०३०

शङ्कर उवाच ॥
कस्त्वं वटो कस्य पुत्रः क्व वासः स्तवनं कथम् ॥
किं वा तेऽहं करिष्यामि वाञ्छितं वद साम्प्रतम् ॥ १ ॥
पार्वत्युवाच ॥
शोकाकुलं त्वां पश्यामि विमनस्कं सुविस्मितम् ॥
वयसाऽतिशिशुं शान्तं गुणेन गुणिनां वरम्॥२।]
भृगुरुवाच ॥
जमदग्निसुतोऽहं च भृगुवंशसमुद्भवः॥
रेणुकाऽम्बा मे परशुरामोऽहं नामतः प्रभो ॥३॥
क्रीणीहि मां दयासिन्धो विद्यापण्येन किङ्करम् ॥
त्वामीशः शरणापन्नं रक्ष मां दीनवत्सल ॥ ४ ॥
मृगयामागतं भूपं पिता मे चोपवासिनम्॥
चकारातिथ्यमानीय कपिलादत्तवस्तुना ॥ ५ ॥
राजा तं कपिलालोभाद्घातयामास मन्दधीः ॥
कपिला तं मृतं दृष्ट्वा गोलोकं च जगाम सा ॥६॥
माताऽनुगमनं चक्रे ह्यनाथोऽहं च साम्प्रतम् ॥
त्वं मे पिता शिवा माता रक्ष मां पुत्रवत्प्रभो ॥ ७ ॥
मया कृता प्रतिज्ञा च शोकेनैवातिदुष्करा ॥
त्रिस्सप्तकृत्वो निर्भूपां करिष्यामि महीमिति ॥ ८ ॥
कार्तवीर्य्यं हनिष्यामि समरे तातघातकम् ॥
इत्येतत्परिपूर्णं मे भगवान्कर्तुमर्हति ॥ ९ ॥
ब्राह्मणस्य वचः श्रुत्वा दृष्ट्वा दुर्गामुखं हरः ॥
बभूवानम्रवक्त्रश्च सा च शुष्कौष्ठतालुका ॥ १० ॥
पार्वत्युवाच ॥
तपस्विन्विप्रपुत्रस्त्वं निर्भूपां कर्तुमिच्छसि ॥
त्रिस्सप्तकृत्वः कोपेन साहसस्ते महान्बटो ॥ ११ ॥
हन्तुमिच्छसि निःशस्त्रः सहस्रार्जुनमीश्वरम् ॥
भ्रूभङ्गलीलया यस्य रावणस्य पराजयः ॥ १२ ॥
तस्मै प्रदत्तं दत्तेन श्रीहरेः कवचं बटो ॥
शक्तिरव्यर्थरूपा च यया ते हिंसितः पिता ॥ १३ ॥
हरेर्म्मन्त्रं संस्तवनं यः पठेच्च दिवानिशम् ॥
को वा शक्नोति तं हन्तुं न पश्यामीह भूतले ॥ १४ ॥
अये विप्र गृहं गच्छ किं करिष्यति शङ्करः ॥
अन्ये भूपाश्च मद्भृत्याः का भीस्तेषां मयि स्थिते॥१५॥
काल्युवाच॥
अये विप्र बटो जाल्म निर्भूपान्कर्तुमिच्छसि॥
यथा हि वामनश्चन्द्रं करेणाहर्तुमिच्छति॥१६॥
कृतयज्ञान्महापुण्यान्महाबलपराक्रमान् ॥
दिगम्बरसहायेन मद्भृत्यान्हन्तुमिच्छसि ॥ १७ ॥
स तयोर्वचनं श्रुत्वा रुरोदोच्चैश्च शोकतः ॥
सहसा पुरतस्तेषां प्राणांस्त्यक्तुं समुद्यतः ॥ १८ ॥
विप्रस्य रोदनं श्रुत्वा शङ्करः करुणानिधिः ॥
पश्यन्दुर्गां च कालीं च ज्ञात्वाऽऽशयमथो विभुः ॥ १९ ॥
तयोरनुमतिं प्राप्य सर्वेशो भक्तवत्सलः ॥
जमदग्निसुतं सद्यः प्रवक्तुमुपचक्रमे ॥ २० ॥
शङ्कर उवाच ॥
अद्यप्रभृति हे वत्स त्वं मे पुत्रसमो महान् ॥
दास्यामि मन्त्रं गुह्यं ते त्रिषु लोकेषु दुर्ल्लभम् ॥ २१ ॥
एवम्भूतं च कवचं दास्यामि परमाद्भुतम् ॥
लीलया मत्प्रसादेन कार्त्तवीर्यं हनिष्यसि ॥ २२ ॥
त्रिस्सप्तकृत्वो निर्भूपां करिष्यसि महीं द्विज ॥
जगत्ते यशसा पूर्णं भविष्यति न संशयः ॥ २३ ॥
इत्युक्त्वा शङ्करस्तस्मै ददौ मन्त्रं सुदुर्लभम् ॥
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ २४ ॥
स्तवं पूजाविधानं च पुरश्चरणपूर्वकम् ॥
मन्त्रसिद्धेरनुष्ठानं यथावन्नियमक्रमम् ॥ २५ ॥
सिद्धिस्थानं कालसङ्ख्यं कथयामास नारद ॥
वेदवेदाङ्गादिकं च पाठयामास तत्क्षणम् ॥ २६ ॥
नागपाशं पाशुपतं ब्रह्मास्त्रं च सुदुर्लभम् ॥
नारायणास्त्रमाग्नेयं वायव्यं वारुणं तथा ॥ २७ ॥
गान्धर्वं गारुडं चैव जृम्भणास्त्रं तथैव च ॥
गदां शक्तिं च परशुं शूलमव्यर्थमुत्तमम् ॥ २८ ॥
नानाप्रकारशस्त्रास्त्रमन्त्रं च विधिपूर्वकम् ॥
शस्त्रास्त्राणां च संहारं तूणी चाक्षयसायकौ ॥ २९ ॥
आत्मरक्षणसन्धानं सङ्ग्रामविजयक्रमम् ॥
मायायुद्धं च विविधं हुङ्कारं मन्त्रपूर्वकम् ॥ ३० ॥
रक्षणं च स्वसैन्यानां परसैन्यविमर्दनम् ॥
नानाप्रकारमतुलमुपायं रणसङ्कटे ॥
संहारे मोहिनीं विद्यां ददौ मृत्युहरां हरः ॥ ३१ ॥
स्थित्वा चिरं गुरोर्वांसे सर्वविद्यां विबोध्य सः ॥
तीर्थे कृत्वा मन्त्रसिद्धिं तांश्च नत्वा जगाम सः ॥३२॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामस्य शिवदत्तास्त्रशस्त्रादिप्राप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥३०॥