०३२

भृगुरुवाच॥
सम्प्राप्तं कवचं नाष शश्वत्सर्वाङ्गरक्षणम्॥
सुखदं मोक्षदं सारं शत्रुसंहारकारणम्॥१॥
अधुना भगवन्मन्त्रं स्तोत्रं पूजाविधिं प्रभो ॥
देहि मह्यमनाथाय शरणागतपालक ॥२॥
महादेव उवाच ॥
ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय स्वाहा॥
मन्त्रेषु मन्त्रराजोऽयं महान्सप्तदशाक्षरः ॥३॥
सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुङ्गवः॥
तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥
तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् ॥
सुवर्णानां च शतकं पुरश्चरणदक्षिणा ॥ ४ ॥
मन्त्रसिद्धस्य पुंसश्च विश्वं करतले मुने ॥
शक्तः पातुं समुद्रांश्च विश्वं संहर्तुमीश्वरः ॥ ९ ॥
पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः ॥
तस्य संस्पर्शमात्रेण पदपङ्कजरेणुना ॥
पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा ॥ ६ ॥|
ध्यानं च सामवेदोक्तं शृणु मन्मुखतो मुने ॥
सर्वेश्वरस्य कृष्णस्य भक्तिमुक्तिप्रदायि च ॥ ७ ॥
नवीनजलदश्यामं नीलेन्दीवरलोचनम् ॥
शरत्पार्वणचन्द्रास्यमीषद्धास्यं मनोहरम् ॥ ८ ॥
कोटिकन्दर्पलावण्यलीलाधाममनोहरम् ॥
रत्नसिंहासनस्थं तं रत्नभूषणभूषितम् ॥ ९ ॥
चन्दनोक्षितसर्वाङ्गं पीताम्बरधरं वरम् ॥
वीक्ष्यमाणं च गोपीभिः सस्मिताभिश्च सन्ततम् ॥ 3.32.१० ॥
प्रफुल्लमालतीमालावनमाला विभूषितम् ॥
दधतं कुन्दपुष्पाढ्यां चूडां चन्द्रकचर्च्चिताम् ॥ ११ ॥
प्रभां क्षिपन्तीं नभसश्चन्द्रतारान्वितस्य च ॥
रत्नभूषितसर्वाङ्गं राधावक्षःस्थलस्थितम्॥१२॥
सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितम्॥
ब्रह्मविष्णुमहेशैश्च श्रुतिभिश्च स्तुतं भजे॥१३॥
ध्यानेनानेन तं ध्यात्वा चोपचारांस्तु षोडश ॥
दत्त्वा भक्त्या च सम्पूज्य सर्वज्ञत्वं लभेत्पुमान् ॥१४॥
अर्घ्यं पाद्यं चासनं च वसनं भूषणं तथा॥
गामर्घ्यं मधुपर्कं च यज्ञसूत्रमनुत्तमम् ॥१५॥
धूपदीपौ च नैवेद्यं पुनराचमनीयकम् ॥
नानाप्रकारपुष्पाणि ताम्बूलं च सुवासितम्॥ ॥१६॥
मनोहरं दिव्यतल्पं कस्तूर्यगरुचन्दनैः॥
भक्त्या भगवते देयं माल्यं पुष्पाञ्जलित्रयम् ॥ १७ ॥
ततः षडङ्गं सम्पूज्य पश्चात्स म्पूजयेद्गणम्॥
श्रीदामानं सुदामानं वसुदामानमेव च॥१८॥
हरिभानुं चन्द्रभानुं सूर्य्यभानुं सुभानुकम्॥
पार्षदप्रवरान्सप्त पूजयेद्भक्तिभा वतः॥१९॥
गोपीश्वरीं राधिकां च मूलप्रकृतिमीश्वरीम्॥
कृष्णशक्तिं कृष्णपूज्यां पूजयेद्भक्तिपूर्वकम् ॥ 3.32.२० ॥
गोपगोपीगणं शान्तं मां ब्रह्माणं च पार्वतीम् ॥
लक्ष्मीं सरस्वतीं पृथ्वीं सर्वदेवं सपार्षदम्॥२१॥
देवषट्कं समभ्यर्च्य पुनः पञ्चोपचारतः॥
पश्चादेवं क्रमेणैव श्रीकृष्णं पूजयेत्सुधीः ॥२२॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥
देवषट्कं समभ्यर्च्य चेष्टदेवं च पूजयेत् ॥ २३ ॥
गणेशं विघ्ननाशाय व्याधिनाशाय भास्करम् ॥
आत्मनः शुद्धये वह्निं श्रीविष्णुं मुक्तिहेतवे ॥ २४ ॥
ज्ञानाय शङ्करं दुर्गां परमैश्व र्य्यहेतवे ॥
सम्पूजने फलमिदं विपरीतमपूजने ॥२५॥
ततः कृत्वा परीहारमिष्टदेवं च भक्तितः ॥
स्तोत्रं च सामवेदोक्तं पठेद्भक्त्या च तच्छृणु॥२६॥
महादेव उवाच ॥
परं ब्रह्म परं धाम परं ज्योतिः सनातनम्॥
निर्लिप्तं परमात्मानं नमाम्यखिलकारणम्॥२७॥
स्थूलात्स्थूलतमं देवं सूक्ष्मात्सूक्ष्मतमं परम् ॥
सर्वदृश्यमदृश्यं च स्वेच्छाचारं नमाम्यहम् ॥ २८ ॥
साकारं च निराकारं सगुणं निर्गुणं प्रभुम् ॥
सर्वाधारं च सर्वं च स्वेच्छारूपं नमाम्यहम् ॥२९॥
अतीव कमनीयं च रूपं निरुपमं विभुम् ॥
करालरूपमत्यन्तं बिभ्रतं प्रणमाम्यहम् ॥ 3.32.३० ॥
कर्म्मणः कर्मरूपं तं साक्षिणं सर्वकर्मणः ॥
फलं च फलदातारं सर्वरूपं नमाम्यहम् ॥ ३१ ॥
स्रष्टा पाता च संहर्ता कलया मूर्तिभेदतः ॥
नानामूर्तिः कलांशेन यः पुमांस्तं नमाम्यहम् ॥ ३२ ॥
स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान् ॥
तयोः परं स्वयं शश्वत्तन्नमामि परात्परम् ॥ ३३ ॥
स्त्रीपुन्नपुंसकं रूपं यो बिभर्ति स्वमायया ॥
स्वयं माया स्वयं मायी यो देवस्तं नमाम्यहम् ॥ ३४ ॥
तारकं सर्वदुःखानां सर्वकारणकारणम् ॥
धारकं सर्वविश्वानां सर्वबीजं नमाम्यहम् ॥ ३५ ॥
तेजस्विनां रविर्यो हि सर्वजातिषु वाडवः ॥
नक्षत्राणां च यश्चन्द्रस्तं नमामि जगत्प्रभुम् ॥ ३६ ॥
रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शङ्करः ॥
नागानां यो हि शेषश्च तं नमामि जगत्पतिम् ॥ ३७ ॥
प्रजापतीनां यो ब्रह्मा सिद्धानां कपिलः स्वयम् ॥
सनत्कुमारो मुनिषु तं नमामि जगद्गुरुम्॥३८॥
देवानां यो हि विष्णुश्च देवीनां प्रकृतिः स्वयम्॥
स्वायम्भुवो मनूनां यो मानवेषु च वैष्णवः॥
नारीणां शतरूपा च बहुरूपं नमाम्यहम् ॥३९॥
ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षकः ॥
एकादशी तिथीनां च नमाम्यखिलरूपिणम् ॥3.32.४०॥
सागरः सरितां यश्च पर्वतानां हिमालयः ॥
वसुन्धरा सहिष्णूनां तं सर्वं प्रणमाम्यहम् ॥४१॥
पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम् ॥
वृक्षाणां कल्पवृक्षो यस्तं नमामि जगत्पतिम् ॥ ४२ ॥
पुष्पाणां पारिजातश्च सस्यानां धान्यमेव च ॥
अमृतं भक्ष्यवस्तूनां नानारूपं नमाम्यहम्॥४३॥
ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम् ॥
कामधेनुश्च धेनूनां सर्वरूपं नमाम्यहम्॥४४॥
तैजसानां सुवर्णं च धान्यानां यव एव च ॥
यः केसरी पशूनां च वररूपं नमाम्यहम् ॥ ४९ ॥
यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पतिः ॥
दिक्पालानां महेन्द्रश्च तं नमामि परं वरम् ॥ ४६ ॥
वेदसङ्घश्च शास्त्राणां पण्डितानां सरस्वती ॥
अक्षराणामकारो यस्तं प्रधानं नमाम्यहम् ॥ ४७ ॥
मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जाह्नवी स्वयम् ॥
इन्द्रियाणां मनो यो हि सर्वश्रेष्ठं नमाम्यहम् ॥ ॥ ४८ ॥
सुदर्शनं च शस्त्राणां व्याधिनां वैष्णवो ज्वरः ॥
तेजसां ब्रह्मतेजश्च वरेण्यं तं नमाम्यहम् ॥ ४९ ॥
बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् ॥
कालः कलयतां यो हि तं नमामि विलक्षणम् ॥3.32.५०॥
ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु ।
मित्रेषु जन्मदाता यस्तं सारं प्रणमाम्यहम् ॥५१॥
शिल्पिनां विश्वकर्मा यः कामदेवश्च रूपिणाम् ॥
पतिव्रता च पत्नीनां नमस्यं तं नमाम्यहम् ॥ ५२ ॥
प्रियेषु पुत्ररूपो यो नृपरूपो नरेषु च ॥
शालग्रामश्च यन्त्राणां तं विशिष्टं नमाम्यहम् ॥ ५३ ॥
धर्म्मः कल्याणबीजानां वेदानां सामवेदकः ॥
धर्म्माणां सत्यरूपो यो विशिष्टं तं नमाम्यहम् ॥ ५४ ॥
जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु ॥
शब्दरूपश्च गगने तं प्रणम्य नमाम्यहम् ॥ ५५ ॥
क्रतूनां राजसूयो यो गायत्री छन्दसां च यः ॥
गन्धर्वाणां चित्ररथस्तं गरिष्ठं नमाम्यहम् ॥५६॥
क्षीरस्वरूपो गव्यानां पवित्राणां च पावकः॥
पुण्यदानां च यः स्तोत्रं तं नमामि शुभप्रदम् ॥५७॥
तृणानां कुशरूपो यो व्याधिरूपश्च वैरिणाम् ॥
गुणानां शान्तरूपो यश्चित्ररूपं नमाम्यहम् ॥ ५८ ॥
तेजोरूपो ज्ञानरूपः सर्वरूपश्च यो महान्॥
सर्वानिर्वचनीयं च तं नमामि स्वयं विभुम्॥५९॥
सर्वाधारेषु यो वायुर्यथाऽऽत्मा नित्यरूपिणाम् ॥
आकाशो व्यापकानां यो व्यापकं तं नमाम्यहम् ॥ 3.32.६० ॥
वेदानिर्वचनीयं यन्न स्तोतुं पण्डितः क्षमः ॥
यदनिर्वचनीयं च को वा तत्स्तोतुमीश्वरः ॥ ६१ ॥
वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती ॥
तं च वाङ्मनसापारं को विद्वान्स्तोतुमीश्वरः ॥६२॥
शुद्धतेजस्स्वरूपं च भक्तानुग्रहविग्रहम् ॥
अतीव कमनीयं च श्यामरूपं नमाम्यहम् ॥६३॥
द्विभुजं मुरलीवक्त्रं किशोरं सस्मितं मुदा ॥
शश्वद्गोपाङ्गनाभिश्च वीक्ष्यमाणं नमाम्यहम्॥६४॥
राधया दत्तताम्बूलं भुक्तवन्तं मनोहरम्॥
रत्नसिंहासनस्थं च तमीशं प्रणमाम्यहम्॥६५॥
रत्नभूषणभूषाढ्यं सेवितं श्वेतचामरैः॥
पार्षदप्रवरैर्गोपकुमारैस्तं नमाम्यहम्॥६६॥
वृन्दावनान्तरे रम्ये रासोल्लाससमुत्सुकम्॥
रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ॥ ६७ ॥
शतशृङ्गे महाशैले गोलोके रत्नपर्वते ॥
विरजापुलिने रम्ये प्रणमामि विहारिणम्॥६८॥
परिपूर्णतमं शान्तं राधाकान्तं मनोहरम् ॥
सत्यं ब्रह्मस्वरूपं च नित्यं कृष्णं नमाम्यहम् ॥ ६९ ॥
श्रीकृष्णस्य स्तोत्रमिदं त्रिसन्ध्यं यः पठेन्नरः॥
धर्मार्थकाममोक्षाणां स दाता भारते भवेत् ॥ 3.32.७० ॥
हरिदास्यं हरौ भक्तिं लभेत्स्तोत्रप्रसादतः ॥
इह लोके जगत्पूज्यो विष्णुतुल्यो भवेद्ध्रुवम् ॥ ७१ ॥
सर्वसिद्धेश्वरः शान्तोऽप्यन्ते याति हरेः पदम् ॥
तेजसा यशसा भाति यथा सूर्य्यो महीतले॥७२॥
जीवन्मुक्तः कृष्णभक्तः स भवेन्नात्र संशयः ॥
अरोगी गुणवान्विद्वान्पुत्रवान्धनवान्सदा ॥ ७३ ॥
षडभिज्ञो दशबलो मनोयायी भवेद्ध्रुवम् ॥
सर्वज्ञः सर्वदश्चैव स दाता सर्वसम्पदाम् ॥
कल्पवृक्षसमः शश्वद्भवेत्कृष्णप्रसादतः ॥ ७४ ॥
इत्येवं कथितं स्तोत्रं वत्स त्वं गच्छ पुष्करम् ॥
तत्र कृत्वा मन्त्रसिद्धिं पश्चात्प्राप्स्यसि वाञ्छितम् ॥ ७५ ॥
त्रिस्सप्तकृत्वो निर्भूपां कुरु पृथ्वीं यथासुखम् ॥
ममाशिषा मुनिश्रेष्ठ श्रीकृष्णस्य प्रसादतः ॥ ७६ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे स्तवप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः ॥३२॥