नारायण उवाच ॥
हरेश्च कवचं धृत्वा कृत्वा निः क्षत्रियां महीम् ॥
रामो जगाम कैलासं नमस्कर्तुं शिवं गुरुम्॥॥
गुरुपत्नीं शिवामम्बां द्रष्टुं गुरुसुतौ च तौ ॥
गुणैर्नारायणसमौ कार्त्तिकेयगणेश्वरौ ॥ २ ॥
मनोयायी महात्मा स भृगुस्सम्प्राप्य तत्क्षणम् ॥
ददर्श पर्वतं रम्यमतीव सुमनोहरम् ॥ ३ ॥
शुद्धस्फटिकसङ्काशैर्मणिभिः सुमनोहरैः ॥
सुवर्णभूमिसदृशै राजमार्गैर्विराजितम् ॥ ४ ॥
सिन्दूरारुणवर्णैश्च वेष्टितं मणिवेदिभिः ॥
संयुक्तं मुक्तानिकरैः पूरितं मणिमण्डपैः ॥ ५ ॥
यक्षाणामालयैर्दिव्यैः संयुक्तं शतकोटिभिः ॥
कपाटस्तम्भसोपानैः शोभितैर्मणिनिर्मितैः॥ ॥६॥
सुवर्णकलशैर्दिव्यै राजतैः श्वेतचामरैः॥
रत्नकाञ्चनपूर्णैश्च यक्षेन्द्रगणवेष्टितैः॥७॥
रत्नभूषणभूषाढ्यैर्दीपितैः सुन्दरीगणैः॥
बालिकाभिर्बालकैश्च चित्रपुत्तलिकाकरैः ॥८॥
क्रीडद्भिः सस्मितैः शश्वत्स्वच्छन्दं च विराजितैः ॥
पारिजातद्रुमगणैः स्वर्णदीतीरनीरजैः ॥ ९ ॥
आकीर्णं पुष्पजालैश्च पुष्पितैश्च सुगन्धिभिः ॥
कल्पवृक्षाश्रितैः सिद्धैः कामधेनुपुरस्कृतैः ॥ 3.41.१० ॥
सिद्धविद्यासु निपुणैः पुण्यवद्भिर्निषेवितम् ॥
त्रिलक्षयोजनाच्छायैर्वटवृक्षैरथाक्षयैः ॥ ११ ॥
शतयोजनविस्तीर्णैः शतस्कन्धसमन्वितैः ॥
असङ्ख्यशाखानि करैरसङ्ख्यफलसंयुतैः ॥ १२ ॥
नानापक्षिगणाकीर्णैः सुमनोहरशब्दितैः ॥
कम्पितैः शीतवातेन मण्डितं च सुगन्धिना ॥ १३ ॥
पुष्पोद्यानसहस्रेण सरसां च शतेन च ॥
सिद्धेन्द्रालयलक्षैश्च मणिरत्नविकारजैः ॥ १४ ॥
रामश्च दृष्ट्वा नगरमतिसंहृष्टमानसः ॥
ददर्श पुरतो रम्यं श्रीयुक्तं शङ्करालयम् ॥१५॥
सुवर्णमूल्यशतकैर्मणिभिः स्वर्णवर्णकैः ॥
खचितं रत्नसारैश्च रचितं विश्वकर्मणा ॥ ॥ १६ ॥
त्रिपञ्चयोजनोच्छ्रायं चतुर्योजनविस्तृतम् ॥
चतुरस्रं चतुष्कोणं प्राकारं सुमनोहरम् ॥ १७ ॥
द्वारं रत्नकपाटेन नाना चित्रान्वितेन च ॥
मणीन्द्रवेदिभिर्युक्तं मणिस्तम्भविराजितैः ॥ १८ ॥
तद्दक्षिणे वृषेन्द्रं च वामे सिंहं च नारद ॥
नन्दीश्वरं महाकालं पिङ्गलाक्षं भयङ्करम् ॥१९॥
विशालाक्षं च बाणं च विरूपाक्षं महाबलम् ॥
विकटाक्षं भास्कराक्षं रक्ताक्षं विकटोदरम् ॥ 3.41.२० ॥
संहारभैरवं कालभैरवं च भयङ्करम् ॥
रुरुभैरवमीशाभं महाभैरवमेव च ॥ २१ ॥
कृष्णाङ्गभैरवं चैव क्रोधभैरवमुल्बणम् ॥
कपालभैरवं चैव रुद्रभैरवमेव च ॥ २२ ॥
सिद्धेन्द्रादीन्रुद्रगणान्विद्याधरसुगुह्यकान् ॥
भूतान्प्रेतान्पिशाचांश्च कूष्माण्डान्ब्रह्मराक्षसान्॥२३॥
वेतालान्दानवांश्चैव योगीन्द्रांश्च जटाधरान् ॥
यक्षान्किम्पुरुषांश्चैव किन्नरांश्च ददर्श ह ॥२४॥
तान्दृष्ट्वा नन्दिकेशाज्ञां गृहीत्वा भृगुनन्दनः ॥
तान्सम्भाष्याभ्यन्तरं च जगामानन्दसम्प्लुतः ॥ २५ ॥
रत्नेन्द्रसारखचितं ददर्श शतमन्दिरम् ॥
अमूल्यरत्नकलशैर्ज्वलद्भिश्च विराजितम् ॥ २६ ॥
अमूल्यरत्नरचितैर्मुक्तानिर्म्मलदर्पणैः ॥
हीरसारविकारैश्च कपाटैश्च विराजितम् ॥ ॥ २७ ॥
गोरोचनाभिर्मणिभिर्युतं स्तम्भसहस्रकैः ॥
मणिसारविकारैश्च सोपानैः परिशोभितम् ॥ २८ ॥
ददर्शाभ्यन्तरं द्वारं नानाचित्रैश्च चित्रितम् ॥
माणिक्यमुक्ताग्रथितैर्मालाजालैर्विराजितम् ॥ २९ ॥
ददर्श कार्त्तिकेयं च वामे दक्षे गणेश्वरम् ॥
वीरभद्रं महाकायं शिवतुल्यपराक्रमम् ॥ 3.41.३० ॥
प्रधानपार्षदगणान्क्षेत्रपालांश्च नारद ॥
रत्नसिंहासनस्थांश्च रत्नभूषणभूषितान्॥ ॥ ३१ ॥
तान्सम्भाष्य भृगुः शीघ्रं महाबलपराक्रमः ॥
पर्शुहस्तस्स परशुरामो गन्तुं समुद्यतः ॥ ३२ ॥
गच्छन्तं तं गणेशश्च क्षणं तिष्ठेत्युवाच ह ॥
निद्रितो निद्रया युक्तो महादेवोऽधुनेति च ॥ ३३ ॥
ईश्वराज्ञां गृहीत्वाऽहमत्रागत्य क्षणान्तरे ॥
त्वया सार्द्धं गमिष्यामि भ्रातस्तिष्ठात्र साम्प्रतम्॥३४॥
गणेशवाक्यं परशुरामश्श्रुत्वा महाबलः ॥
बृहस्पतिसमो वक्ता प्रवक्तुमुपचक्रमे॥ ॥३५॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कैलासवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥