०४३

नारायण उवाच ॥
गणेशवचनं श्रुत्वा स तदा रागतः सुधीः ॥
पर्शुहस्तस्स वै रामो निर्भयो गन्तुमुद्यतः ॥ १ ॥
गणेश्वरस्तदा दृष्ट्वा शीघ्रमुत्थाय यत्नतः ॥
वारयामास स प्रीत्या चकार विनयं पुनः ॥ २ ॥
रामस्तं प्रेरयामास हुं कृत्वा तु पुनः पुनः ॥
बभूव च ततस्तत्र वाग्युद्धं हस्तकर्षणैः ॥ ३ ॥
पर्शुनिक्षेपणं कर्तुं मनश्चक्रे भृगुस्तदा ॥
हाहा कृत्वा कार्तिकेयो बोधयामास संसदि ॥ ४ ॥
अव्यर्थमस्त्रं हे भ्रातर्गुरुपुत्रे कथं क्षिपेः ॥
गुरुवद्गुरुपुत्रं च मा भवान्हन्तुमर्हति ॥ ९ ॥
पर्शुं क्षिपन्तं कुपितं रक्तपद्मदलेक्षणम् ॥
गणेशो रोधयामास निवर्त्तस्वेत्युवाच तम् ॥ ६ ॥
पुनर्गणेशं रामश्च प्रेरयामास कोपतः ॥
पपात पुरतो वेगान्मानहीनो गजाननः ॥ ७ ॥
गजाननः समुत्थाय धर्मं कृत्वा तु सक्षिणम् ॥
पुनस्तं बोधयामास जितक्रोधः शिवात्मजः ॥ ८ ॥
निवर्तस्व निवर्त्तस्वेत्युच्चार्य्य च पुनः पुनः ॥
प्रवेशने ते का शक्तिरीश्वराज्ञां विना प्रभो ॥ ९ ॥
मम भ्राता त्वमतिथिर्विद्यासम्बन्धतो ध्रुवम् ॥
ईश्वरप्रियशिष्यश्च सोढं वै तेन हेतुना ॥ 3.43.१० ॥
न ह्यहं कार्त्तवीर्य्यश्च भूपास्ते क्षुद्रजन्तवः ॥
अतो विप्र न जानासि मां च विश्वेश्वरात्मजम् ॥ ११ ॥
क्षणं तिष्ठ निवर्त्तस्व समरे ब्राह्मणातिथे ॥
क्षणान्तरे त्वया सार्द्धं यास्यामीश्वरसन्निधिम् ॥ १२ ॥
नारायण उवाच ॥
हेरम्बवचनं श्रुत्वा प्रजहास पुनः पुनः॥
पर्शुं क्षेप्तुं मनश्चक्रे प्रणम्य हरिशङ्करौ ॥१३॥
पर्शुं क्षिपन्तं कोपेन तं च रामं गजाननः ॥
दृष्ट्वा मुमूर्षुं देवेशो धर्मं कृत्वा तु साक्षिणम् ॥ १४ ॥
योगेन वर्द्धयामास शुण्डां तां कोटियोजनाम् ॥
योगीन्द्रस्तत्र सन्तिष्ठन्भ्रामयित्वा पुनः पुनः ॥ १५ ॥
शतधा वेष्टयित्वा तु भ्रामयित्वा तु तत्र वै ॥
ऊर्द्ध्वमुत्तोल्य वेगेन क्षुद्राहिं गरुडो यथा ॥ १६ ॥
सप्तद्वीपांश्च शैलांश्च मेरुं चाखिलसागरान् ॥
क्षणेन दर्शयामास रामं योगपराहतम् ॥ १७ ॥
हस्तपादाद्यनाथं तं जडं सर्वाङ्गकम्पितम् ॥
पुनस्तं भ्रामयामास दर्पितं दर्पनाशनः ॥ १८ ॥
भूर्लोकं च भुवर्लोकं स्वर्लोकं च सुरेश्वरः ॥
जनोलोकं तपोलोकं ध्रुवलोकं च तत्परम् ॥ १९ ॥
गौरीलोकं शम्भुलोकं दर्शयामास नारद ॥
दर्शयित्वा तु विध्यण्डं स पपौ सप्त सागरान् ॥ 3.43.२० ॥
पुनरुद्गिरणं चक्रे सनक्रमकरोदकम् ॥
तत्र तं पातयामास गम्भीरे सागरोदके ॥ २१ ॥
मुमूर्षुं तं सन्तरन्तं पुनर्जग्राह लीलया ॥
पुनस्तत्र भ्रामयित्वा ब्रह्माण्डादूर्द्ध्वमप्यमुम् ॥ २२ ॥
वैकुण्ठं दर्शयामास सलक्ष्मीकं चतुर्भुजम् ॥
क्षणं तत्र भ्रामयित्वा योगीन्द्रो योगमायया ॥ २३ ॥
पुनः करं च योगेन वर्द्धयामास लीलया ॥
गोलोकं दर्शयामास विरजां च नदीश्वरीम् ॥ २४ ॥
वृन्दावनं शृङ्गशतं शैलेन्द्रं रासमण्डलम् ॥
गोपीगोपादिभिः सार्द्धं श्रीकृष्णं श्यामसुन्दरम् ॥ २५ ॥
द्विभुजं मुरलीहस्तं सस्मितं सुमनोहरम् ॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥ २६ ॥
तेजसा कोटिसूर्य्याभं राधावक्षःस्थलस्थितम् ॥
एवं कृष्णं दर्शयित्वा प्रणमय्य पुनः पुनः ॥ २७ ॥
क्षणेन लम्बमानं च भ्रामयित्वा पुनः पुनः ॥
दृष्ट्वा कृष्णं चेष्टदेवं सर्वपापप्रणाशनम् ॥
भ्रूणहत्यादिकं पापं भृगोर्दूरं चकार ह ॥ २८ ॥
न भवेद्यातना नष्टा विना भोगेन पापजा ॥
स्वल्पां च बुभुजे रामो गताऽन्या कृष्णदर्शनात् ॥ २९ ॥
क्षणेन चेतनां प्राप्य भुवि वेगात्पपात ह ॥
बभूव दूरीभूतं च गणेशस्तम्भनं भृगोः ॥ 3.43.३० ॥
सस्मार कवचं स्तोत्रं गुरुदत्तं सुदुर्लभम् ॥
अभीष्टदेवं श्रीकृष्णं गुरुं शम्भुं जगद्गुरुम् ॥ ३१ ॥
चिक्षेप पर्शुमव्यर्थं शिवतुल्यं च तेजसा ॥
ग्रीष्ममध्याह्नमार्तण्डप्रभाशतगुणं मुने ॥ ३२ ॥
पितुरव्यर्थमस्त्रं च दृष्ट्वा गणपतिः स्वयम् ॥
जग्राह वामदन्तेन नास्त्रं व्यर्थं चकार ह ॥ ३३ ॥
निपात्य पर्शुर्वेगेन च्छित्त्वा दन्तं समूलकम् ॥
जगाम रामहस्तं च महादेवबलेन च ॥ ३४ ॥
हाहेति शब्दमाकाशे देवाश्चक्रुर्महाभिया ॥
वीरभद्रः कार्त्तिकेयः क्षेत्रपालाश्च पार्षदाः ॥ ॥ ३५ ॥
पपात भूमौ दन्तश्च सरक्तः शब्दयंस्तदा ॥
पपात गैरिकायुक्तो यथा स्फटिकपर्वतः ॥३६॥
शब्देन महता विप्र चकम्पे पृथिवी भिया ॥
कैलासस्था जनाः सर्वे मूर्च्छामापुः क्षणं भिया ॥ ३७ ॥
निद्रा बभञ्ज तत्काले निद्रेशस्य जगत्प्रभोः ॥
आजगाम बहिः शम्भुः पार्वत्या सह सम्भ्रमात् ॥३८॥
पुरो ददर्श हेरम्बं लोहितास्यं क्षतेन तम् ॥
भग्नदन्तं जितक्रोधं सस्मितं लज्जितं मुने ॥ ३९ ॥
पप्रच्छ पार्वती शीघ्रं स्कन्दं किमिति पुत्रक ॥
स च तां कथयामास वार्तां पौर्वापरीं भिया ॥ 3.43.४० ॥
चुकोप दुर्गा कृपया रुरोद च मुहुर्मुहुः ॥
उवाच शम्भोः पुरतः पुत्रं कृत्वा स्ववक्षसि ॥ ४१ ॥
सम्बोध्य शम्भुं शोकेन भिया विनयपूर्वकम् ॥
उवाच प्रणता साध्वी प्रणतार्तिहरं पतिम् ॥ ४२ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशदन्तभङ्गकारणवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥