रेणुकोवाच ॥
ब्रह्मन्ननुगमिष्यामि प्राणनाथस्य साम्प्रतम् ।
ऋतोश्चतुर्थदिवसे मृतोऽयं चाद्य मानदः ॥ १ ॥
कर्त्तव्या का व्यवस्थाऽत्र वद वेदविदां वर॥
त्वमागतो मे सहसा पुण्येन कतिजन्मनाम् ॥२॥
भृगुरुवाच ॥ अहो पुण्यवतो भर्तुरनुगच्छ महासति ॥
चतुर्थदिवसं शुद्धं स्वामिनः सर्वकर्मसु ॥ ३ ॥
शुद्धा भर्त्तुश्चतुर्थेऽह्नि न शुद्धा दैवपित्र्ययोः ॥
दैवे कर्मणि पित्र्ये च पञ्चमेऽह्नि विशुद्ध्यति ॥ ४ ॥
व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ॥
तद्वत्स्वामिनमादाय साध्वी स्वर्गं प्रयाति च ॥५॥
मोदते स्वामिना तत्र यावदिन्द्राश्चतुर्दश ॥
अत ऊर्ध्वं कर्मभोगं भुङ्क्ष्व साध्वि शुभाशुभम् ॥ ६ ॥
स पुत्रो भक्तिदाता यः सा च स्त्री याऽनुगच्छति ॥
स बन्धुर्दानदाता यः स शिष्यो गुरुमर्चयेत् ॥ ७ ॥
सोऽभीष्टदेवो यो रक्षेत्स राजा पालयेत्प्रजाः ॥
स च स्वामी प्रियां धर्मे मतिं दातुमिहेश्वरः ॥ ८ ॥
स गुरुर्धर्मदाता यो हरिभक्तिप्रदायकः ॥
एते प्रशंस्या वेदेषु पुराणेषु च निश्चितम् ॥ ९ ॥
रेणुकोवाच ॥
गन्तुं स्वस्वामिना सार्द्धं का शक्ता भारते मुने ॥
का वाऽप्यशक्ता नारीषु तन्मे ब्रूहि तपोधन ॥ १० ॥
भृगुरुवाच ॥
बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ॥
रजस्वला च कुलटा गलितव्याधिसंयुता ॥ ११ ॥
पतिसेवाविहीना या ह्यभक्ता कटुभाषिणी ॥
एता गच्छन्ति चेद्दैवान्न कान्तं प्राप्नुवन्ति ताः ॥ १२ ॥
संस्कृताग्निं पुरो दत्त्वा चितासु शयितं पतिम् ॥
कान्तास्तमनुगच्छन्ति कान्ताश्चेत्प्राप्नुवन्ति ताः ॥ १३ ॥
अनुगच्छन्ति याः कान्तं तमेव प्राप्नुवन्ति ताः ॥
सार्द्धं कृत्वा पुण्यभोगं दिवि जन्मनि जन्मनि ॥ १४ ॥
इयं ते कथिता साध्वि व्यवस्था गृहिणां ध्रुवम् ॥
तीर्थे ज्ञानमृतानां च वैष्णवानां गतिं शृणु॥ ॥ १५ ॥
या साध्वी वैष्णवं कान्तं यत्र यत्रानुगच्छति ॥
प्रयाति स्वामिना सार्द्धं वैकुण्ठे हरिसन्निधिम् ॥ १६ ॥
विशेषो नास्ति भक्तानां तीर्थे वाऽन्यत्र नारद ॥
मरणेन फलं तुल्यं मुक्तानां कृष्णभाविनाम् ॥ १७ ॥
तयोः पातो नास्ति तस्मान्महति प्रलयं सति ॥
नारायणं तं भजेत पुमान्स्त्री कमलालयाम् ॥ १८ ॥
तीर्थे ज्ञानमृतश्चापि वैकुण्ठं याति निश्चितम् ॥
सभार्यो मोदते तत्र यावद्वै ब्रह्मणां शतम् ॥ १९ ॥
इत्युक्त्वा रेणुकां तत्र जामदग्न्यमुवाच ह ॥
वेदोक्तं वचनं सर्वं स भृगुः समयोचितम् ॥ २० ॥
एहि वत्स महाभाग त्यज शोकममङ्गलम् ॥
उत्तानं कुरु तातं च दक्षिणाशिरसं भृगो ॥ २१ ॥
वस्त्रयज्ञोपवीतं च नूतनं परिधापय ॥
अनश्रुनयनो भूत्वा सन्तिष्ठन्दक्षिणामुखः ॥ २२ ॥
अरणीसम्भवाग्निं च गृहाण प्रीतिपूर्वकम् ॥
पृथिव्यां यानि तीर्थानि सर्वेषां स्मरणं कुरु ॥ २३ ॥
गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः ॥
कुरुक्षेत्रं च गङ्गां च यमुनां च सरिद्वराम् ॥२४॥
कौशिकीं चन्द्रभागां च सर्वपापप्रणाशिनीम् ॥
गण्डकीमथ काशीं च पनसां सरयूं तथा ॥ २५ ॥
पुष्पभद्रां च भद्रां च नर्मदां च सरस्वतीम् ॥
गोदावरीं च कावेरीं स्वर्णरेखां च पुष्करम् ॥ २६ ॥
रैवतं च वराहं च श्रीशैलं गन्धमादनम् ॥
हिमालयं च कैलासं सुमेरुं रत्नपर्वतम् ॥ २७ ॥
वाराणसीं प्रयागं च पुण्यं वृन्दावनं वनम् ॥
हरिद्वारं च बदरीं स्मारंस्मारे पुनः पुनः ॥ २८ ॥
चन्दनागरुकस्तूरीसुगन्धिकुसुमं तथा ॥
प्रदाय वाससाऽऽच्छाद्य स्थापयैनं चितोपरि ॥ २९ ॥
कर्णाक्षिनासिकास्ये त्वं शलाकां च हिरण्मयीम् ॥
कृत्वा निर्मन्थनं तात विप्रेभ्यो देहि सादरम् ॥३०॥
सतिलं ताम्रपात्रं च धेनुं च रजतं तथा ॥
सदक्षिणं सुवर्णं च दत्त्वाऽग्निं देह्यकातरः ॥ ३१ ॥
ॐ कृत्वा दुष्कृतं कर्म्म जानता वाऽप्यजानता ॥
मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ॥ ३२ ॥
धर्माधर्मसमायुक्तं लोभमोहसमावृतम् ॥
दह सर्वाणि गात्राणि दिव्याल्ँलोकान्स गच्छतु ॥ ॥ ३३ ॥
इमं मन्त्रं पठित्वा तु तातं कृत्वा प्रदक्षिणम् ॥
मन्त्रेणानेन देह्यग्निं जनकाय हरिं स्मरन् ॥ ३४ ॥
ॐ अस्मत्कुले त्वं जातोऽसि त्वदीयो जायतां पुनः ॥
असौ स्वर्गाय लोकाय स्वाहेति वद साम्प्रतम् ॥३५॥
अग्निं देहि शिरःस्थाने हे भृगो भ्रातृभिः सह ॥
तच्चकार भृगुः सर्वं सगोत्रैराज्ञया भृगोः ॥ ३६ ॥
अथ पुत्रं रेणुका सा कृत्वा तत्र स्ववक्षसि ॥
उवाच किञ्चिद्वचनं परिणामसुखावहम् ॥ ३७ ॥
अविरोधो भवाब्धौ च सर्वमङ्गलमङ्गलम् ॥
विरोधो नाशबीजं च सर्वोपद्रवकारणम् ॥ ३८ ॥
अकर्तव्यो विरोधो वै दारुणैः क्षत्रियैः सह ॥
प्रतिज्ञा चैव कर्त्तव्या मदीये वचने श्रुते ॥३९ ॥
आलोच्य ब्रह्मणा सार्द्धं भृगुणा दिव्यमन्त्रिणा ॥
यथोचितं च कर्तव्यं सद्भिरालोचनं शुभम् ॥४०॥
इत्युक्त्वा तं परित्यज्य कान्तं कृत्वा स्ववक्षसि॥
सा सुष्वाप चितायां च पश्यन्ती तं हरिस्मृतिः ॥४१॥
वह्निं ददौ चितायां च स रामो भ्रातृभिः सह ॥
भ्रातृभिः पितृशिष्यैश्च सार्द्धं स विललाप च ॥ ४२ ॥
राम रामेति रामेति वाक्यमुच्चार्य्य सा सती ॥
पुरस्ताज्जामदग्न्यस्य भस्मीभूता बभूव सा॥४३॥
भर्तुर्नाम समाकर्ण्य तत्राजग्मुर्हरेश्चराः॥
रथस्थाः श्यामवर्णाश्च सर्वे चारुचतुर्भुजाः ॥ ४४ ॥
शङ्खचक्रगदापद्मधारिणो वनमालिनः ॥
किरीटिनः कुण्डलिनः पीतकौशेयवाससः ॥४५॥
रथे कृत्वा रेणुकां तां गत्वा ते ब्रह्मणः पदम् ॥
जमदग्निं समादाय प्रजग्मुर्हरिसन्निधिम् ॥४६॥
तौ दम्पती च वैकुण्ठे तस्थतुर्हरिसन्निधौ ॥
कृत्वा दास्यं हरेः शश्वत्सर्वमङ्गलमङ्गलम् ॥ ४७ ॥
अथ रामो ब्राह्मणैश्च भृगुणा सह नारद ॥
पित्रोः शेषक्रियां कृत्वा ब्राह्मणेभ्यो धनं ददौ ॥ ४८ ॥
गोभूहिरण्यवासांसि दिव्यशय्यां मनोरमाम् ॥
सुवर्णाधारसहितां जलमन्नं च चन्दनम् ॥ ४९ ॥
रत्नदीपं रौप्यशैलं सुवर्णासनमुत्तमम् ॥
सुवर्णाधारसहितं ताम्बूलं च सुवासितम् ॥५०॥
छत्रं च पादुके चैव फलं माल्यं मनोहरम् ॥
फलं मूलादिकं चैव मिष्टान्नं च मनोहरम् ॥
ब्राह्मणेभ्यो धनं दत्त्वा ब्रह्मलोकं जगाम सः ॥ ५१ ॥
ददर्श ब्रह्मलोकं स शातकुम्भविनिर्मितम् ॥
स्वर्णप्राकारसंयुक्तं स्वर्णस्तम्भैर्विभूषितम् ॥ ५२ ॥
ददर्श तत्र ब्रह्माणं ज्वलन्तं ब्रह्मतेजसा॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥ ५३ ॥
सिद्धैस्तपश्चान्द्रायणैर्ऋषीन्द्रैः परिवेष्टितम् ॥
विद्याधरीणां नृत्यं च पश्यन्तं सस्मितं मुदा ॥५४॥
सङ्गीतमुपशृण्वन्तं गीयमानं च गायकैः ॥
चन्दनागरुकस्तूरीकुङ्कुमेन विराजितम् ॥५५॥
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥
धातारं सर्वजगतां कर्तारं चेश्वरं परम् ॥ ५६ ॥
परिपूर्णतमं ब्रह्म जपन्तं कृष्णमीश्वरम् ॥
गुह्ययोगं प्रवोचन्तं पृच्छन्तं शिष्यमण्डलम् ॥ ५७ ॥
दृष्ट्वा तमव्ययं भक्त्या प्रणनाम भृगुः पुरः ॥
उच्चैश्च रोदनं कृत्वा स्ववृत्तान्तमुवाच ह॥ ॥ ५८ ॥
भृगुरुवाच ॥ ब्रह्मंस्त्वद्वंशजातोऽहं जमदग्निसुतो विधे ॥
पितामहस्त्वमस्माकं सर्वज्ञं कथयामि किम् ॥ ५९ ॥
मृगयामागतं भूपं पिता मे चोपवासिनम् ॥
पारणां कारयामास कपिलादत्तवस्तुना ॥ ६० ॥
स राजा कपिलालोभात्कार्तवीर्य्यार्जुनः स्वयम् ॥
घातयामास मत्तातमित्युक्त्वोच्चै रुरोद सः ॥६१॥
निरुध्य बाष्पं स पुनरुवाच करुणानिधिः ॥
माता मेऽनुगता साध्वी मां विहाय जगद्गुरो ॥ ६२ ॥
अधुनाऽहमनाथश्च त्वं मे माता पिता गुरुः ॥
कर्ता पालयिता दाता पाहि मां शरणागतम् ॥६३॥
आगतोऽहं तव सभां प्रमातुर्मातुराज्ञया ॥
उपायेन जगन्नाथ मद्वैरिहननं कुरु ॥६४॥
स राजा स च धर्मिष्ठः स दयालुर्यशस्करः ॥
स पूज्यः स स्थिरश्रीश्च यो दीनं परिपालयेत् ॥ ६५ ॥
धनिदीनौ समं दृष्ट्वा यः प्रजां न च पालयेत् ॥
तद्देहाद्याति रुष्टा श्रीः स भवेद्भ्रष्टराज्यकः ॥ ६६ ॥
श्रुत्वा विप्रबटोर्वाक्यं करुणासागरो विधिः ॥
दत्त्वा शुभाशिषं तस्मै वासयामास वक्षसि ॥ ६७ ॥
श्रुत्वा भृगोः प्रतिज्ञां च विस्मितश्चतुराननः ॥
अतीव दुष्करां घोरां बहुजीवविघातिनीम् ॥ ६८ ॥
कर्मणा तद्भवेत्सर्वमिति कृत्वा तु मानसे ॥
उवाच जामदग्न्यं तं परिणामसुखावहम् ॥६९॥
ब्रह्मोवाच ॥
प्रतिज्ञा दुष्करा वत्स वहुजीवविघातिनी॥
सृष्टिरेषा भगवतः सम्भवेदीश्वरेच्छया ॥ ७० ॥
सृष्टिः सृष्टा मया पुत्र क्लेशेनैवेश्वराज्ञया ॥
सृष्टिलुप्तौ प्रतिज्ञा ते दारुणाऽकरुणा परा ॥ ७१ ॥
त्रिस्सप्तकृत्वो निर्भूपां कर्तुमिच्छसि मेदिनीम् ॥
एकक्षत्त्रियदोषेण तज्जातिं हन्तुमिच्छसि ॥ ७२ ॥
ब्रह्मक्षत्त्रियविट्छूद्रैर्नित्या सृष्टिश्चतुर्विधैः ॥
आविर्भूता तिरोभूता हरेरेव पुनः पुनः ॥ ७३ ॥
अन्यथा त्वत्प्रतिज्ञा च भविता प्राक्तनेन ते ॥
बह्वायासेन ते कार्य्यसिद्धिर्भवितुमर्हति ॥ ७४ ॥
शिवलोकं गच्छ वत्स शङ्करं शरणं व्रज ॥
पृथिव्यां बहवो भूपाः सन्ति शङ्करकिङ्कराः ॥ ॥ ७५ ॥
विनाऽज्ञया महेशस्य को वा तान्हन्तुमीश्वरः ॥
बिभ्रतः कवचं दिव्यं शक्तेर्वै शङ्करस्य च ॥ ७६ ॥
उपायं कुरु यत्नेन जयबीजं शुभावहम् ॥
उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः ॥ ७७ ॥
श्रीकृष्णमन्त्रकवचग्रहणं कुरु शङ्करात् ॥
दुर्लभं वैष्णवं तेजः शैवं शाक्तं विजेष्यति ॥ ७८ ॥
गुरुस्ते जगतां नाथः शिवो जन्मनि जन्मनि ॥
मन्त्रो मत्तो न युक्तस्ते यो युक्तः स भवेद्विधिः ॥ ७९ ॥
कर्मणा लभ्यते मन्त्रः कर्मणा लभ्यते गुरुः ॥
स्वयमेवोपतिष्ठन्ते ये येषां तेषु ते धुवम् ॥ ८० ॥
त्रैलोक्य विजयं नाम गृहीत्वा कवचं वरम् ॥
त्रिस्सप्तकृत्वो निर्भूपां करिष्यसि महीं भृगो ॥ ८१ ॥
दिव्यं पाशुपतं तुभ्यं दाता दास्यति शङ्करः ॥
तेन दत्तेन मन्त्रेण क्षत्रसङ्घं विजेष्यसि ॥ ८२ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे भृगोर्ब्रह्मलोकगमने ब्रह्मोक्तोपायवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥