०३९

नारद उवाच ॥
कवचं कथितं ब्रह्मन्पद्मायाश्च मनोहरम् ॥
परं दुर्गतिनाशिन्याः कवचं कथय प्रभो ॥१॥
पद्माक्षप्राणतुल्यं च जीवनं बलकारणम् ॥
कवचानां च यत्सारं दुर्गासेवनकारणम् ॥ २ ॥
नारायण उवाच ॥
शृणु नारद वक्ष्यामि दुर्गायाः कववं शुभम् ॥
श्रीकृष्णेनैव यद्दत्तं गोलोके ब्रह्मणे पुरा ॥ ३॥
ब्रह्मा त्रिपुरसङ्ग्रामे शङ्कराय ददौ पुरा ॥
जघान त्रिपुरं रुद्रो यद्धृत्वा भक्तिपूर्वकम् ॥ ४ ॥
हरो ददौ गौतमाय पद्माक्षाय च गौतमः ॥
यतो बभूव पद्माक्षः सप्तद्वीपेश्वरो जयी ॥ ५ ॥
यद्धृत्वा पठनाद्ब्रह्मा ज्ञानवाञ्छक्तिमान्भुवि ॥
शिवो बभूव सर्वज्ञो योगिनां च गुरुर्यतः ॥
शिवतुल्यो गौतमश्च बभूव मुनिसत्तमः ॥ ६ ॥
ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः ॥
ऋषिश्छन्दश्च गायत्री देवी दुर्गतिनाशिनी ॥ ७ ॥
ब्रह्माण्डविजये चैव विनियोगः प्रकीर्त्तितः ॥
पुण्यतीर्थं च महतां कवचं परमाद्भुतम् ॥ ८ ॥
ॐ ह्रीं दुर्गतिनाशिन्यै स्वाहा मे पातु मस्तकम् ॥
ॐ ह्रीं मे पातु कपालं चाप्यों ह्रीं श्रीं पातु लोचने॥९॥
पातु मे कर्णयुग्मं चाप्यों दुर्गायै नमः सदा॥
ॐ ह्रीं श्रीमिति नासां मे सदा पातु च सर्वतः॥3.39.१०॥
ह्रीं श्रीं क्रूमिति दन्तांश्च पातु क्लीमोष्ठयुग्मकम्॥
क्लीं क्लीं क्लीं पातु कण्ठं च दुर्गे रक्षतु गण्डके॥११॥
स्कन्धं महाकालि दुर्गे स्वाहा पातु निरन्तरम् ॥
वक्षो विपद्विनाशिन्यै स्वाहा मे पातु सर्वतः॥१२॥
दुर्गे दुर्गे रक्ष पार्श्वौ स्वाहा नाभिं सदाऽवतु॥
दुर्गे दुर्गे देहि रक्षां पृष्ठं मे पातु सर्वतः॥१३॥
ॐ ह्रीं दुर्गायै स्वाहा च हस्तौ पादौ सदाऽवतु ॥
ॐ ह्रीं दुर्गायै स्वाहा च सर्वाङ्गं मे सदाऽवतु ॥ १४ ॥
प्राच्यां पातु महामाया चाग्नेय्यां पातु कालिका ॥
दक्षिणे दक्षकन्या च नैर्ऋत्यां शिवसुन्दरी ॥ १५ ॥
पश्चिमे पार्वती पातु वाराही वारुणे सदा ॥
कुबेरमाता कौबेर्य्यामैशान्यामीश्वरी सदा ॥ १६ ॥
ऊर्ध्वं नारायणी पातु त्वम्बिकाऽधः सदाऽवतु ॥
ज्ञानं ज्ञानप्रदा पातु स्वप्ने निद्रा सदाऽवतु ॥ १७॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥
ब्रह्माण्डविजयं नाम कवचं परमाद्भुतम् ॥ १८ ॥
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥
सर्वव्रतोपवासे च तत्फलं लभते नरः ॥ १९ ॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ॥
कण्ठे वा दक्षिणे बाहौ कवचं धारयेत्तु यः ॥3.39.२०॥
स च त्रैलोक्यविजयी सर्वशत्रुप्रमर्दकः॥
इदं कवचमज्ञात्वा भजेद्दुर्गतिनाशिनीम्॥२१॥
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः॥ ॥ २२ ॥
कवचं काण्वशाखोक्तमुक्तं नारद सिद्धिदम् ॥
यस्मै कस्मै न दातव्यं गोपनीयं सुदुर्लभम् ॥२३॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे दुर्गतिनाशिनीकवचं नामैकोनचत्वारिंशतमोऽध्यायः ॥ ३९ ॥