नारायण उवाच ॥
शिवं प्रणम्य स भृगुर्दुर्गां कालीं मुदाऽन्वितः ॥
गत्वा पुष्करतीर्थ च मन्त्रसिद्धिं चकार ह।१॥
स बभूव निराहारो मासं भक्तिसमन्वितः ॥
ध्यायन्कृष्णपदाम्भोजं वायुरोधं चकार सः ॥२॥
ददर्श चक्षुरुन्मील्य गगनं तेजसा वृतम् ॥
दिशो दश द्योतयन्तं समाच्छन्नदिवाकरम् ॥३॥
तेजोमण्डलमध्यस्थं रत्नयानं ददर्श ह ॥
ददर्श तत्र पुरुषमत्यन्तं सुन्दरं वरम्॥४॥
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारकम् ॥
प्रणम्य दण्डवन्मूर्ध्ना वरं वव्रे तमीश्वरम् ॥५॥
त्रिस्सप्तकृत्वो निर्भूपां करिष्यामि महीमिति ॥
पादारविन्दे सुदृढां तां भक्तिमनपायिनीम्॥६॥
दास्यं सुदुर्ल्लभं शश्ववत्पादाब्जे च देहि मे ॥
कृष्णस्तस्मै वरं दत्त्वा तत्रैवान्तरधीयत॥७॥
भृगुः प्रणम्य भवनं तज्जगाम परात्परम्॥
पस्पन्द दक्षिणाङ्गं च परं मङ्गलसूचकम्॥८॥
वाञ्छा प्रतीतिजननं सुस्वप्नं च ददर्श ह ॥
मनः प्रसन्नं स्फीतं च तद्बभूव दिवानिशम् ॥
भाष्य स्वजनं सर्वं गृहे तस्थौ मुदाऽन्वितः ॥ ॥ ९ ॥
स्वशिष्यान्पितृशिष्यांश्च भ्रातृवर्गांश्च बान्धवान् ॥
आनीयानीय विविधान्मन्त्रांश्च स चकार ह ॥3.33.१०॥
पौर्वापर्य्यं स्ववृत्तान्तं तानेवोक्त्वा शुभक्षणे ॥
तैरेव सार्द्धं बलवान्बभूव गमनोन्मुखः ॥ ११ ॥
ददर्श मङ्गलं रामः शुश्राव जयसूचकम् ॥
बुबुधे मनसा सर्वं स्वजयं वैरिसङ्क्षयम्॥१२॥
यात्राकाले च पुरतः शुश्राव सहसा मुनिः ॥
हरिशब्दं सिंहशब्दं घण्टादुन्दुभिवादनम्॥१३॥
आकाशवाणीसङ्गीतं जयस्ते भवितेति च ॥
नवेङ्गितं च कल्याणं मेघशब्दं जयावहम् ॥१४॥
चकार यात्रां भगवाञ्छ्रुत्वैवं विविधं शुभम् ॥
ददर्श पुरतो विप्रबन्दिदैवज्ञभिक्षुकान् ॥१५॥
ज्वलत्प्रदीपं दधतीं पतिपुत्रवतीं सतीम्॥
पुरो ददर्श स्मेरास्यां नानाभूषणभूषिताम् ॥ ॥ १६ ॥
शिवं शिवां पूर्णकुम्भं चाषं च नकुलं तथा ॥
गच्छन्ददर्श रामश्च यात्रामङ्गलसूचकम् ॥ १७ ॥
कृष्णसारं गजं सिंहं तुरगं गण्डकं द्विपम् ॥
चमरीं राजहंसं च चक्रवाकं शुकं पिकम् ॥ १८ ॥
मयूरं खञ्जनं चैव शङ्खचिल्लं चकोरकम् ॥
पारावतं बलाकं च कारण्डं चातकं चटम् ॥ १९ ॥
सौदामनीं शक्रचापं सूर्य्यं सूर्याप्रभां शुभाम् ॥
सद्योमांसं सजीवं च मत्स्यं शङ्खं सुवर्णकम् ॥ 3.33.२० ॥
माणिक्यं रजतं मुक्तां मणीन्द्रं च प्रवालकम् ॥
दधि लाजाञ्छुक्लधान्यं शुक्लपुष्पं च कुङ्कुमम् ॥ २१ ॥
पर्णं पताकां छत्रं च दर्पणं श्वेतचामरम् ॥
धेनुं वत्सप्रयुक्तां च रथस्थं भूमिपं तथा ॥ २२ ॥
दुग्धमाज्यं तथा पूगममृतं पायसं तथा ॥
शालग्रामं पक्वफलं स्वस्तिकं शर्करां मधु ॥२३॥
मार्ज्जारं च वृषेन्द्रं च मेषं पर्वतमूषिकम् ॥
मेघाच्छन्नस्य च रवेरुदयं चन्द्रमण्डलम्’॥ ॥ २४ ॥
कस्तूरीं व्यजनं तोयं हरिद्रां तीर्थमृत्तिकाम् ॥
सिद्धार्थं सर्षपं दूर्वां विप्रवालं च बालिकाम् ॥ २५ ॥
मृगं वेश्यां षट्पदं च कर्पूरं पीतवाससम् ॥ गो
मूत्रं गोपुरीषं च गोधूलिं गोपदाङ्कितम् ॥ २६ ॥
गोष्ठं गवां वर्त्म रम्यां गोशालां गोगतिं शुभाम् ॥
भूषणं देवमूर्तिं च ज्वलदग्निं महोत्सवम् ॥२७॥
ताम्रं च स्फटिकं वन्द्यं सिन्दूरं माल्यचन्दनम् ॥
गन्धं च हीरकं रत्नं ददर्श दक्षिणे शुभम् ॥२८॥
सुगन्धिवायोराघ्राणं प्राप विप्राशिषं शुभाम् ॥ २९ ॥
इत्येवं मङ्गलं ज्ञात्वा प्रययौ स मुदाऽन्वितः ॥
अस्तं गते दिनकरे नर्म्मदातीरसन्निधौ॥3.33.३०॥
तत्राक्षयवटं दिव्यं ददर्श सुमनोहरम् ॥
अत्यूर्ध्वं विस्तृतमतिपुण्याश्रमपदं परम्॥३ १॥
पौलस्त्यतपसः स्थानं सुगन्धिमरुदन्वितम्॥
कार्तवीर्य्यार्जुनाभ्याशे तत्र तस्थौ गणैः सह॥३२॥
सुष्वाप पुष्पशय्यायां किङ्करैः परिसेवितः॥
निद्रां ययौ परिश्रान्तः परमानन्दसङ्गतः॥३३॥
निशातीते च स भृगुश्चारु स्वप्नं ददर्श ह ॥
न चिन्तितं यन्मनसा वायुपित्तकफं विना ॥ ३४ ॥
गजाश्वशैलप्रासादगोवृक्षफलितेषु च ॥
आरुह्यमाणमात्मानं रुदन्तं कृमिभक्षितम् ॥ ३५ ॥
आरुह्यमाणमात्मानं नौकायां चन्दनोक्षितम् ॥
धृतवन्तं पुष्पमालां शोभितं पीतवाससा ॥ ३६ ॥
विण्मूत्रोक्षितसर्वाङ्गं वसापूयसमन्वितम् ॥
वीणां वरां वादयन्तमात्मानं च ददर्श ह ॥ ३७ ॥
विस्तीर्णपद्मपत्त्रैश्च स्वं ददर्श सरित्तटे ॥
दध्याज्यमधुसंयुक्तं भुक्तवन्तं च पायसम् ॥ ३८ ॥
भुक्तवन्तं च ताम्बूलं लभन्तं ब्राह्मणाशिषम्॥
फलपुष्पप्रदीपं च पश्यन्तं स्वं ददर्श ह॥३९।
परिपक्वफलं क्षीरमुष्णान्नं शर्करान्वितम् ॥
स्वस्तिकं भुक्तवन्तं स्वं ददर्श च पुनः पुनः ॥ 3.33.४० ॥
जलौकसा वृश्चिकेन मीनेन भुजगेन च ॥
भक्षितं भीतमात्मानं पलायन्तं ददर्श सः ॥ ॥ ४१ ॥
ततो ददर्श चात्मानं मण्डलं चन्द्रसूर्य्ययोः ॥
पतिपुत्रवतीं नारीं पश्यन्तं सस्मितं द्विजः ॥ ४२ ॥
सुवेषया कन्यका स स्मितेन द्विजेन च ॥
ददर्श श्लिष्टमात्मानं तुष्टेन परितुष्टया ॥ ४३ ॥
फलितं पुष्पितं वृक्षं देवताप्रतिमां नृपम् ॥
गजस्थं च रथस्थं च पश्यन्तं स्वं ददर्श ह ॥ ४४ ॥
पीतवस्त्रपरीधानां रत्नालङ्कारभूषिताम् ॥
विशन्तीं ब्राह्मणो गेहं पश्यन्तं स्वं ददर्श ह ॥ ४५ ॥
शङ्खं च स्फटिकं श्वेतमालां मुक्तां च चन्दनम् ॥
सुवर्णं रजतं रत्नं पश्यन्तं स्वं ददर्श ह ॥ ४६ ॥
गजं वृषं च सर्पं च श्वेतं च श्वेतचामरम् ॥
नीलोत्पलं दर्पणं च भार्गवो वै ददर्श ह ॥ ४७ ॥
रथस्थं नवरत्नाढ्यं मालतीमाल्यभूषितम् ॥
रत्नसिंहासनस्थं स्वं भृगुः स्वप्ने ददर्श ह ॥ ४८ ॥
पद्मश्रेणीं पूर्णकुम्भं दधि लाजान्घृतं मधु ॥
पर्णच्छत्रं छत्रिणं च भृगुः स्वप्ने ददर्श ह ॥ ४९ ॥
बकपङ्क्तिं हंसपङ्क्तिं कन्यापङ्क्तिं व्रतान्विताम् ॥
पूजयन्तो घटं शुभ्रं भृगुः स्वप्ने ददर्श ह ॥ 3.33.५० ॥
मण्डपस्थं द्विजगणं पूजयन्तं हरं हरिम् ॥
जयोऽस्त्वित्युक्तवन्तं तं भृगुः स्वप्ने ददर्श ह ॥ ५१ ॥
सुधावृष्टिं पर्णवृष्टिं फलवृष्टिं च शाश्वतीम् ॥
पुष्पचन्दनवृष्टिं च भृगुः स्वप्ने ददर्श ह ॥ ५२ ॥
सद्योमांसं जीवमत्स्यं मयूरं श्वेतखञ्जनम् ॥
सरोवरं च तीर्थानि भृगुः स्वप्ने ददर्श ह ॥ ५३ ॥
पारावतं शुकं चाषं शङ्खं चिल्लं च चातकम् ॥
व्याघ्रं सिंहं च सुरभीं भृगुः स्वप्ने ददर्श ह ॥५४॥
गोरोचनां हरिद्रां च शुक्लधान्याचलं वरम् ॥
ज्वलदग्निं तथा दूर्वां भृगुः स्वप्ने ददर्श ह ॥५५॥
देवालयसमूहं च शिवलिङ्गं च पूजितम् ॥
अर्चितां मृन्मयीं शैवां भृगुः स्वप्ने ददर्श ह ॥ ५६ ॥
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च ॥
भृगुर्ददर्श स्वप्ने च बुभुजे च पुनः पुनः ॥ ५७ ॥
दिव्यवस्त्रपरीधाना रत्नभूषणभूषिताः ॥
अगम्यागमनं स्वप्ने चकार भृगुनन्दनः ॥५८॥
ददर्श नर्त्तकीं वेश्यां रुधिरं च सुरां पपौ ॥
रुधिरोक्षितसर्वाङ्गः स्वप्ने च भृगुनन्दनः ॥ ५९ ॥
पक्षिणां पीतवर्णानां मानुषाणां च नारद ॥
मांसानि बुभुजे रामो हृष्टः स्वप्नेऽरुणोदये ॥ 3.33.६० ॥
अकस्मान्निगडैर्बद्धं क्षतं शस्त्रेण स्वं पुनः ॥
दृष्ट्वा च बुबुधे प्रातः समुत्तस्थौ हरिं स्मरन्॥ ६१ ॥
अतीव हृष्टः स्वप्नेन प्रातःकृत्यं चकार सः ॥
मनसा बुबुधे सर्वं विजेष्यामि रिपुं ध्रुवम् ॥ ६२ ॥
इति श्रीब्रह्मवैवत्ते महापुराणे तृतीये गणपति खण्डे नारदनारायणसंवादे त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥