०२७

नारायण उवाच ॥
हरिं स्मृत्वा गृहं गत्वा राजा विस्मितमानसः ॥
आजगाम महारण्ये जमदग्न्याश्रमं पुनः ॥ १ ॥
रथानां च चतुर्लक्षं रथिनां दशलक्षकम् ॥
अश्वेन्द्राणां गजेन्द्राणां पदा तीनामसङ्ख्यकम् ॥२॥
राजेन्द्राणां सहस्रं च महाबलपराक्रमम् ॥
महासमृद्धियुक्तश्च त्रैलोक्यं जेतुमीश्वरः ॥३॥
सर्वतो वेष्टयामास जमदग्न्याश्रमं मुदा ॥
रथस्थो वर्मयुक्तश्च कार्त्तवीर्य्यार्जुनः स्वयम् ॥ ४ ॥
सैन्यशब्दैर्वाद्यशब्दैर्महाकोलाहलैर्मुने ॥
जमदग्न्याश्रमस्थाश्च मूर्च्छामापुर्भयेन च ॥ ५ ॥
कुटीं प्रविश्य बलवान्गृहीत्वा कपिलां शुभाम् ॥
पुरं गन्तुं मनश्चक्रे दुर्बुद्धिरसदाश्रयः ॥ ६ ॥
समुत्तस्थौ मुनिश्रेष्ठो गृहीत्वा सशरं धनुः ॥
एकाकी मुक्तगात्रश्च धेनुं नत्वा हरिं स्मरन् ॥७॥
आश्रमस्थाञ्जनान्सर्वान्समाश्वास्य च यत्नतः ॥
आजगाम रणस्थानं निश्शङ्को नृपतेः पुरः ॥८॥
निर्ममे शरजालं च स मुनिर्मन्त्रपूर्वकम् ॥
आच्छादयत्स्वाश्रमं तैर्मानवं वर्मणा यथा ॥ ९ ॥
अपरं शरजालं च निर्ममे मुनिपुङ्गवः ॥
तैरेव वारयामास सर्वसैन्यं यथाक्रमम् ॥ १० ॥
मुनिना शरजालेन सर्वसैन्यं समावृतम् ॥
तानि सर्वाणि गुप्तानि यथा पत्राणि पञ्जरे ॥ ११ ॥
राजा दृष्ट्वा मुनिश्रेष्ठमवरुह्य रथात्पुरः ॥
सार्द्धं नृपेन्द्रैर्भक्त्या च प्रणनाम कृताज्जलिः॥१२॥
नत्वाऽऽरुरोह यानं स मुनेः प्राप्य शुभाशिषः ॥
आरुह्य च नृपश्रेष्ठः स्वयानं हृष्टमानसः ॥ ॥१३॥
नृपैः सार्द्धं नृपश्रेष्ठश्चिक्षेप मुनिपुङ्गवे॥
अस्त्रं शस्त्रं गदां शक्तिं जघान क्रीडया मुनिः ॥
मुनिश्चिक्षेप दिव्यास्त्रं चिच्छिदे लीलया नृपः ॥ १४ ॥
शूलं चिक्षेप नृपतिस्तञ्जघान तदा मुनिः ॥
अपरं शरजालं च निर्ममे मुनिपुङ्गवः ॥ १५ ॥
शस्त्रौघैर्दुर्निवार्य्यैश्च खण्डं खण्डं चकार च सः ॥
निबद्धाश्शरजालेन न च शक्ताः पलायितुम् ॥ १६ ॥
जृम्भणास्त्रेण मुनिना ते च सर्वे विजृम्भिताः ॥
हस्त्यश्वरथपादातसहितं सर्वसैन्यकम् ॥१७॥
राजानं निद्रितं दृष्ट्वा न जघान मुनीश्वरः ॥
गृहीत्वा कपिलां हृष्टो रुदन्तीं शोकमूर्च्छिताम् ॥
बोधयित्वा पुरः कृत्वा स्वाश्रमं गन्तुमुद्यतः ॥ १८ ॥
एतस्मिन्नन्तरे राजा चेतनां प्राप्य नारद ॥
निवारयामास मुनिं गृहीत्वा सशरं धनुः ॥ १९ ॥
जगाम कपिला त्रस्ता स्वस्थानं च रणाजिरात् ॥
मुनिश्च तस्थौ निश्शङ्को गृहीत्वा सशरं धनुः ॥ २० ॥
ब्रह्मास्त्रं च नृपश्रेष्ठः स चिक्षेप मुनौ तदा ॥
ब्रह्मास्त्रेण मुनीन्द्रस्य सद्यो निर्वाणतां गतम् ॥२१ ॥
दिव्यास्त्रेण मुनिश्रेष्ठो नृपस्य सशरं धनुः ॥
रथं च सारथिं चैव चिच्छिदे वर्म दुर्वहम् ॥ २२ ॥
अथ राजा महाक्रुद्धो ददर्श स्वसमीपतः ॥
दत्तेन दत्तां शक्तिं तामेकपूरुषघातिनीम् ॥२३॥
जग्राह नत्वा दत्तं तं स नत्वा शक्तिमुल्बणाम् ॥
चूर्णयामास तत्रैव शतसूर्य्यसमप्रभाम्॥ ॥ २४ ॥
यत्तेजः सर्वदेवानां तेजो नारायणस्य च ॥
शम्भोश्च ब्रह्मणश्चैव मायायाश्चैव नारद ॥ २५ ॥
तत्रैवावाहयामास स योगी मन्त्रपूर्वकम् ॥
तेजसा द्योतयामास गगनं च दिशो दश ॥२६॥
दृष्ट्वा क्षिपन्तीं तां देवा हाहाकारेण चुक्रुशुः॥
आकाशस्थाश्च समरं पश्यन्तो दुःखिता हृदा ॥ २७ ॥
चिक्षेप तां चूर्णयित्वा कार्तवीर्य्यार्जुनः स्वयम् ॥
सद्यः पपात सा शक्तिर्ज्वलन्ती मुनिवक्षसि ॥ २८ ॥
विदार्य्योरो मुनेः शक्तिर्जगाम हरिसन्निधिम् ॥
दत्ताय हरिणा दत्ता शस्त्रास्त्रनिधये तदा ॥ २९ ॥
मूर्च्छां सम्प्राप्य स मुनिः प्राणांस्तत्याज तत्क्षणम् ॥
तेजोऽम्बरे भ्रमित्वा च ब्रह्मलोकं जगाम ह ॥३०॥
युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः॥
हे तात तातेत्युच्चार्य्य गोलोकं सा जगाम ह ॥ ३१ ॥
सर्वं सा कथयामास गोलोके कृष्णमीश्वरम् ॥
रत्नसिंहासनस्थं तं गोपैर्गोपीभिरावृतम् ॥ ३२ ॥
कृष्णेन ब्रह्मणे दत्ता ब्रह्मणा भृगवे पुरा ॥
सा प्रीत्या पुष्करे ब्रह्मन्भृगुणा जमदग्नये ॥ ३३ ॥
नत्वा च कामधेनूनां समूहं सा जगाम ह ॥
तदश्रुबिन्दुना मर्त्त्ये रत्नसन्धो बभूव ह ॥३४॥
अथ राजा तं निहत्य बोधयित्वा स्वसैन्यकम् ॥
प्रायश्चित्तं विनिर्वर्त्य जगाम स्वपुरं मुदा ॥ ३५ ॥
प्राणनाथं मृतं श्रुत्वा जगाम रेणुका सती॥
मुनिं वक्षसि संस्थाप्य क्षणं मूर्च्छा मवाप सा ॥ ३६ ॥
ततः सा चेतनां प्राप्य न रुरोद पतिव्रता ॥
एहि वत्स भृगो राम राम रामेत्युवाच ह ॥ ३७ ॥
आजगाम भृगुस्तूर्णं क्षणाद्वै पुष्करादहो ॥
ननाम मातरं भक्त्या मनोयायी च योगवित् ॥ ३८ ॥
दृष्ट्वा रामो मृतं तातं शोकार्तां जननीं सतीम् ॥
आकर्ण्य रणवृत्तान्तं प्रयान्तीं कपिलां शुचा ॥ ३९ ॥
विललाप भृशं तत्र हे तात जननीति च ॥
चितां चकार योगी न्द्रश्चन्दनैराज्यसंयुताम् ॥ ४० ॥
रेणुका राममादाय तूर्णं कृत्वा स्ववक्षसि ॥
चुचुम्ब गण्डे शिरसि रुरोदोच्चैर्भृशं मुहुः ॥ ४१ ॥
राम राम महाबाहो क्व यामि त्वां विहाय च ॥
वत्स वत्सेति कृत्वैवं विललाप भृशं मुहुः ॥ ४२ ॥
मत्प्राणाधिक हे वत्स मदीयं वचनं शृणु ॥
पित्रोः शेषक्रियां कृत्वा याया युद्धं न पुत्रक ॥ ४३ ॥
गृहे तिष्ठ सुखं वत्स तपस्यां कुरु शाश्वतीम् ॥
समरं नैव सुखदं दारुणैः क्षत्रियैः सह ॥ ४४॥
मातुर्वचनमश्रुत्वा प्रतिज्ञां तां चकार ह ॥
त्रिस्सप्तकृत्वो निर्भूपां करिष्यामि ध्रुवं महीम् ॥ ॥ ४९ ॥
कार्तवीर्यं हनिष्यामि लीलया क्षत्रियाधमम् ॥
पितॄंश्च तर्पयिष्यामि क्षत्रियक्षतजैस्तथा ॥ ४६ ॥
इत्युदीर्य्य पुरो मातुर्विललाप मुहुर्मुहुः ॥
हितं तथ्यं नीतिसारं बोधयामास मातरम् ॥ ४७ ॥
राम उवाच ॥
पितुः शासनहन्तारं पितुर्वधविधायकम् ॥
यो न हन्ति महामूढो रौरवं स व्रजेद् ध्रुवम् ॥४८॥
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ॥
क्षेत्रदारापहारी च पितृबन्धुविहिंसकः ॥ ४९ ॥
सततं मन्दकारी च निन्दकः कटुजल्पकः॥
एकादशैते पापिष्ठा वधार्हा वेदसम्मताः ॥५० ॥
द्विजानां द्रविणादानं स्थानान्निर्वासनं सति ॥
वपनं ताडनं चैव वधमाहुर्मनीषिणः ॥ ५१ ॥
एतस्मिन्नन्तरे तत्र चाजगाम भृगुः स्वयम् ॥
अतित्रस्तो मनस्वी च हृदयेन विदूयता ॥ ५२ ॥
दृष्ट्वा तं रेणुकारामौ विनतौ सम्बभूवतुः ॥
स तावुवाच वेदोक्तं परलोकहिताय च ॥ ९३ ॥
भृगुरुवाच ॥
मद्वंशजातो ज्ञानी त्वं कथं विलपसे सुत ॥
जलबुद्बुदवत्सर्वं संसारे च चराचरम् ॥ ५४ ॥
सत्यसारं सत्यबीजं कृष्णं चिन्तय पुत्रक ॥
यद् गतं तद्गतं वत्स गतं नैवागमिष्यति ॥ ५५ ॥
यद्भवेत्तद्भवत्येव भविता यद्भविष्यति ॥
पूर्वार्जितं स्वीयकर्म फलं केन निवार्य्यते ॥ ५६ ॥
भूतं भव्यं भविष्यं च यत्कृष्णेन निरूपितम् ॥
निरूपितं यत्तत्कर्म केन वत्स निवार्यते ॥ ५७ ॥
मायाबीजं मायिनां च शरीरं पाञ्चभौतिकम् ॥
सङ्केतपूर्वकं नाम प्रातः स्वप्नसमं सुत ॥ ५८ ॥
क्षुधा निद्रा दया शान्तिः क्षमा कान्त्यादयस्तथा ॥
यान्ति प्राणा मनो ज्ञानं प्रयाते परमात्मनि ॥ ५९ ॥
बुद्धिश्च शक्तयः सर्वा राजेन्द्रमिव किङ्कराः ॥
सर्वे तमनुगच्छन्ति तं कृष्णं भज यत्नतः ॥ ६० ॥
के वा केषां च पितरः के वा केषां सुताः सुत ॥
कर्मभिः प्रेरिताः सर्वे भवाब्धौ दुस्तरे परम् ॥ ६१ ॥
ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्र साम्प्रतम् ॥
रोदनाश्रुप्रपतनान्मृतानां नरकं धुवम् ॥ ६२ ॥
सङ्केताख्योच्चारणेन यद्रुदन्ति च बान्धवाः ॥
शतवर्षं रुदित्वा तं प्राप्नुवन्ति न निश्चितम् ॥
पार्थिवांशं च पृथिवी गृह्णात्यस्थित्वचादिकम् ॥ ६३ ॥
तोयांशं च तथा तोयं शून्यांशं गगनं तथा ॥
वाय्वंशं च तथा वायुस्तेजस्तेजोंशकं तथा ॥ ६४ ॥
सर्वे विलीनाः सर्वेषु को वाऽऽयास्यति रोदनात् ॥
नामश्रुतियशःकर्म कथामात्रावशेषितः ॥ ६५ ॥
वेदोक्तं चैव यत्कर्म कुरु तत्पारलौकिकम् ॥
स च बन्धुः स पुत्रश्च परलोकहिताय यः ॥ ६६ ॥
भृगोस्तद्वचनं श्रुत्वा शोकं तत्याज तत्क्षणम् ॥
रेणुका च महासाध्वी तं वस्तुमुपचक्रमे ॥ ६७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे जमदग्निसंहारपरशुरामप्रतिज्ञादिवर्णनन्नाम सप्तविंशोऽध्यायः ॥ २७ ॥