॥ नारद उवाच॥
कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् ॥
नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम् ॥ १ ॥
नारायण उवाच ॥
शृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् ॥
गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २ ॥
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् ॥
दुर्वासा हि ददौ राज्ञे पुष्करे सूर्य्यपर्वणि ॥३॥
दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा ॥
पञ्चलक्षजपेनैव पठन्कवचमुत्तमम् ॥४॥
बभूव सिद्धकवचोऽप्ययोध्यामाजगाम सः ॥
कृत्स्नां हि पृथिवीं जिग्ये कवचस्य प्रभावतः ॥ ५ ॥
नारद उवाच ॥
श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा ॥
अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो ॥ ६ ॥
नारायण उवाच ॥
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् ॥
नारायणेन यद्दत्तं कृपया शूलिने पुरा ॥ ७ ॥
त्रिपुरस्य वधे घोरे शिवस्य विजयाय च ॥
तदेव शूलिना दत्तं पुरा दुर्वाससे मुने ॥८॥
दुर्वाससा च यद्दत्तं सुचन्द्राय महात्मने ॥
अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् ॥ ॥९॥
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् ॥
क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीमिति लोचने ॥ 3.37.१० ॥
ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदाऽवतु ॥
क्लीं कालिके रक्ष रक्ष स्वाहा दन्तान्सदाऽवतु ॥ ११ ॥
क्लीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम् ॥
ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदाऽवतु ॥ १२ ॥
ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदाऽवतु ॥
ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम ॥ १३ ॥
ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदाऽवतु ॥
ॐ क्लीं कालिकायै स्वाहा मम नाभिं सदाऽवतु ॥ १४ ॥
ॐ ह्रीं कालिकायै स्वाहा मम पृष्ठं सदाऽवतु ॥
रक्तबीजविनाशिन्यै स्वाहा हस्तो सदाऽवतु ॥ १५ ॥
ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु॥
ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदाऽवतु॥१६॥
प्राच्यां पातु महाकाली चाग्नेय्यां रक्तदन्तिका ॥
दक्षिणे पातु चामुण्डा नैर्ऋत्यां पातु कालिका ॥ १७ ॥
श्यामा च वारुणे पातु वायव्यां पातु चण्डिका ॥
उत्तरे विकटास्या चाप्यैशान्यां साट्टहासिनी ॥ १८ ॥
पातूर्ध्वं लोलजिह्वा सा मायाऽऽद्या पात्वधः सदा ॥
जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा ॥ १९ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥
सर्वेषां कवचानां च सारभूतं परात्परम् ॥3.37.२०॥
सप्तद्वीपेश्वरो राजा सुचन्द्रोऽस्य प्रभावतः ॥
कवचस्य प्रभावेन मान्धाता पृथिवीपतिः ॥ २१ ॥
प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह ॥
यतो हि योगिनां श्रेष्ठः सौभरिः पिप्पलायनः ॥ २२ ॥
यदि स्यात्सिद्धकवचः सर्वसिद्धीश्वरो भवेत् ॥
महादानानि सर्वाणि तपांस्येवं व्रतानि व ॥
निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ २३ ॥
इदं कवचमज्ञात्वा भजेत्कालीं जगत्प्रसूम् ॥
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ २४ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे भद्रकालीकवचनिरूपणं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥