नारायण उवाच ॥
स्तुत्वा तां पर्शुरामोऽसौ हर्षसम्फुल्लमानसः ॥
स्तोत्रेण हरिणोक्तेन स तुष्टाव गणाधिपम् ॥ १ ॥
पूजां चकार भक्त्या च नैवेद्यैर्विविधैरपि ॥
धूपैर्दीपैश्च गन्धैश्च पुष्पैश्च तुलसीं विना ॥ २ ॥
सम्पूज्य भ्रातरं भक्त्या स रामः शङ्कराज्ञया ॥
गुरुपत्नीं गुरुं नत्वा गमनं कर्तुमुद्यतः ॥ ३ ॥
नारद उवाच ॥
पूजां भगवतश्चक्रे रामो गणपतेर्यदा ॥
नैवद्यैर्विविधैः पुष्पैस्तुलसीं च विना कथम् ॥ ४ ॥
तुलसी सर्वपुष्पाणां मान्या धन्या मनोहरा ॥
कथं पूजां सारभूतां न गृह्णाति गणेश्वरः ॥ ५ ॥
नारायण उवाच ॥
शृणु नारद वक्ष्येऽहमितिहासं पुरातनम् ॥
ब्रह्मकल्पस्य वृत्तान्तं निगूढं च मनोहरम् ॥६॥
एकदा तुलसी देवी प्रोद्भिन्ननवयौवना ॥
तीर्थं भ्रमन्ती तपसा नारायणपरायणा ॥ ७ ॥
ददर्श गङ्गातीरे सा गणेशं यौवनान्वितम् ॥
अतीव सुन्दरं शुद्धं सस्मितं पीतवाससम् ॥ ८ ॥
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ॥
ध्यायन्तं कृष्णपादाब्जं जन्ममृत्युजरापहम् ॥ ९ ॥
जितेन्द्रियाणां प्रवरं योगीन्द्राणां गुरोर्गुरुम् ॥
सुरूपहार्य्यं निष्कामं सकामा तमुवाच ह ॥ 3.46.१० ॥
तुलस्युवाच ॥
अहो ध्यायसि किं देव शान्तरूप गजानन ॥
कथं लम्बोदरो देहो गजवक्त्रं कथं तव ॥ ११ ॥
एकदन्तः कथं वक्त्रे वदामुत्र च कारणम् ॥
त्यज ध्यानं महाभाग सायङ्काल उपस्थितः ॥ १२ ॥
इत्युक्त्वा तुलसी देवी प्रजहास पुनः पुनः ॥
परं चेतसि दग्धा सा कामबाणैः सुदारुणैः ॥ १३ ॥
गणेशस्य प्रधानाङ्गे दत्त्वा किञ्चिज्जलं मुने ॥
जघान तर्जन्यग्रेण निष्पन्दं कृष्णमानसम् ॥ १४ ॥
बभूव ध्यानभग्नं च तस्य नारद चेतनम् ॥
दुःखं च ध्यानभेदेन तद्विच्छेदो हि शोकदः ॥ १५ ॥
ध्यानं त्यक्त्वा हरिं स्मृत्वा चापश्यत्कामिनीं पुरः ॥
नवयौवनसम्पन्नां सस्मितां कामपीडिताम् ॥ ॥ १६ ॥
लम्बोदरश्च तां दृष्ट्वा परं विनयपूर्वकम् ॥
उवाच सस्मितः शान्तः शान्तां कामातुरां वशी ॥ १७ ॥
गणेश्वर उवाच ॥
का त्वं वत्से कस्य कन्या मातर्मा ब्रूहि किं शुभे ॥
पापदोऽशुभदः शश्वद्ध्यानभङ्गस्तपस्विनाम् ॥ १८ ॥
कृष्णः करोतु कल्याणं हन्तु विघ्नं कृपानिधिः ॥
तद्ध्यानभङ्गजाद्दोषान्नाशुभं स्यात्तु ते शुभे ॥ १९ ॥
गणेशवचनं श्रुत्वा तमुवाच स्मरातुरा ॥
सस्मितं सकटाक्षं च देवं मधुरया गिरा ॥ 3.46.२० ॥
तुलस्युवाच ॥
धर्मात्मजस्य कन्याऽहमप्रौढा च तपस्विनी ॥
तपस्या मे स्वामिनोऽर्थे त्वं स्वामी भव मे प्रभो ॥ २१ ॥
तुलसीवचनं श्रुत्वा गणेशः श्रीहरिं स्मरन् ॥
तामुवाच महाप्राज्ञः प्राज्ञीं मधुरया गिरा ॥ २२ ॥
गणेश उवाच ॥
हे मातर्नास्ति मे वाच्छा घोरे दारपरिग्रहे ॥
दारग्रहो हि दुःखाय न सुखाय कदाचन ॥ २३ ॥
हरिभक्तेर्व्यवायश्च तपस्यानाशकारकः ॥
मोक्षद्वारकपाटश्च भवबन्धनपाशकः ॥ २४ ॥
गर्भवासकरः शश्वत्तत्त्वज्ञाननिकृन्तकः ॥
संशयानां समारम्भो यस्त्याज्यो वृषलैरपि ॥ २५ ॥
गेहोऽयं कारणानां च सर्वमायाकरण्डकम् ॥
साहसानां समूहश्च दोषाणां च विशेषतः ॥ २६ ॥
निवर्तस्व महाभागे पश्यान्यं कामुकं पतिम् ॥
कामुकेनैव कामुक्याः सङ्गमो गुणवान्भवेत ॥ २७ ॥
इत्येवं वचनं श्रुत्वा कोपात्सा तं शशाप ह ॥
दारास्ते भविताऽसाध्वी गणेश्वर न संशयः ॥ २८ ॥
इत्याकर्ण्य सुरश्रेष्ठस्तां शशाप शिवात्मजः ॥
देवि त्वमसुरग्रस्ता भविष्यसि न संशयः ॥ २९ ॥
तत्पश्चान्महतां शापाद्वृक्षस्त्वं भवितेति च ॥
महातपस्वीत्युक्त्वा तां विरराम च नारद ॥ 3.46.३० ॥
शापं श्रुत्वा तु तुलसी सा रुरोद पुनः पुनः ॥
तुष्टाव च सुरश्रेष्ठं स प्रसन्न उवाच ताम् ॥ ३१ ॥
गणेश्वर उवाच ॥
पुष्पाणां सारभूता त्वं भविष्यसि मनोरमे ॥
कलांशेन महाभागे स्वयं नारायणप्रिया ॥ ३२ ॥
प्रिया त्वं सर्वदेवानां श्रीकृष्णस्य विशेषतः ॥
पूजा विमुक्तिदा नॄणां मया भोग्या न नित्यशः ॥ ३३’॥
इत्युक्त्वा तां सुरश्रेष्ठो जगाम तपसे पुनः ॥
हरेराराधनव्यग्रो बदरीसन्निधिं ययौ ॥ ३४ ॥
जगाम तुलसी देवी हृदयेन विदूयता ॥
निराहारा तपश्चक्रे पुष्करे लक्षवर्षकम् ॥ ३५ ॥
पश्चान्मुनीन्द्रशापेन गणेशस्य च नारद ॥
सा प्रिया शङ्खचूडस्य बभूव सुचिरं मुने ॥ ३६ ॥
ततः शङ्करशूलेन स ममारासुरेश्वरः ॥
सा कलांशेन वृक्षत्वं ययौ नारायणप्रिया ॥ ३७ ॥
कथितश्चेतिहासस्ते श्रुतो धर्ममुखात्पुरा ॥
मोक्षप्रदश्च सारश्च पुराणेन प्रकीर्तितः ॥ ३८ ॥
ततः परशुरामोऽसौ जगाम तपसे वनम् ॥
प्रणम्य शङ्करं दुर्गां सम्पूज्य च गणेश्वरम् ॥ ३९ ॥
पूजितो वन्दितः सर्वैः सुरेन्द्रमुनिपुङ्गवैः ॥
पार्वतीशिवसान्निध्ये सुखं तस्थौ गणेश्वरः ॥ 3.46.४० ॥
इदं गणपतेः खण्डं यः शृणोति समाहितः ॥
स राजसूययज्ञस्य फलमाप्नोति निश्चितम् ॥ ४१ ॥
अपुत्रो लभते पुत्रं श्रीगणेशप्रसादतः ॥
धीरं वीरं च धनिनं गुणिनं चिरजीविनम् ॥ ४२ ॥
यशस्विनं पुत्रिणं च विद्वांसं सुकवीश्वरम् ॥
जितेन्द्रियाणां प्रवरं दातारं सर्वसम्पदाम् ॥ ४३ ॥
सुशीलं च सदाचारं प्रशंस्यं वैष्णवं लभेत् ॥
अहिंसकं दयालुं च तत्त्वज्ञानविशारदम् ॥ ४४ ॥
भक्त्या गणेशं सम्पूज्य वस्त्रालङ्कारचन्दनैः ॥
श्रुत्वा गणपतेः खण्डं महावन्ध्या प्रसूयते ॥ ४९ ॥
मृतवत्सा काकवन्ध्या ब्रह्मन्पुत्रं लभेद्ध्रुवम् ॥
अदूष्यदूषणपरा शुद्धा चैव लभेत्सुतम् ॥ ४६ ॥
सम्पूर्णं ब्रह्मवैवर्तं श्रुत्वा यल्लभते फलम् ॥
तत्फलं लभते मर्त्यः श्रुत्वेदं खण्डमुत्तमम्॥४७॥
वाञ्छां कृत्वा तु मनसि शृणोति परमास्थितः॥
तस्मै ददाति सर्वेष्टं सुरश्रेष्ठो गणेश्वरः ॥४८॥
श्रुत्वा गणपतेः खण्डं विघ्ननाशाय यत्नतः ॥
स्वर्णयज्ञोपवीतं च श्वेतच्छत्रं च माल्यकम् ॥ ४९ ॥
प्रदीयते वाचकाय स्वस्तिकं तिललड्डुकान् ॥
परिपक्वफलान्येव देशकालोद्भवानि च ॥3.46.५०॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामागमनैतत्खण्डश्रवणफलवर्णनं नाम षट्चत्वारिंशत्तमोऽध्यायः ॥ ४६ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीयं गणपतिखण्डं समाप्तम् ॥