०४४

पार्वत्युवाच ॥
सर्वे जानन्ति जगति दुर्गां शङ्करकिङ्करीम् ॥
अपेक्षा रहिता दासी तस्या वै जीवनं वृथा ॥ १ ॥
ईश्वरस्य समाः सर्वास्तृणपर्वतजातयः ॥
दासीपुत्रस्य शिष्यस्य दोषः कस्येति च प्रभो ॥ २ ॥
विचारं कर्तुमुचितं त्वं च धर्मविदां वरः ॥
वीरभद्रः कार्त्तिकेयः पार्षदाः सन्ति साक्षिणः ॥३॥
साक्ष्ये मिथ्यां को वदेद्वा द्वावेषां भ्रातरौ समौ ॥
साक्ष्ये समे शत्रुमित्रे सतां धर्मनिरूपणे ॥ ४ ॥
साक्षी सभायां यत्साक्ष्यं जानन्नप्यन्यथा वदेत् ॥
कामतः क्रोधतो वाऽपि लोभेन च भयेन च ॥ ५ ॥
स याति कुम्भीपाकं च निपात्य शतपूरुषम् ॥
तैश्च सार्द्धं वसेत्तत्र यावच्चन्द्रदिवाकरम् ॥ ६ ॥
अहं विबोधितुं शक्ता यन्निर्णेत्री द्वयोरपि ॥
तथाऽपि तव साक्षात्तु ममाज्ञा निन्दिता श्रुतौ ॥ ७ ॥
किङ्कराणां प्रभा तत्र नृपे वसति संसदि ॥
उदिते भास्करे पृथ्व्यां खद्योतो हि यथा प्रभो ॥ ८ ॥
सुचिरं तपसा प्राप्तं त्वदीयं चरणाम्बुजम् ॥
परित्यागभयेनैव सन्ततं भीतया मया ॥ ९ ॥
यत्किञ्चित्कोपशोकाभ्यामुक्तं मोहेन तत्परम्॥
तत्क्षमस्व जगन्नाथ पुत्रस्नेहाच्च दारुणात् ॥ 3.44.१० ॥
त्वया यदि परित्यक्ता तदा पुत्रेण तेन किम् ॥
साध्व्याः सद्वंशजायाश्च शतपुत्राधिकः पतिः ॥ ११ ॥
असद्वंशप्रसूता या दुश्शीला ज्ञानवर्जिता ॥
स्वामिनं मन्यते नासौ पित्रोर्दोषेण कुत्सिता ॥ १२ ॥
कुत्सितं पतितं मूढं दरिद्रं रोगिणं जडम् ॥
कुलजा विष्णुतुल्यं च कान्तं पश्यति सन्ततम् ॥ १३ ॥
हुताशनो वा सूर्य्यो वा सर्वतेजस्विनां वरः ॥
पतिव्रतातेजसश्च कलां नार्हन्ति षोडशीम्॥१४॥
महादानानि पुण्यानि व्रतान्यनशनानि च ॥
तपांसि पतिसेवायाः कलां नार्हन्ति षोडशीम्॥१५॥
पुत्रोवाऽपि पिता वाऽपि बान्धवोऽथ सहोदरः ॥
योषितां कुलजातानां न कश्चित्स्वामिनः समः ॥ १६ ॥
इत्युक्त्वा स्वामिनं दुर्गा ददर्श पुरतो भृगुम् ॥
शम्भोः पदाब्जं सेवन्तं निर्भयं तमुवाच ह॥१७॥
पार्वत्युवाच ॥
अहो राम महाभाग ब्रह्मवंश्योऽसि पण्डितः ॥
पुत्रोऽसि जमदग्नेश्च शिष्यो वै योगिनां गुरोः ॥१८॥
माता ते रेणुका साध्वी पद्मांशा सत्कुलोद्भवा ॥
मातामहो वैष्णवश्च मातुलश्च ततोऽधिकः ॥ । ॥ १९ ॥
त्वं च रेणुकभूपस्य मनुवंशोद्भवस्य च ॥
दौहित्रो मातुलः साधुः शूरो विष्णुपदाश्रयः ॥ 3.44.२० ॥
कस्य दोषेण दुर्द्धर्षस्त्वं न जानेऽप्यशुद्धधीः ॥
येषां दोषैर्जनो दुष्टस्तमृते शुद्धमानसः ॥ २१ ॥
अमोघं प्राप्य पर्शुं च गुरुं च करुणानिधिम् ॥
परीक्षां क्षत्त्रिये कृत्वा बभूवास्य सुते पुनः ॥ २२ ॥
गुरवे दक्षिणादानमुचितं च श्रुतौ श्रुतम् ॥
भग्नो दन्तस्तत्सुतस्य च्छिन्धि मस्तकमप्यहो ॥२३॥
गणेश्वरं रणे जित्वा स्थितश्चेदावयोः पुरः ॥
स त्वं लब्ध्वाऽऽशिषो लोके पूजितोऽभूर्जगत्त्रये॥२४॥
पर्शुनाऽमोघवीर्य्येण शङ्करस्य वरेण च ॥
हन्तुं शक्तः सृगालश्च सिंहं शार्दूलमाखुभुक्॥२५॥
त्वद्विधं लक्षकोटिं च हन्तुं शक्तो गणेश्वरः ॥
जितेन्द्रियाणां प्रवरो नहि हन्ति च मक्षिकाम् ॥ २६ ॥
तेजसा कृष्णतुल्योऽयं कृष्णांशश्च गणेश्वरः ॥
देशश्चान्ये कृष्णकलाः पूजाऽस्य पुरतस्ततः ॥ २७ ॥
व्रतप्रभावतः प्राप्तः शङ्करस्य वरेण च ॥
शोकेनातिकठोरेण नहि सम्पद्विनाऽऽपदम् ॥ २८ ॥
इत्युक्त्वा पार्वती रोषात्तं रामं हन्तुमुद्यता ॥
रामः सस्मार तं कृष्णं प्रणम्य मनसा गुरुम् ॥२९॥
एतस्मिन्नन्तरे दुर्गा ददर्श पुरतो द्विजम् ॥
अतीव वामनं बालं सूर्य्यकोटिसमप्रभम्॥ 3.44.३० ॥
शुक्लदन्तं शुक्लवासं शुक्लयज्ञोपवीतिनम् ॥
दण्डिनं छत्रिणं चैव सुप्रभं तिलकोज्ज्वलम्॥ ॥ ३१ ॥
दधतं तुलसीमालां सस्मितं सुमनोहरम् ॥
रत्नकेयूरवलयं रत्नमालाविभूषितम् ॥ ३२ ॥
रत्ननूपुरपादं च सद्रत्नमुकुटोज्ज्वलम् ॥
रत्नकुण्डलयुग्माढ्यगण्डस्थलविराजितम् ॥ ३३ ॥
स्थिरमुद्रां दर्शयन्तं भक्तवामकरेण च ॥
दक्षिणेऽभयमुद्रां च भक्तेशं भक्तवत्सलम् ॥ ३४ ॥
बालिकाबालकगणैर्नागरैः सस्मितैर्युतम् ॥
कैलासवासिभिः सर्वैरावृद्धैरीक्षितं मुदा ॥ ३९ ॥
तं दृष्ट्वा सम्भ्रमाच्छम्भुः सभृत्यः सहपुत्रकः ॥
मूर्ध्ना भक्त्या प्राणमच्च दुर्गायै दण्डवद्भुवि ॥ ३६ ॥
आशिषं प्रददौ बालः सर्वेभ्यो वाञ्छितप्रदाम् ॥
तं दृष्ट्वा बालकाः सर्वे महाश्चर्य्यं ययुर्भिया ॥ ३७ ॥
दत्त्वा तस्मै शिवो भक्त्या तूपचारांस्तु षोडश ॥
पूजां चकार श्रुत्युक्तां परिपूर्णतमस्य च ॥ ३८ ॥
तुष्टाव काण्वशाखोक्तस्तोत्रेण नतकन्धरः ॥
पुलकाङ्कितसर्वाङ्गो भगवन्तं सनातनम् ॥ ॥ ३९ ॥
रत्नसिंहासनस्थं च प्रावोचच्छङ्करः स्वयम् ॥
अतीव तेजसाऽत्यन्तं प्रच्छन्नाकृतिमेव च ॥ 3.44.४० ॥
शङ्कर उवाच ॥
आत्मारामेषु कुशलप्रश्नोऽतीव विडम्बनम् ॥
ते शश्वत्कुशलाधाराः कुशलाः कुशलप्रदाः ॥ ४१ ॥
अयने सफलं जन्म जीवितं च सुजीवितम् ॥
प्राप्तस्त्वमतिथिब्रह्मन्कृष्णसेवाफलोदयात् ॥ ४२ ॥
परिपूर्णतमः कृष्णो लोकनिस्तारहेतवे ॥
पुण्यक्षेत्रे हि कलया भारते च कृपानिधिः ॥ ४३ ॥
अतिथिः पूजितो येन पूजिताः सर्वदेवताः ॥
अतिथिर्यस्य सन्तुष्टस्तस्य तुष्टो हरिः स्वयम् ॥४४॥
स्नानेन सर्वतीर्थेषु सर्वदानेन यत्फलम् ॥
सर्वव्रतोपवासेन सर्वयज्ञेषु दीक्षया ॥ ४५’ ॥
सर्वैस्तपोभिर्विविधैर्नित्यैर्नैमित्तिकादिभिः ॥
तदेवातिथिसेवायाः कलां नार्हन्ति षोडशीम् ॥ ४६ ॥
अतिथिर्यस्य भग्नाशो याति रुष्टश्च मन्दिरात् ॥
कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम् ॥ ४७ ॥
स्त्रीगोघ्नश्च कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ॥
पितृमातृगुरूणां च निन्दको नरघातकः ॥ ४८ ॥
सन्ध्याहीनः स्वघाती च सत्यघ्नो हरिनिन्दकः ॥
ब्रह्मस्वस्थाप्यहारी च मिथ्यासाक्ष्यप्रदायकः ॥ ४९ ॥
मित्रद्रोही कृतघ्नश्च वृषवाहश्च सूपकृत् ॥
शवदाही ग्रामयाजी ब्राह्मणो वृषलीपतिः ॥ 3.44.५० ॥
शूद्रश्राद्धान्नभोजी च शूद्रश्राद्धेषु भोजकः ॥
कन्याविक्रयकारी च श्रीहरेर्नामविक्रयी ॥ ५१ ॥
लाक्षामांसतिलानां च लवणस्य तिलस्य च ॥
विक्रेता ब्राह्मणश्चैव तुरगाणां गवां तथा ॥ ५२ ॥
एकादशीकृष्णसेवाहीनो विप्रश्च भारते॥
एते महापातकिनस्त्रिषु लोकेषु निन्दिताः॥५३॥
कालसूत्रे च नरके पतन्ति ब्रह्मणां शतम् ॥
एतेभ्योऽप्यधिकः सोऽपि यश्चातिथिपराङ्मुखः ॥ ५४ ॥
नारायण उवाच ॥
शङ्करस्य वचः श्रुत्वा सन्तुष्टः श्रीहरिः स्वयम् ॥
मेघगम्भीरया वाचा तमुवाच जगत्पतिः ॥ ९५ ॥
विष्णुरुवाच ॥ श्वेतद्वीपादागतोऽहं ज्ञात्वा कोलाहलं च वः ॥
अस्य रामस्य रक्षार्थं कृष्णभक्तस्य साम्प्रतम् ॥ ५६ ॥
नैतेषां कृष्णभक्तानामशुभं विद्यते क्वचित् ॥
रक्षामि तांश्चक्रहस्तो गुरुमन्यं विना शिव ॥ ५७ ॥
नाहं पाता गुरौ रुष्टे बलवद्गुरुहेलनम् ॥
तत्परः पातकी नास्ति सेवाहीनो गुरोश्च यः ॥ ५८ ॥
मान्यः पूज्यश्च सर्वेभ्यः सर्वेषां जनको भवेत् ॥
अहो यस्य प्रसादेन सर्वान्पश्यति मानवः ॥ ५९ ॥
जनको जन्मदानाच्च पालनाच्च पिता नृणाम् ॥
ततो विस्तारकरणात्कलया स प्रजापतिः ॥ 3.44.६० ॥
पितुः शतगुणं माता पोषणाद्गर्भधारणात् ॥
वन्द्या पूज्या च मान्या च प्रसूस्स्याद्वै वसुन्धरा ॥ ६१ ॥
मातुः शतगुणं वन्द्यः पूज्यो मान्योऽन्नदायकः ॥
यद्विना नश्वरो देहो विष्णुश्च कलयाऽन्नदः ॥ ६२ ॥
अन्नदातुः शतगुणोऽभीष्टदेवः परः स्मृतः ॥
गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः ॥ ६३ ॥
अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा ॥
यः सर्वार्थं दर्शयति तत्परो नैव बान्धवः ॥६४॥
गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत्॥
सर्वज्ञत्वं सर्वसिद्धिं तत्परो नैव बान्धवः॥६५॥
सर्वं जयति सर्वत्र विद्यया गुरुदत्तया ॥
तस्मात्पूज्यो हि जगति को वा बन्धुस्ततोऽधिकः ॥ ६६ ॥
विद्यान्धो वा धनान्धो वा यो मूढो न भजेद्गुरुम् ॥
ब्रह्महत्यादिभिः पापैः स लिप्तो नात्र संशयः ॥ ६७ ॥
दरिद्रं पतितं क्षुद्रं नरबुद्ध्याऽऽचरेद्गुरुम् ॥
तीर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ॥ ६८ ॥
पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् ॥
यो न पुष्णाति कापट्यात्स महापातकी शिव ॥ ६९ ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ॥
गुरुरेव परं ब्रह्म गुरुर्भास्कररूपकः ॥ 3.44.७० ॥
गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः ॥
सर्वरूपो हि भगवान्परमात्मा स्वयं गुरुः ॥ ७१ ॥
नास्ति वेदात्परं शास्त्रं नहि कृष्णात्परः सुरः ॥
नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीदलात् ॥ ७२ ॥
नास्ति क्षमावती भूमेः पुत्रान्नास्त्यपरः प्रियः ॥
न च दैवात्परा शक्तिर्नैकादश्याः परं व्रतम् ॥ ७३ ॥
शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात्परम् ॥
परं पुण्यस्थलानां च पुण्यं वृन्दावनं यथा ॥ ७४ ॥
मोक्षदानां यथा काशी वैष्णवानां यथा शिवः ॥
न पार्वत्याः परा साध्वी न गणेशात्परो वशी ॥७५॥
न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः ॥
विद्यादातुः पुत्रदारौ तत्समौ नात्र संशयः ॥ ७६ ॥
गुरुस्त्रियां च पुत्रे चाप्यभवद्रामहेलनम् ॥
परं सम्मार्जनं कर्तुमागतोऽहं तवालयम् ॥ ७७ ॥
नारायण उवाच ॥
इत्येवमुक्त्वा शम्भुं च दुर्गां सम्बोध्य नारद ॥
उवाच भगवांस्तत्र सत्यसारं परं वचः ॥ ७८ ॥
श्रीविष्णुरुवाच ॥
शृणु देवि प्रवक्ष्यामि मदीयं वचनं शुभम् ॥
नीतियुक्तं वेदसारं परिणामसुखावहम् ॥ ७९ ॥
यथा ते गजवक्त्रश्च कार्त्तिकेयश्च पार्वति ॥ ।
तथा परशुरामश्च भार्गवो नात्र संशयः ॥ 3.44.८० ॥
नास्त्येषु स्नेहभेदश्च तव वा शङ्करस्य च ॥
विचार्य्य सर्वं सर्वज्ञे कुरु मातर्यथोचितम् ॥ ८१ ॥
पुत्रेण सार्द्धं पुत्रस्य विवादो दैवदोषतः ॥
दैवं हन्तुं को हि शक्तो दैवं च बलवत्तरम् ॥ ८२ ॥
पुत्राभिधानं वेदेषु पश्य वत्से वरानने ॥
एकदन्त इति ख्यातं सर्वदेवनमस्कृतम् ॥ ८३ ॥
पुत्रनामाष्टकं स्तोत्रं सामवेदोक्तमीश्वरि ॥
शृणुष्वावहितं मातः सर्वविघ्नहरं परम् ॥ ८४ ॥
विष्णुरुवाच ॥
गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् ॥
लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥ ८५ ॥
अष्टाख्यार्थं च पुत्रस्य शृणु मातर्हरप्रिये ॥
स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥ ८६ ॥
ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ॥
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ ८७ ॥
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ॥
बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ॥ ८८ ॥
दीनार्थवाचको हेश्च रम्बः पालकवाचकः ॥
पालकं दीनलोकानां हेरम्बं प्रणमाम्यहम् ॥ ८९ ॥
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ॥
विपत्खण्डनकारं तं प्रणमे विघ्ननायकम् ॥ ॥ 3.44.९० ॥
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बं पुरोदरम् ॥
पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम् ॥ ९१ ॥
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारकौ ॥
सम्पद्दौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ॥९२॥
विष्णुप्रसादं मुनिना दत्तं यन्मूर्ध्नि पुष्पकम् ॥
तद्गजेन्द्रमुखं कान्तं गजवक्त्रं नमाम्यहम् ॥९३ ॥
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये ॥
वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम्॥ ॥ ९४ ॥
एतन्नामाष्टकं दुर्गे नानाशक्तियुतं परम् ॥
एतन्नामाष्टकं स्तोत्रं नानार्थसहितं शुभम् ॥ ९५ ॥
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥
ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ॥ ९६ ॥
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥
पुत्रार्थी लभते पुत्रं भार्य्यार्थी कुशलां स्त्रियम् ॥९७॥
महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ॥
पुत्रस्त्वं पश्य वेदे च तथा कोपं च नो कुरु॥ ॥ ९८ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशस्तोत्रकथनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥