॥४४॥
पुत्रदारादिकं सर्वं जानाति श्रीहरेरिति ॥
आत्मना मनसा वाचा स भक्तः कथितो बुधैः ॥ ४५ ॥
निर्जने तीर्थसम्पर्के निःसङ्गा ये मुदाऽन्विताः ॥
ध्यायन्ते चरणाम्भोजं श्रीहरेस्ते च वैष्णवाः ॥४६॥
दयाऽस्ति सर्वजीवेषु सर्वं कृष्णम यं जगत् ॥
यो जानाति महाज्ञानी स भक्तो वैष्णवो मतः ॥४७॥
शश्वद्ये नाम गायन्ति गुणं मन्त्रं जपन्ति च ॥
कुर्वन्ति श्रवणं गाथा वदन्ति तेऽतिवैष्णवाः ॥ ४६ ॥
लब्धानीष्टानि वस्तूनि प्रदातुं हरये मुदा ॥
तूर्णं यस्य मनो हृष्टं स भक्तो ज्ञानिनां वरः ॥ ४९ ॥
यन्मनो हरिपादाब्जे स्वप्ने ज्ञाने दिवानिशम्॥
पूर्वकर्मोपभोगं च बहिर्भुङ्क्ते स वैष्णवः ॥ 4.1.५० ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशत्यलम् ॥
तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः ॥ ५१ ॥
पूर्वान्त्सप्त परान्त्सप्त सप्त मातामहादिकान् ॥
सोदरानुद्धरेद्भक्तः स्वप्रसूं च प्रसूप्रसूम् ॥५२॥
कलत्रं कन्यकां बन्धुं शिष्यं दौहित्रमात्मनः ॥
किङ्करान्किङ्करीश्चैवमुद्धरेद्वैष्णवः सदा ॥ ५३ ॥
सदा वाञ्छति तीर्थानि वैष्णवस्पर्शदर्शने ॥
पापिदत्तानि पापानि तेषां नश्यन्ति सङ्गतः ॥ ५४ ॥
गोदोहनक्षणं यावद्यत्र तिष्ठन्ति वैष्णवाः ॥
तत्र सर्वाणि तीर्थानि सन्ति तावन्महीतले ॥५५॥
ध्रुवं तत्र मृतः पापी मुक्तो याति हरेः पदम् ॥
तथैव ज्ञानगङ्गायामन्ते कृष्णस्मृतौ यथा॥५६॥
तुलसीकानने गोष्ठे श्रीकृष्णमन्दिरे परे॥
वृन्दारण्ये हरिद्वारे तीर्थेष्वन्येषु वा यथा ॥५७॥
पापानि पापिनां यान्ति तीर्थस्नानावगाहनात् ॥
तेषां पापानि नश्यन्ति वैष्णवस्पर्शवायुना ॥५८॥
न हि स्थातुं शक्नुवन्ति पापान्येव कृतानि च ॥
ज्वलदग्नौ यथा क्षिप्रं शुष्काणि हि तृणानि च ॥५९॥
भक्तं वर्त्मनि गच्छन्तं ये ये पश्यन्ति मानवाः॥
सप्तजन्मार्जिताघानि तेषां नश्यन्ति निश्चितम् ॥4.1.६०॥
ये निन्दन्ति हृषीकेशं तद्भक्तं पुण्यरूपिणम् ॥
शतजन्मार्जितं पुण्यं तेषां नश्यति निश्चितम्॥ ६१ ॥
ते पच्यन्ते महाघोरे कुम्भीपाके भयानके ॥
भक्षिताः कीटसङ्घेन यावच्चन्द्रदिवाकरौ ॥ ६२ ॥
तस्य दर्शनमात्रेण पुण्यं नश्यति निश्चितम् ॥
गङ्गां स्नात्वा रविं नत्वा तदा विद्वान्विशुध्यति ॥ ६३ ॥
वैष्णवस्पर्शमात्रेण मुक्तो भवति पातकी ॥
तस्य पापानि हन्त्येव स्वान्तःस्थो मधुसूदनः॥ ॥ ६४ ॥
इत्येवं कथितो विप्र विष्णुवैष्णवयोर्गुणः ॥
अधुना श्रीहरेर्जन्म निबोध कथयामि ते ॥ ६५ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे विष्णुवैष्णवयोर्गुणप्रशंसाप्रस्ताववर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥