०३८

नारायण उवाच ॥
सुचन्द्रे पतिते ब्रह्मन्राजेन्द्राणां शिरोमणौ ॥
अगमत्पुष्कराक्षस्तु सेनात्र्यक्षौहिणीयुतः ॥ १ ॥
सूर्य्यवंशोद्भवो राजा सुचन्द्रतनयो महान् ॥
महालक्ष्मीसेवकश्च लक्ष्मीवान्सूर्य्यसन्निभः ॥ २ ॥
महालक्ष्म्याश्च कवचं गले यस्य मनोहरम् ॥
परमैश्वर्य्यसंयुक्तस्त्रैलोक्यविजयी ततः ॥३॥
तं दृष्ट्वा भ्रातरः सर्वे रैणुकेयस्य धीमतः ॥
आययुः समरं कर्त्तुं नानाशस्त्रास्त्रपाणयः ॥।४॥
राजेन्द्रः शरजालेन च्छेदयामास तांस्तथा ॥
चिच्छिदुः शरजालं च ते वीराश्चैव लीलया ॥ ५ ॥
चिच्छिदुः स्यन्दनं राज्ञस्ते वीराः पञ्चबाणतः ॥
सारथिं पञ्चबाणेन रथाश्वं दशबाणतः ॥ ६ ॥
तद्धनुः सप्तबाणेन तूर्णं वै पञ्चबाणतः ॥
चिच्छिदुस्तद्भ्रातृवर्गान्विप्राः शङ्करशूलतः ॥७॥
ते च त्र्यक्षौहिणीं सेनान्निजघ्नुश्चापि लीलया ॥
हन्तुं नृपेन्द्रं ते वीराः शिवशूलं निचिक्षिपुः ॥
गले बभूव तच्छूलं राज्ञः पुष्करमालिका ॥ ८ ॥
शक्तिं च परिघं चैव भुशुण्डीं मुद्गरं तथा ॥
गदां च चिक्षिपुर्विप्राः कोपेन ज्वलदग्नयः ॥ ९ ॥
तानि शस्त्राणि चूर्णानि क्ष्माभृतो देहयोगतः ॥
विस्मिता भ्रातरः सर्वे भृगोरेव महामुने ॥3.38.१०॥
रथं धनुश्च शस्त्राणि चास्त्राणि विविधानि च ॥
सेनां प्रस्थापयामास कार्त्तवीर्य्यार्जुनः स्वयम्॥११॥
राजा स्यन्दनमारुह्य पुष्कराक्षो महाबलः ॥
चकार शरजालं च महाघोरतरं मुने ॥ १२ ॥
चिच्छिदुः शरजालं ते वीराः शस्त्रास्त्रपाणयः ॥
राजा प्रस्वापनेनैव निद्रितांस्तांश्चकार ह ॥ १३ ॥
भ्रातॄंश्च निद्रितान्दृष्ट्वा जामदग्न्यो महाबलः ॥
क्षतविक्षतसर्वाङ्गान्बोधयामास तत्त्वतः ॥१४॥
बोधयित्वा तान्निवार्य्य जगाम रणमूर्द्धनि ॥
चिक्षेप पर्शुं कोपेन शीघ्रं राजजिघांसया॥१५॥
छित्त्वा राज्ञः किरीटं च पर्शुर्भूमौ पपात ह॥
जग्राह परशुं शीघ्रं जामदग्न्यो महाबलः॥१६॥
तदा शङ्करशूलं च चिक्षिपे मन्त्रपूर्वकम् ॥
नृपस्य कुण्डलं छित्त्वा जगाम शिवसन्निधिम्॥१७॥
राजा निहन्तुं तं रामं शरजालं चकार ह ॥
चिच्छेद शरजालं च रेणुकेयश्च लीलया ॥१८॥
क्रमेण राजा नानास्त्रं चिक्षिपे मन्त्रपूर्वकम्॥
तच्चिच्छेद क्रमेणैव भृगुः शस्त्रभृतां वरः॥१९॥
भृगुश्चिक्षेप नानास्त्रं महासन्धानपूर्वकम् ॥
तच्चिच्छेद महाराजः सन्धानेनैव लीलया ॥ 3.38.२० ॥
रामश्चिक्षेप सन्धाय ब्रह्मास्त्रं मन्त्रपूर्वकम् ॥
राजा निर्वापणं चक्रे सन्धानेनैव लीलया ॥२१॥
सर्वाण्यस्त्राणि शस्त्राणि रामः पाशुपतं विना ॥
चिक्षेप कोपविभ्रान्तो भूपश्चिच्छेद तानि च ॥ २२ ॥
रामः स्तुत्वा शिवं नत्वाऽऽददे पाशुपतं मुने ॥
नारायणश्च भगवानवोचद् विप्ररूपधृक् ॥ २३ ॥
ब्राह्मण उवाच ॥
किं करोषि भृगो वत्स त्वमेवं ज्ञानिनां वरः ॥
नरं हन्तुं पाशुपतं कोपात्किं क्षिपसि भ्रमात् ॥ २४ ॥
विश्वं पाशुपतेनैव भवेद्भस्म च सत्वरम् ॥
सर्वघ्नं स्याच्छस्त्रमिदं विना श्रीकृष्णमीश्वरम् ॥ २५ ॥
अहो पाशुपतं जेतुं नालमेव सुदर्शनम् ॥
हरेः सुदर्शनं चैव सर्वास्त्रपरिमर्दकम् ॥२६॥
खट्वाङ्गिनः पाशुपातं हरेरेव सुदर्शनम् ॥
एते प्रधाने सर्वेषामस्त्राणां च जगत्त्रये ॥ २७ ॥
त्यज पाशुपतं ब्रह्मन्मदीयं वचनं शृणु ॥
यथा जेष्यसि राजानं पुष्कराक्षं महाबलम् ॥ २८ ॥
कार्त्तवीर्य्यमजेतारं यथा जेष्यसि साम्प्रतम् ॥
श्रूयतां सावधानेन तत्सर्वं कथयामि ते ॥ २९ ॥
महालक्ष्म्याश्च कवचं त्रिषु लोकेषु दुर्लभम् ॥
भक्त्या च पुष्कराक्षेण धृतं कण्ठे विधानतः ॥ 3.38.३० ॥
परं दुर्गतिनाशिन्याः कवचं परमाद्भुतम् ॥
धृतं च दक्षिणे बाहौ पुष्कराक्षसुतेन च ॥ ३१ ॥
कवचस्य प्रभावेण विश्वं जेतुं क्षमौ च तौ ॥
को जेता च त्रिभुवने देहे च कवचे स्थिते ॥ ३२ ॥
अहं यास्यामि भिक्षार्थं सन्निधाने तयोर्मुने ॥
करिष्यामि च तद्भिक्षां प्रतिज्ञा सफलाऽस्तु ते ॥ ३३ ॥
ब्राह्मणस्य वचः श्रुत्वा रामः सन्त्रस्तमानसः ॥
उवाच ब्राह्मणं वृद्धं हृदयेन विदूयता ॥ ३४ ॥
परशुराम उवाच ॥
न जानामि महाप्राज्ञ कस्त्वं ब्राह्मणरूपधृक् ॥
शीघ्रं च ब्रूहि मां मूढं तदा गच्छ नृपान्तिकम् ॥ ३५ ॥
जामदग्न्यवचः श्रुत्वा प्रहस्य ब्राह्मणः स्वयम् ॥
उक्त्वा चाहं विष्णुरिति ययौ भिक्षितुमीश्वरः ॥ ३६ ॥
गत्वा तयोः सन्निधानं ययाचे कवचे च तौ ॥
ददतुस्तौ च कवचे विष्णवे विष्णुमायया ॥
गृहीत्वा कवचे विष्णुर्वैकुण्ठं निर्जगाम सः ॥ ३७ ॥
नारद उवाच ॥
महालक्ष्म्याश्च कवचं केन दत्तं महामुने ॥
पुष्कराक्षाय भूपाय श्रोतुं कौतूहलं मम ॥ ३८ ॥
कवचं चापि दुर्गायाः पुष्कराक्षसुताय च ॥
दुर्ल्लभं केन वा दत्तं तद्भवान्वक्तुमर्हसि ॥ ३९ ॥
कवचं चापि किम्भूतं तयोर्वा तस्य किं फलम् ॥
मन्त्रौ तु किम्प्रकारौ च तन्मे ब्रूहि जगद्गुरो॥ ॥। 3.38.४० ॥
नारायण उवाच ॥
दत्तं सनत्कुमारेण पुष्कराक्षाय धीमते ॥
महालक्ष्म्याश्च कवचं मन्त्रश्चापि दशाक्षरः ॥ ४१ ॥
स्तवनं चापि गोप्यं वै प्रोक्तं तच्चरितं च यत् ॥
ध्यानं च सामवेदोक्तं पूजां चैव मनोहराम् ॥ ४२ ॥
दुर्गायाश्चापि कवचं दत्तं दुर्वाससा पुरा॥
स्तवनं चापि गोप्यं च मन्त्रश्चापि दशाक्षरः॥४३॥
पश्चाच्छ्रोष्यसि तत्सर्वं देव्याश्च परमाद्भुतम्॥
महायुद्धसमारम्भे दत्तं प्रार्थनया च यत् ॥४४॥
महालक्ष्म्याश्च मन्त्रं च शृणु तं कथयामि ते ॥
ॐ श्रीं कमलवासिन्यै स्वाहेति परमाद्भुतम् ॥ ४५॥
ध्यानं च सामवेदोक्तं शृणु पूजाविधिं मुने ॥
दत्तं तस्मै कुमारेण पुष्कराक्षाय धीमते ॥ ४६ ॥
सहस्रदलपद्मस्थां पद्मनाभप्रियां सतीम् ॥
पद्मालयां पद्मवक्त्रां पद्मपत्राभलोचनाम् ॥ ४७॥
पद्मपुष्पप्रियां पद्मपुष्पतल्पाधिशायिनीम् ॥
पद्मिनीपद्महस्तां च पद्ममालाविभूषिताम् ॥ ४८ ॥
पद्मभूषणभूषाढ्यां पद्मशोभाविवर्द्धनीम् ॥
पद्माटवीं प्रपश्यन्तीं सस्मितां तां भजे मुदा ॥ ४९ ॥
चन्दनाष्टदले पद्मे पद्मपुष्पेण पूजयेत् ॥
गणं सम्पूज्य दत्त्वा चैवोपचारांश्च षोडश ॥ 3.38.५० ॥
ततः स्तुत्वा च प्रणमेत्साधको भक्तिपूर्वकम् ॥
कवचं श्रूयतां ब्रह्मन्सर्वसारं वदामि ते ॥ ५१ ॥
शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् ॥
पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ॥ ५२ ॥
सम्प्राप्य कवचं ब्रह्मा तत्पद्मे ससृजे जगत् ॥
पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ॥ ५३ ॥
पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः ॥
पाद्येन पद्मकल्पे च कवचं परमाद्भुतम् ॥५४॥
दत्तं सनत्कुमाराय प्रियपुत्राय धीमते ॥
कुमारेण च यद्दत्तं पुष्कराय च नारद ॥ ५५ ॥
यद्धृत्वा पाठनाद् ब्रह्मा सवसिद्धेश्वरो महान् ॥
परमैश्वर्य्यसंयुक्तः सर्वसम्पत्समन्वितः ॥ ५६ ॥
यद्दत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः ॥
स्वायम्भुवो मनुः श्रीमान्पठनाद्धारणाद्यतः ॥ ५७ ॥
प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने ॥
पृथुः पृथ्वीपतिः सद्यो ह्यभवद्वारणाद्यतः ॥ ५८ ॥
कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः ॥
धर्म्मश्च कर्म्मणां साक्षी पाता यस्य प्रसादतः ॥ ५९ ॥
यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः ॥
भक्त्या विधत्ते कण्ठे च शेषो नारायणांशकः ॥ 3.38.६० ॥
यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः ॥
सर्वदेवाधिपः श्रीमान्महेन्द्रो धारणाद्यतः ॥ ६१ ॥
राजा मरुत्तो भगवानभवद्धारणाद्यतः ॥
त्रैलोक्याधिपतिः श्रीमान्नहुषो यस्य धारणात् ॥ ६२ ॥
विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः ॥
मुचुकुन्दो यतः श्रीमान्मान्धातृतनयो महान्॥ ६३ ॥
सर्वसम्पत्पदस्यास्य कवचस्य प्रजापतिः ॥
ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम् ॥ ६४ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥
पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥६५॥
ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम्॥
श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः।६६॥।
ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु॥
ॐ श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम।६७॥
ॐ श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु ॥
ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु॥६८॥
ॐ श्रीं नारायणेशायै मम कण्ठं सदाऽवतु॥
ॐ श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु॥ ॥६९॥
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु॥
ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु॥3.38.७०॥
ओं श्रीं मों कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ॥
ओं ह्रीं श्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु ॥ ७१ ॥
ॐ श्रीनिवासकान्तायै मम पदौ सदाऽवतु ॥
ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥ ७२ ॥
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ॥
पद्मा मां दक्षिणे पातु नैर्ऋत्यां श्रीर्हरिप्रिया ॥ ७३ ॥
पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम् ॥
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ॥ ७४ ॥
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ॥
सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ ॥ ७९ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥
सर्वैश्वर्य्यप्रदं नाम कवचं परमाद्भुतम् ॥ ७६ ॥
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये ॥
यत्फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ ७७ ॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ॥
कण्ठे वा दक्षिणे बाहौ स श्रीमान्प्रतिजन्मनि ॥ ७८ ॥
अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम् ॥
देवेन्द्रैश्चासुरेन्द्रैश्च सोऽवध्यो निश्चितं भवेत् ॥ ७९ ॥
स सर्वपुण्यवान्धीमान्सर्वयज्ञेषु दीक्षितः ॥
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ 3.38.८० ॥
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ॥
गुरुभक्ताय शिष्याय शरण्याय प्रकाशयेत् ॥ ८१ ॥
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रभुम् ॥
कोटिसङ्ख्यं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ८२ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे श्रीलक्ष्मीकवचवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः ॥ ३८ ॥