नारायण उवाच ॥
हरिं स्मरन्मुनिश्रेष्ठो वाक्यं श्रुत्वा च भूभृतः ॥
हितं सत्यं नीतिसारं प्रवक्तुसुपचक्रमे ॥ १ ॥
मुनिरुवाच ॥
गृहं गच्छ महाभाग रक्ष धर्मं सनातनम् ॥
सर्वसम्पत्स्थिरा शश्वत्स्थिते धर्मे सुनिश्चितम्॥२॥
त्वां च दृष्ट्वा निराहारं समानीय गृहं नृप॥
तव पूजामकरवं यथाशक्ति विधानतः॥।
साम्प्रतं मूर्छितं दृष्ट्वा पादरेणुं शुभाशिषम् ॥
अददां चेतयाञ्चक्रे वक्तुमेवोचितं न च ॥ ४ ॥
नृपस्तद्वचनं श्रुत्वा प्रणम्य मुनिपुङ्गवम् ॥
रथमन्यं त्वारुरोह युद्धं देहीत्युवाच ह ॥५॥
मुनिः कृत्वा च सन्नाहं तं योद्धुमुपचक्रमे ॥
राजा तं युयुधे तत्र कोपेनाहतचेतनः ॥ ६ ॥
कपिलादत्तशस्त्रेण न्यस्तशस्त्रं चकार तम् ॥
कपिलादत्तया शक्त्या पुनर्मूर्च्छामवाप च ॥ ७ ॥
पुनश्च चेतनां प्राप्य राजा राजीवलोचनः ॥
मुनिना युयुधे तत्र कोपेन पुनरेव च ॥ ८ ॥
आग्नेयं योजयामास समरे नृपपुङ्गवः ॥
मुनिर्निर्वापयामास वारुणेन च लीलया ॥ ९ ॥
नृपेन्द्रो वारुणास्त्रं च चिक्षेप समरे मुनौ ॥
वायव्यास्त्रेण स मुनिः शमयामास लीलया ॥ १० ॥
वायव्यास्त्रं नृपश्रेष्ठश्चिक्षेप समरे तदा ॥
गान्धर्वेण मुनिश्रेष्ठः शमयामास तत्क्षणम् ॥ ११ ॥
नागास्त्रं च नृपश्रेष्ठश्चिक्षेप रणमूर्द्धनि ॥
गारुडेन मुनिश्रेष्ठो निजघान क्षणान्मुदा ॥ १२ ॥
माहेश्वरं महास्त्रं च शतसूर्य्यसमप्रभम् ॥
चिक्षेप नृपतिश्रेष्ठो द्योतयन्तं दिशो दश ॥१३॥
वैष्णवास्त्रेण दिव्येन त्रिलोकव्यापकेन च ॥
मुनिर्निर्वापयामास बहुयत्नेन नारद ॥१४॥
मुनिर्नारायणास्त्रं च चिक्षिपे मन्त्रपूर्वकम् ॥
शस्त्रं दृष्ट्वा महाराजो ननाम शरणं ययौ ॥ १५ ॥
ऊर्ध्वं च भ्रमणं कृत्वा क्षणं दीप्त्वा दिशो दश ॥
प्रलयाग्निसमं तत्र स्वयमन्तरधीयत ॥१६॥
जृम्भणास्त्रं च स मुनिश्चिक्षेप रणमूर्द्धनि ॥
निद्रां प्रापत्तेन राजा सुष्वाप च मृतो यथा॥१७॥
दृष्ट्वा नृपं निद्रितं तं चार्द्धचन्द्रेण तत्क्षणम् ॥
चिच्छेद सारथिं यानं धनुर्बाणं मुनिस्तदा ॥ १८॥
मुकुटं च क्षुरप्रेण च्छत्रं सन्नाहमेव च ॥
अस्त्रं तृणं वाजिगणं विविधे न च भूभृतः ॥ १९ ॥
मुनिस्तत्सचिवान्सर्वान्नागास्त्रेणैव लीलया ॥
निबध्य स्थापयामास प्रहस्य समरस्थले ॥२०॥
मुनिस्तं बोधयामास सुमन्त्रेणैव लीलया ॥
निबद्धसर्वामात्यानां दर्शयामास भूमिपम् ॥ २१ ॥
दर्शयित्वा नृपं तांश्च मोचयामास तत्क्षणम्॥
नृपेन्द्रमाशिषं कृत्वा गृहं गच्छेत्युवाच ह ॥२२॥
राजा कोपात्समुत्थाय शूलमुद्यम्य यत्नतः ॥
चिक्षेप तं मुनिश्रेष्ठं मुनिः शक्त्या जघान तम् ॥२३॥
एतस्मिन्नन्तरे ब्रह्मा समागत्य रणस्थलम् ॥
स प्रीतिं जनयामास सुनीत्या च परस्परम् ॥२४॥
मुनिर्ननाम ब्रह्माणं सन्तुष्टश्च रणस्थले ॥
राजा नत्वा विधिं चर्षिं स्वपुरं प्रययौ तदा ॥२५॥
मुनिर्ययौ स्वाश्रमं च स्व लोकं कमलोद्भवः ॥
इत्येवं कथितं किञ्चिदपरं कथयामि ते ॥२६॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायण संवादे जमदग्निकार्तवीर्ययुद्धोपशमवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥