नारायण उवाच ॥
ब्रह्मणो वचनं श्रुत्वा प्रणम्य च जगद्गुरुम्॥
स्फीतस्तस्माद्वरं प्राप्य शिवलोकं जगाम सः ॥ १ ॥
लक्षयोजनमूर्ध्वं च ब्रह्मलोकाद्विलक्षणम् ॥
अनिर्वाच्यसुशोभाढ्यं वाय्वाधारं मनोहरम् ॥ २ ॥
वैकुण्ठं दक्षिणे यस्य गौरीलोकश्च वामतः ॥
यदधो धुवलोकश्च सर्वलोकात्परः स्मृतः ॥ ३ ॥
तेषामूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः ॥
अत ऊर्ध्वं न लोकश्च सर्वोपरि च स स्मृतः ॥ ४ ॥
मनोयायी स योगीन्द्रः शिवलोकं ददर्श ह ॥
उपमानोपमेयाभ्यां रहितं महदद्भुतम् ॥५॥
योगीन्द्राणां वरेण्यैश्च सिद्धविद्याविशारदैः॥
कोटिकल्पतपःपूतैः पुण्यवद्भिर्निषेवितम्॥६॥
वेष्टितं कल्पवृक्षाणां समूहैर्वाञ्छितप्रदैः ॥
समूहैः कामधेनूनामसङ्ख्यानां विराजितम् ॥ ७ ॥
पारिजाततरूणां च वनराजिविराजितम् ॥
पुष्पोद्यानायुतैर्युक्तं सदा चातिसुशोभितम् ॥ ८ ॥
मणीन्द्रसाररचितैः शोभितैर्मणिवेदिभिः ॥
राजमार्गशतैर्दिव्यैः सर्वतः परिभूषितम् ॥९॥
मणीन्द्रासारनिर्माणशतकोटिगृहैर्युतम् ॥
नानाचित्रविचित्राढ्यैर्मणीन्द्रकलशोज्ज्वलैः ॥ १० ॥
तन्मध्यदेशे रम्ये च ददर्श शङ्करालयम् ॥
मणीन्द्रसाररचितप्राकारं सुमनोहरम् ॥ ११ ॥
अत्यूर्ध्वमम्बरस्पर्शि क्षीरनीरनिभं परम् ॥
षोडशद्वारसंयुक्तं शोभितं शतमन्दिरैः ॥ १२ ॥
अमूल्यरत्नरचितै रत्नसोपानभूषितैः ॥
रत्नस्तम्भकपाटैश्च हीरकेण परिष्कृतैः ॥ १३ ॥
माणिक्यजालमालाभिः सद्रत्नकलशोज्ज्वलैः ॥
नानाविचित्रचित्रेण चित्रितैः सुमनोहरैः ॥ १४ ॥
आलयस्य पुरस्तत्र सिंहद्वारं ददर्श सः ॥
रत्नेन्द्रसारखचितकपाटैश्च विराजितैः ॥ १५ ॥
शोभितं वेदिकाभिश्च बाह्याभ्यन्तरतः सदा ॥
रचिताभिः पद्मरागैर्महामरकतैर्गृहम् ॥ १६ ॥
नानाप्रकारचित्रेण चित्रितं सुमनोहरम् ॥
करालरूपावद्राक्षीद् द्वारपालौ भयङ्करौ ॥ ॥ १७ ॥
महाकरालदन्तास्यौ विरक्तौ रक्तलोचनौ ॥
दग्धशैलप्रतीकाशौ महाबलपराक्रमौ ॥ १८ ॥
विभूतिभूषिताङ्गौ च व्याघ्रचर्माम्बरौ वरौ ॥
पिङ्गलाक्षौ विशालाक्षौ जटिलौ च त्रिलोचनौ ॥१९॥
त्रिशूलपट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा ॥
तौ दृष्ट्वा मनसा भीतस्त्रस्तः किञ्चिदुवाच ह ॥ २० ॥
विनयेन विनीतश्च दुर्विनीतौ महाबलौ ॥
आत्मनः सर्ववृत्तान्तं कथयामास तत्पुरः ॥ ॥ २१ ॥
विप्रस्य वचनं श्रुत्वा कृपायुक्तौ बभूवतुः ॥
गृहीत्वाऽऽज्ञां चरद्वारा शङ्करस्य महात्मनः ॥ २२ ॥
प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ वरौ ॥
भृगुस्तदाज्ञामादाय प्रविवेश हरिं स्मरन् ॥ २३ ॥
प्रत्येकं षोडश द्वारो ददर्श सुमनोहराः ॥
द्वारपालैर्नियुक्ताश्च नानाचित्रविचित्रिताः ॥ २४ ॥
दृष्ट्वा ता महदाश्चर्य्यादपश्यच्छूलिनः सभाम् ॥
नानासिद्धगणाकीर्णां महर्षिगणसेविताम् ॥ २५ ॥
पारिजातसुगन्धाढ्यवायुना सुरभीकृताम् ॥
ददर्श तत्र देवेशं शङ्करं चन्द्रशेखरम् ॥ २६ ॥
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परम्॥
विभूतिभूषिताङ्गं तं नागयज्ञोपवीतिनम् ॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥२७॥
महाशिवं शिवकरं शिवबीजं शिवाश्रयम्॥
आत्मारामं पूर्णकामं सूर्य्यकोटिसमप्रभम् ॥ २८ ॥
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकातरम् ॥
शश्वज्ज्योतिस्स्वरूपं च लोकानुग्रहविग्रहम्॥२९॥
धृतवन्तं जटाजालं दक्षकन्यासमन्वितम् ॥
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥३०॥
शुद्धस्फटिकसङ्काशं पञ्च वक्त्रं त्रिलोचनम् ॥
गुह्यं ब्रह्म प्रवोचन्तं शिष्येभ्यस्तत्त्वमुद्रया ॥ ३१ ॥
स्तूयमानं च योगीन्द्रैः सिद्धेन्द्रैः परिसेवितम् ॥
पार्षदप्रवरैश्शश्वत्सेवितं श्वेतचामरैः॥३२॥
ध्यायमानं परं ब्रह्म परिपूर्णतमं परम्॥
स्वेच्छामयं गुणातीतं जरामृत्युहरं परम्॥३३॥
ज्योतीरूपं च सर्वाद्यं श्रीकृष्णं प्रकृतेः परम् ॥
ध्यायन्तं परमानन्दं पुलकाञ्चितविग्रहम् ॥
सुस्वरं साश्रुनेत्रं तमुद्गायन्तं गुणार्णवम् ॥ ३४ ॥
भूतेन्द्रैर्वै रुद्रगणैः क्षेत्रपालैश्च वेष्टितम् ॥
मूर्ध्ना ननाम परशुरामो दृष्ट्वा तमादरात् ॥ ३५ ॥
तद्वामे कार्त्तिकेयं च दक्षिणे च गणेश्वरम् ॥
नन्दीश्वरं महाकालं वीरभद्रं च तत्पुरः ॥
अङ्के ददर्श कान्तां तां गौरीं शैलेन्द्रकन्यकाम् ॥ ३६ ॥
ननाम सर्वान्मूर्ध्ना च भक्त्या च परया मुदा ॥
दृष्ट्वा हरं परं तोषात्स्तोतुं समुपचक्रमे ॥३७॥
सगद्गदपदं दीनस्साश्रुनेत्रोऽतिकातरः ॥
कृताञ्जलिपुटः शान्तः शोकार्तः शोकनाशनम् ॥ ३८ ॥
परशुराम उवाच ॥
ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमः ॥
अक्षराक्षयबीजं च किं वा स्तौमि निरीहकम् ॥३९॥
न योजनां कर्त्तुमीशो देवेशं स्तौमि मूढधीः ॥
वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥ ॥४०॥
वाग्बुद्धिमनसां दूरं सारात्सारं परात्परम् ॥
ज्ञानमात्रेण साध्यं च सिद्धं सिद्धैर्निषेवितम्॥ ४१॥
यमाकाशमिवाद्यन्तमध्यहीनं तथाऽव्ययम् ॥
विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥ ४२ ॥
ध्यानासाध्यं दुराराध्यमतिसाध्यं कृपानिधिम् ॥
त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥ ४३ ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥
स्वप्नेऽप्यदृष्टं भक्तैश्चाधुना पश्यामि चक्षुषा ॥ ४४ ॥
शक्रादयः सुरगणाः कलया यस्य सम्भवाः ॥
चराचराः कलांशेन तं नमामि महेश्वरम् ॥ ४५ ॥
स्त्रीरूपं क्लीबरूपं च पौरुषं च बिभर्ति यः ॥
सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् ॥ ४६ ॥
यं भास्करस्वरूपं च शशिरूपं हुताशनम् ॥
जलरूपं वायुरूपं तं नमामि महेश्वरम् ॥ ४७ ॥
अनन्तविश्वसृष्टीनां संहर्तारं भयङ्करम् ॥
क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ॥४८॥
यः कालः कालकालश्च कलिर्बीजं च कालजः॥
अजः प्रजश्च यः सर्वस्तं नमामि महेश्वरम्॥४९॥
इत्येवमुक्त्वा स भृगुः पपात चरणाम्बुजे ॥
आशिषं च ददौ तस्मै सुप्रसन्नो बभूव सः ॥ ५० ॥
जामदग्न्यकृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ॥
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ ५१ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामस्य कैलासगमननामैकोनत्रिंशोऽध्यायः ॥ २९ ॥