०४०

नारायण उवाच ॥
तं गृहीत्वा तदा विष्णौ वैकुण्ठं च गते सति॥
सपुत्रं च सहस्राक्षं जघान भृगुनन्दनः॥१॥
कृत्वा युद्धं तु सप्ताहं ब्रह्मास्त्रेण प्रयत्नतः ॥
राजा कवचहीनोऽपि सपुत्रश्च पपात ह॥
पतिते तु सहस्राक्षे कार्तवीर्य्यार्जुनः स्वयम्॥
आजगाम महावीरो द्विलक्षाक्षौहिणीयुतः॥ ॥३॥
सुवर्णरथमारुह्य रत्नसारपरिच्छदम् ॥
नानास्त्रं परितः कृत्वा तस्थौ समरमूर्द्धनि॥४॥
समरे तं परशुरामो राजेन्द्रं च ददर्श ह ॥
रत्नालङ्कारभूषाढ्यै राजेन्द्राणां च कोटिभिः ॥५॥
रत्नातपत्रभूषाढ्यं रत्नालङ्कारभूषितम् ॥
चन्दनोक्षितसर्वाङ्गं सस्मितं सुमनोहरम् ॥ ६ ॥
राजा दृष्ट्वा मुनीन्द्रं तमवरुह्म रथादहो ॥
प्रणम्य रथमारुह्य तस्थौ नृपगणैः सह ॥ ७ ॥
ददौ शुभाशिषं तस्मै रामश्च समयोचितम् ॥
प्रोवाच च गतार्थं तं स्वर्गं गच्छेति सानुगः॥८॥
उभयोः सेनयोर्युद्धमभवत्तत्र नारद ॥
पलायिता रामशिष्या भ्रातरश्च महाबलाः ॥
क्षतविक्षतसर्वाङ्गाः कार्त्तवीर्य्यप्रपीडिताः ॥ ९ ॥
नृपस्य शरजालेन रामः शस्त्रभृतां वरः ॥
न ददर्श स्वसैन्यं च राजसैन्यं तथैव च ॥ 3.40.१० ॥
चिक्षेप रामश्चाग्नेयं बभूवाग्निमयं रणे ॥
निर्वापयामास राजा वारुणेनैव लीलया ॥ ११ ॥
चिक्षेप रामो गान्धर्वं शैलसर्पसमन्वितम् ॥
वायव्येन महाराजः प्रेरयामास लीलया ॥ १२ ॥
चिक्षेप रामो नागास्त्रं दुर्निवार्य्यं भयङ्करम् ॥
गारुडेन महाराजः प्रेरयामास लीलया ॥ १३ ॥
माहेश्वरं च भगवांश्चिक्षेप भृगुनन्दनः ॥
निर्वापयामास राजा वैष्णवास्त्रेण लीलया ॥ १४ ॥
ब्रह्मास्त्रं चिक्षिपे रामो नृपनाशाय नारद ॥
ब्रह्मास्त्रेण च शान्तं तत्प्राणनिर्वापणं रणे ॥ १५ ॥
दत्तदत्तं च यच्छूलमव्यर्थं मन्त्रपूर्वकम् ॥
जग्राह राजा परशुरामनाशाय संयुगे ॥ १६ ॥
शूलं ददर्श रामश्च शतसूर्य्यसमप्रभम् ॥
प्रलयाग्रिशिखोद्रिक्तं दुर्निवार्यं सुरैरपि ॥ १७ ॥
पपात शूलं समरे रामस्योपरि नारद ॥
मूर्च्छामवाप स भृगुः पपात च हरिं स्मरन् ॥ १८ ॥
पतिते तु तदा रामे सर्वे देवा भयाकुलाः ॥
आजग्मुः समरं तत्र ब्रह्मविष्णुमहेश्वराः ॥ १९ ॥
शङ्करश्च महाज्ञानी महाज्ञानेन लीलया ॥
ब्राह्मणं जीवयामास तूर्णं नारायणाज्ञया ॥ 3.40.२० ॥
भृगुश्च चेतनां प्राप्य ददर्श पुरतः सुरान् ॥
प्रणनाम परं भक्त्या लज्जानम्रात्मकन्धरः ॥ २१ ॥
राजा दृष्ट्वा सुरेशांश्च भक्तिनम्रात्मकन्धरः ॥
प्रणम्य शिरसा मूर्ध्ना तुष्टाव च सुरेश्वरान् ॥ २२ ॥
तत्राजगाम भगवान्दत्तात्रेयो रणस्थलम् ॥
शिष्यरक्षानिमित्तेन कृपालुर्भक्तवत्सलः ॥ २३ ॥
भृगुः पाशुपतास्त्रं च सोऽग्रहीत्कोपसंयुतः ॥
दत्तदत्तेन दृष्टेन बभूव स्तम्भितो भृगुः ॥२४॥
ददर्श स्तम्भितो रामो राजानं रणमूर्द्धनि ॥
नानापार्षदयुक्तेन कृष्णेनाऽऽरक्षितं रणे ॥२५॥
सुदर्शनं प्रज्वलन्तं भ्रमणं कुर्वता सदा ॥
सस्मितेन स्तुतेनैव ब्रह्मविष्णुमहेश्वरैः ॥ ॥ २६ ॥
गोपालशतयुक्तेन गोपवेषविधारिणा ॥
नवीनजलदाभेन वंशीहस्तेन गायता ॥ २७ ॥
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥
दत्तेन दत्तं कवचं कृष्णस्य परमात्मनः ॥ २८ ॥
राज्ञोऽस्ति दक्षिणे बाहौ सद्रत्नगुटिकान्वितम् ॥
गृहीतकवचे शम्भौ भिक्षया योगिनां गुरौ ॥ २९ ॥
तदा हन्तुं नृपं शक्तो भृगुश्चेति च नारद ॥
श्रुत्वाऽशरीरिणीं वाणीं शङ्करो द्विजरूपधृक्॥ 3.40.३० ॥
भिक्षां कृत्वा तु कवचमानीय च नृपस्य च ॥
शम्भुना भृगवे दत्तं कृष्णस्य कवचं च यत् ॥ ३१ ॥
एतस्मिन्नन्तरे देवा जग्मुः स्वस्थानमुत्तमम् ॥
प्रत्युवाचापि परशुरामो वै समरे नृपम् ॥३२॥
परशुराम उवाच ॥
राजेन्द्रोत्तिष्ठ समरं कुरु साहसपूर्वकम् ॥
कालभेदे जयो नृणां कालभेदे पराजयः॥३३॥
अधीतं विधिवद्दत्तं कृत्स्ना पृथ्वी सुशासिता ॥
सम्यक्कृतश्च सङ्ग्रामस्त्वयाऽहं मूर्च्छितो ऽधुना॥ ३४ ॥
जिताः सर्वे च राजेन्द्रा लीलया रावणो जितः ॥
जितोऽहं दत्तशूलेन शम्भुना जीवितः पुनः ॥ ३५ ॥
रामस्य वचनं श्रुत्वा राजा परमधार्मिकः ॥
मूर्ध्ना प्रणम्य तं भक्त्या यथार्थोक्तिमुवाच ह ॥ ३६ ॥
राजोवाच ॥
किमधीतं तथा दत्तं का वा पृथ्वी सुशासिता ॥
गताः कतिविधा भूपा मादृशा धरणीतले ॥ ३७ ॥
बुद्धिस्तेजो विक्रमश्च विविधा रणमन्त्रणा ॥
श्रीरैश्वर्यं तथा ज्ञानं दानशक्तिश्च लौकिकम् ॥ ३८ ॥
आचारो विनयो विद्या प्रतिष्ठा परमं तपः ॥
सर्वं मनोरमासङ्गे गतमेव मम प्रभो ॥ ३९ ॥
सा च स्त्री प्राणतुल्या मे साध्वी पद्मांशसम्भवा ॥
यज्ञेषु पत्नी मातेव स्नेहे क्रीडति सङ्गिनी ॥3.40.४०॥
आबाल्यात्सङ्गिनी शश्वच्छयने भोजने रणे ॥
तां विना प्राणहीनोऽहं विषहीनो यथोरगः ॥ ४१ ॥
त्वया न दृष्टं युद्धं मे पुरेयं शोचना स्थिता ॥
द्वितीया शोचना विप्र हतोऽहं ब्राह्मणेन च ॥ ४२ ॥
काले सिंहः सृगालं च सृगालः सिंहमेव च ॥
काले व्याघ्रं हन्ति मृगो गजेन्द्रं हरिणस्तथा ॥ ४३ ॥
महिषं मक्षिका काले गरुडं च तथोरगः ॥
किङ्करः स्तौति राजेन्द्रं काले राजा च किङ्करम्॥ ४४ ॥
इन्द्रं च मानवः काले काले ब्रह्मा मरिष्यति ॥
तिरोभूत्वा सा प्रकृतिः काले श्रीकृष्णविग्रहे ॥ ४९ ॥
मरिष्यन्ति सुराः सर्वे त्रिलोकस्थाश्चराचराः ॥
सर्वे काले लयं यान्ति कालो हि दुरतिक्रमः॥४६॥
कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया॥
संहर्ता चैव संहर्तुः पातुः पाता परात्परः॥४७॥
महास्थूलात्स्थूलतमः सूक्ष्मात्सूक्ष्मतमः कृशः ॥
परमाणुपरः कालः कालस्स्यात्कालभेदकः ॥ ४८ ॥
यस्य लोमानि विश्वानि स पुमांश्च महाविराट् ॥
तेजसा षोडशांशश्च कृष्णस्य परमात्मनः ॥४९॥
ततः क्षुद्रविराड् जातः सर्वेषां कारणं परम् ॥
यः स्रष्टा च स्वयं ब्रह्मा यन्नाभिकमलोद्भवः ॥ 3.40.५० ॥
नाभेः कमलदण्डस्य योऽन्तं न प्राप यत्नतः ॥
भ्रमणाल्लक्षवर्षं च ततः स्वस्थानसंस्थितः ॥ ५१ ॥
तपश्चक्रे ततस्तत्र लक्षवर्षं च वायुभुक् ॥
ततो ददर्श गोलोकं श्रीकृष्णं च सपार्षदम् ॥ ॥ ५२ ॥
गोपगोपीपरिवृतं द्विभुजं मुरलीधरम् ॥
रत्नसिंहासनस्थं च राधावक्षस्थलस्थितम् ॥ ५३ ॥
दृष्ट्वाऽनुज्ञां गृहीत्वा च प्रणम्य च पुनः पुनः ॥
ईश्वरेच्छां च विज्ञाय स्रष्टुं सृष्टिं मनो दधे ॥ ५४ ॥
यः शिवः सृष्टिसंहर्त्ता स च स्रष्टुर्ललाटजः ॥
विष्णुः पाता क्षुद्रविराट् श्वेतद्वीपनिवासकृत् ॥ ५५ ॥
सृष्टिकारणभूताश्च ब्रह्मविष्णुमहेश्वराः ॥
सन्ति विश्वेषु सर्वेषु श्रीकृष्णस्य कलोद्भवाः ॥५६॥
तेऽपि देवाः प्राकृतिकाः प्राकृतश्च महाविराट् ॥
सर्वप्रसूतिः प्रकृतिः श्रीकृष्णः प्रकृतेः परः ॥५७॥
न शक्तः परमेशोऽपि तां शक्तिं प्रकृतिं विना ॥
सृष्टिं विधातुं मायेशो न सृष्टिर्मायया विना ॥ ५८ ॥
सा च कृष्णे तिरोभूय सृष्टिसंहारकारके ॥
साऽऽविर्भूता सृष्टिकाले सा च नित्या महेश्वरी ॥५९॥
कुलालश्च कटं कर्तुं यथाऽशक्तो मृदं विना॥
स्वर्णं विना स्वर्णकारः कुण्डलं कर्तुमक्षमः ॥ 3.40.६० ॥
सा च शक्तिः सृष्टिकाले पञ्चधा चेश्वरेच्छया ॥
राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ॥ ६१ ॥
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ॥
प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता ॥ ६२ ॥
ऐश्वर्य्याधिष्ठातृदेवी सर्वमङ्गलकारिणी ॥
परमानन्दरूपा च सा लक्ष्मीः परिकीर्त्तिता ॥६३॥
विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा ॥
या माता वेदशास्त्राणां सा सावित्री प्रकीर्तिता॥६४॥
बुद्ध्यधिष्ठातृदेवी या सर्वशक्तिस्वरूपिणी ॥
सर्वज्ञानात्मिका सर्वा सा दुर्गा दुर्गनाशिनी ॥ ६५ ॥
वागधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा ॥
कृष्णकण्ठोद्भवा सा स्याद्या च देवी सरस्वती॥६६॥
पञ्चधाऽऽदौ स्वयं देवी मूलप्रकृतिरीश्वरी ॥
ततः सृष्टिक्रमेणैव बहुधा कलया च सा ॥ ६७ ॥
योषितः प्रकृतेरंशाः पुमांसः पुरुषस्य च ॥
मायया सृष्टि काले च तद्विना न भवेद्भवः॥६८॥
सृष्टिश्च प्रतिविश्वेषु ब्रह्मन्ब्रह्मोद्भवा सदा ॥
पाता विष्णुश्च संहर्त्ता शिवः शश्वच्छिवप्रदः ॥६९॥
दत्तदत्तं ज्ञानमिदं राम मह्यं च पुष्करे ॥
दीक्षाकाले च माघ्यां च मुनिप्रवरसन्निधौ ॥ 3.40.७० ॥
इत्युक्त्वा कार्त्तवीर्य्यश्च रामं नत्वा च सस्मितः ॥
आरुरोह रथं शीघ्रं गृहीत्वा सशरं धनुः ॥ ७१ ॥
रामस्ततो राजसैन्यं ब्रह्मास्त्रेण जघान ह ॥
नृपं पाशुपतेनैव लीलया श्रीहरिं स्मरन् ॥ ७२ ॥
एवं त्रिस्सप्तकृत्वश्च क्रमेण च वसुन्धराम् ॥
रामश्चकार निर्भूपां लीलया च शिवं स्मरन् ॥ ७३ ॥
गर्भस्थं मातुरङ्कस्थं शिशुं वृद्धं च मध्यमम् ॥
जघान क्षत्रियं रामः प्रतिज्ञापालनाय वै ॥ ७४ ॥
कार्त्तवीर्य्यश्च गोलोकं त्वगमत्कृष्णसन्निधिम् ॥
जगाम तोषात्परशुरामश्च श्रीहरिं स्मरन्॥ ७५ ॥
त्रिस्सप्तकृत्वो निर्भूपां महीं दृष्ट्वा महेश्वरः ॥
रमणं तेन परशुरामं दृष्ट्वा च कातरम् ॥ ७६ ॥
देवाश्च मुनयो देव्यः सिद्धगन्धर्वकिन्नराः ॥
सर्वे चक्रुः पुष्पवृष्टिं राममूर्ध्नि च नारद ॥ ७७ ॥
स्वर्गे दुन्दुभयो नेदुर्हर्षशब्दो बभूव ह॥
यशसा चैव परशुरामस्यापूरितं जगत् ॥७८॥
ब्रह्मा भृगुश्च शुक्रश्च वाल्मीकिश्च्यवनस्तथा॥
जमदग्निर्ब्रह्मलोकादाजगाम प्रहर्षितः॥७९॥
पुलकाञ्चितसर्वाङ्गाः सानन्दाश्च समन्विताः ॥
दूर्वापुष्पकराः सर्वे कुर्वन्तो मङ्गलाशिषः॥ ॥ 3.40.८० ॥
प्रणनाम च तान्रामो दण्डवत्पतितो भुवि ॥
क्रोडे चकार ब्रह्माऽऽदौ क्रमात्तातेति संवदन् ॥ ८१ ॥
तमुवाचाथ परशुरामं ब्रह्मा जगद्गुरुः ॥
वेदसारं नीतियुतं परिणामसुखावहम् ॥ ८२ ॥
ब्रह्मोवाच ॥
शृणु राम प्रवक्ष्यामि सर्वसम्पत्करं परम् ॥
काण्वशाखोक्तवचनं सत्यं वै सर्वसम्मतम् ॥८३॥
पूज्यानामेव सर्वेषामिष्टः पूज्यतमः परः ॥
जनको जन्मदानाच्च पालनाच्च पिता स्मृतः ॥ ८४ ॥
गरीयाञ्जन्मदातुश्च सोऽन्नदाता पिता मुने ॥
विनाऽन्नं नश्वरो देहो नित्यं च पितुरुद्भवः ॥ ८९ ॥
तयोः शतगुणं माता पूज्या मान्या च वन्दिता॥
गर्भधारणपोषाभ्यां सैव प्रोक्ता गरीयसी॥८६॥
तेभ्यः शतगुणं पूज्योऽभीष्टदेवः श्रुतौ श्रुतः॥
ज्ञानविद्यामन्त्रदाताऽभीष्टदेवात्परो गुरुः ॥ ८७ ॥
गुरुवद्गुरुपुत्रश्च गुरुपत्नी ततोऽधिका ॥
देवे रुष्टे गुरू रक्षेद्गुरौ रुष्टे न कश्चन ॥ ८८ ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ॥
गुरुरेव परं ब्रह्म ब्राह्मणेभ्यः प्रियः परः ॥ ८९ ॥
गुरुर्ज्ञानं ददात्येव ज्ञानं च हरिभक्तिदम् ॥
हरिभक्तिप्रदाता यः को वा बन्धुस्ततः परम् ॥ 3.40.९० ॥
अज्ञानतिमिराच्छन्नो ज्ञानदीपं यतो लभेत् ॥
लब्ध्वा च निर्मलं पश्येत्को वा बन्धुस्ततः परः ॥ ९१ ॥
गुरुदत्तं सुमन्त्रं च जप्त्वा ज्ञानं ततो लभेत् ॥
सर्वज्ञत्वाच्च सिद्धिं च को वा बन्धुस्ततोऽधिकः ॥ ९२ ॥
सुखं जयति सर्वत्र विद्यया गुरुदत्तया ॥
यया पूज्योऽपि जगति को वा बन्धुस्ततोऽधिकः ॥ ९३ ॥
विद्यान्धो वा धनान्धो वा यो मूढो न यजेद्गुरुम् ॥
ब्रह्महत्यादिकं पापं लभते नात्र संशयः ॥ ९४ ॥
दरिद्रं पतितं क्षुद्रं नरबुद्या भजेद्गुरुम् ॥
तीर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ॥ ९५ ॥
अभीष्टदेवः श्रीकृष्णो गुरुस्ते शङ्करः स्वयम् ॥
शरणं गच्छ हे पुत्र देवपूज्यतमं गुरुम् ॥ ९६ ॥
त्रिस्सप्तकृत्वो निर्भूपा त्वया पृथ्वी कृता यतः ॥
प्राप्ता त्वया हरेर्भक्तिस्तं शिवं शरणं व्रज ॥ ९७ ॥
शिवां च शिवरूपं च शिवदं शिवकारणम् ॥
शिवाराध्यं शिवं शान्तं गुरुं त्वं शरणं व्रज ॥ ९८ ॥
गोलोकनाथो भगवानंशेन शिवरूपधृक् ॥
य इष्टदेवः स गुरुस्तमेव शरणं व्रज ॥ ९९ ॥
आत्मा कृष्णः शिवो ज्ञानं मनोऽहं सर्वजीविषु ॥
प्राणा विष्णोस्सा प्रकृतिस्सर्वशक्तियुता सुत ॥ 3.40.१००॥
ज्ञानदं ज्ञानरूपं च ज्ञानबीजं सनातनम् ॥
मृत्युञ्जयं कालकालं तं गुरुं शरणं व्रज ॥ १०१ ॥
ब्रह्मज्योतिस्स्वरूपं तं भक्तानुग्रहविग्रहम् ॥
शरणं व्रज सर्वज्ञं भगवन्तं सनातनम् ॥ १०२ ॥
प्रकृतिर्लक्षवर्षं च तपस्तप्त्वा यमीश्वरम् ॥
कान्तं प्रियपतिं लेभे तं गुरुं शरणं व्रज ॥ १०३ ॥
इत्युक्त्वा मुनिभिः सार्द्धं जगाम कमलोद्भवः ॥
रामश्च गन्तुं कैलासं मनश्चक्रे च नारद ॥ १०४ ॥
इति श्रीब्रह्मवैवर्त्ते तृतीये गणेशखण्डे नारदनारायणसंवादे भृगोः कैलासगमनोपदेशो नाम चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥