नारायण उवाच ॥
मत्स्यराजे निपतिते राजा युद्धविशारदः ॥
राजेन्द्रान्प्रेषयामास युद्धे शस्त्रविशारदान् ॥ १ ॥
बृहद्बलं सोमदत्तं विदर्भं मिथिलेश्वरम् ॥
निषधाधिपतिं चैव मगधाधिपतिं तथा ॥ २ ॥
आययुः समरे योद्धुं जामदग्न्यं महारथाः ॥
त्रितयाक्षौहिणीभिश्च सेनाभिः सह नारद ॥३॥
रामस्य भ्रातरः सर्वे वीरास्तीक्ष्णास्त्रपाणयः ॥
वारयामासुरस्त्रैश्च तानेव रणमूर्द्धनि ॥ ४ ॥
ते वीराः शरजालेन दिव्यास्त्रेण प्रयत्नतः ॥
वारयामासुरेकैकं भ्रातृवर्गान्भृगोस्तथा ॥ ॥ ५ ॥
आययौ समरे शीघ्रं दृष्ट्वा तांश्च पराजितान् ॥
पिनाकहस्तः स भृगुर्ज्वलदग्निशिखोपमः ॥६॥
चिक्षेप नागपाशं च जामदग्न्यो महाबलः ॥
चिच्छेद तं गारुडेन सोमदत्तो महाबलः ॥ ७ ॥
भृगुः शङ्करशूलेन सोमदत्तं जघान ह ॥
बृहद्बलं च गदया विदर्भं मुष्टिभिस्तथा ॥ ८ ॥
मैथिलं मुद्गरेणैव शक्त्या वै नैषधं तथा ॥
मागधं चरणोद्घातैरस्त्रजालेन सैनिकान् ॥ ९ ॥
निहत्य निखिलान्भूपान्संहाराग्निसमो रणे ॥
दुद्राव कार्त्तवीर्यं च जामदग्न्यो महाबलः ॥ 3.36.१० ॥
दृष्ट्वा तं योद्धुमायान्तं राजानश्च महारथाः॥
आययुः समरं कर्त्तुं कार्त्तवीर्य्यं निवार्य्य च ॥ ११॥
कान्यकुब्जाश्च शतशः सौराष्ट्राः शतशस्तथा ॥
राष्ट्रीयाः शतशश्चैव वीरेन्द्राः शतशस्तथा ॥ १२॥
सौम्या वाङ्गाश्च शतशो महाराष्ट्रास्तथा दश ॥
तथा गुर्जरजातीयाः कलिङ्गाः शतशस्तथा ॥ ॥ १३ ॥
कृत्वा तु शरजालं च भृगुश्चिच्छेद तत्क्षणम् ॥
तं छित्त्वाऽभ्युत्थितो रामो नीहारमिव भास्करः ॥ १४ ॥
त्रिरात्रं युयुधे रामस्तैः सार्द्धं समराजिरे ॥
द्वादशाक्षौहिणीं सेनां तथा चिच्छेद पर्शुना ॥ १५ ॥
रम्भास्तम्भसमूह च यथा खड्गेन लीलया ॥
छित्त्वा सेनां भूपवर्गं जघान शिवशूलतः ॥१६॥
सर्वांस्तान्निहतान्दृष्ट्वा सूर्य्यवंशसमुद्भवः ॥
आजगाम सुचन्द्रश्च लक्ष राजेन्द्रसंयुतः ॥ १७ ॥
द्वादशाक्षौहिणीभिश्च सेनाभिः सह संयुगे ॥
कोपेन युयुधे रामं सिंहं सिंहो यथा रणे ॥ १८ ॥
भृगुः शङ्करशूलेन नृपलक्षं निहत्य च ॥
द्वादशाक्षौहिणीं सेनामहन्वै पर्शुना बली ॥१९॥
निहत्य सर्वाः सेनाश्च सुचन्द्रं युयुधे बली ॥
नागास्त्रं प्रेरयामास निहृतं तं भृगुः स्वयम् ॥ 3.36.२० ॥
नागपाशं च चिच्छेद गारुडेन नृपेश्वरः ॥
जहास च भृगुं राजा समरे च पुनः पुनः ॥ २१ ॥
भृगुर्नारायणास्त्रं च चिक्षेप रणमूर्धनि ॥
अस्तं ययौ तं निहन्तुं शतसूर्यसमप्रभम् ॥ २२ ॥
दृष्ट्वाऽस्त्रं नृपशार्दूलश्चावरुह्य रथात्क्षणात् ॥
न्यस्तशस्त्रः प्राणमच्च स्तुत्वा नारायणं शिवम् ॥ २३ ॥
तमेव प्रणतं त्यक्त्वा ययौ नारायणान्तिकम् ॥
अस्त्रराजो भगवतो रामः सम्प्राप विस्मयम् ॥ २४ ॥
भृगुः शक्तिं च मुसलं तोमरं पट्टिशं तथा ॥
गदां पर्शुं च कोपेन चिक्षिपे तज्जिघांसया ॥ २५ ॥
जग्राह काली तान्सर्वान्सुचन्द्रस्यन्दनस्थिता ॥
चिक्षेप शिवशूलं स नृपमाल्यं बभूव तत् ॥ २६ ॥
ददर्श पुरतो रामो भद्रकालीं जगत्प्रसूम् ॥
वहन्तीं मुण्डमालां च विकटास्यां भयङ्करीम् ॥ २७ ॥
विहाय शस्त्रमस्त्रं च पिनाकं च भृगुस्तदा ॥
तुष्टाव तां महामायां भक्तिनम्रात्मकन्धरः ॥ २८ ॥
परशुराम उवाच ॥
नमः शङ्करकान्तायै सारायै ते नमो नमः ॥
नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः ॥ २९ ॥
नमो नमो जगद्धात्र्यै जगत्कर्त्र्यै नमोनमः ॥
नमोऽस्तु ते जगन्मात्रे कारणायै नमो नमः ॥ 3.36.३० ॥
प्रसीद जगतां मातः सृष्टिसंहारकारिणि ॥
त्वत्पादौ शरणं यामि प्रतिज्ञां सार्थिकां कुरु ॥ ३१ ॥
त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः ॥
त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले ॥ ३२ ॥
युष्माभिः शिवलोके च मह्यं दत्तो वरः पुरा ॥
तं वरं सफलं कर्तुं त्वमर्हसि वरानने ॥ ३३ ॥
रेणुकेयस्तवं श्रुत्वा प्रसन्नाऽभवदम्बिका ॥
मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत ॥ ३४ ॥
एतद्भृगुकृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ॥
महाभयात्समुत्तीर्णः स भवेदेव लीलया ॥ ३५ ॥
स पूजितश्च त्रैलोक्ये तत्रैव विजयी भवेत् ॥
ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दकः ॥ ३६ ॥
एतस्मिन्नन्तरे ब्रह्मा भृगुं धर्मभृतां वरम् ॥
आगत्य कथयामास रहस्यं राममेव च ॥ ३७ ॥
ब्रह्मोवाच ॥
शृणु राम महाभाग रहस्यं पूर्वमेव च ॥
सुचन्द्रजयहेतुं च प्रतिज्ञाफलमेव च ॥ ३८ ॥
दशाक्षरी महाविद्या दत्ता दुर्वाससा पुरा ॥
सुचन्द्रायैव कवचं भद्रकाल्याः सुदुर्लभम् ॥ ३९ ॥
कवचं भद्रकाल्याश्च देवानां च सुदुर्लभम् ॥
कवचं तद्गले यस्य सर्वशत्रुविमर्दकम् ॥ 3.36.४० ॥
अतीव पूज्यं शस्तं च त्रैलोक्यजयकारणम्॥
तस्मिन्स्थिते च कवचे कस्त्वं जेतुमलं भुवि ॥ ४१ ॥
भृगो गच्छतु भिक्षार्थं करोतु प्रार्थनां नृपम् ॥
सूर्य्यवंशोद्भवो राजा दाता परमधार्मिकः ॥ ४२ ॥
प्राणांश्च कवचं मन्त्रं सर्वं दास्यति निश्चितम् ॥ ४३ ॥
भृगुः सन्न्यासिवेषेण गत्वा राजान्तिकं मुने ॥
भिक्षां चकार मन्त्रं च कवचं परमाद्भुतम् ॥ ४४ ॥
राजा ददौ च तन्मन्त्रं कवचं परमादरात् ॥
ततः शङ्करशूलेन तं जघान नृपं भृगुः ॥ ४५ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे भृगुकार्तवीर्ययुद्धवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६