नारद उवाच ॥
नारायण महाभाग हरेरंशसमुद्भव ॥
सर्वं श्रुतं त्वत्प्रसादाद्गणेशचरितं शुभम् ॥१॥
दन्तद्वययुतं वक्त्रं गजराजस्य बालके ॥
विष्णुना योजितं ब्रह्मन्नेकदन्तः कथं शिशुः ॥२॥
कुतो गतोऽस्य दन्तोऽन्यस्तद्भवान्वक्तुमर्हति ॥
सर्वेश्वरस्त्वं सर्वज्ञः कृपावान्भक्तवत्सलः ॥ ३ ॥
सूत उवाच ॥
नारदस्य वचः श्रुत्वा स्मेरानन सरोरुहः ॥
एकदन्तस्य चरितं प्रवक्तुमुपचक्रमे ॥ ४ ॥
नारायण उवाच ॥
शृणु नारद वक्ष्येऽहमितिहासं पुरातनम् ॥
एकदन्तस्य चरितं सर्वमङ्गलमङ्गलम् ॥ ५ ॥
एकदा कार्त्तवीर्य्यश्च जगाम मृगयां मुने ॥
मृगान्निहत्य बहुलान्परिश्रान्तो बभूव सः ॥ ६ ॥
निशामुखे दिनेऽतीते तत्र तस्थौ वने नृपः ॥
जमदग्न्याश्रमाभ्याशे चोपोष्यानीकसंयुतः ॥७॥
प्रातः सरोवरे राजा स्नातः शुचिरलङ्कृतः ॥
तदाऽऽत्रेयेण दत्तं च ह्यजपद्भक्तितो मनुम् ॥ ८ ॥
मुनिर्ददर्श राजानं शुष्ककण्ठौष्ठतालुकम्॥
प्रीत्याऽऽदरेण मृदुलं पप्रच्छ कुशलं मुनिः ॥ ९ ॥
ननाम सम्भमाद्राजा मुनिं सूर्य्यसमप्रभम् ॥
स च तस्मै ददौ प्रीत्या प्रणताय शुभाशिषः ॥ १० ॥
वृत्तान्तं कथयामास राजा चानशनादिकम् ॥
सम्भ्रमेणैव मुनिना त्रस्तो राजा निमन्त्रितः ॥ ११ ॥
विज्ञाप्य तं मुनिश्रेष्ठः प्रययौ स्वालयं मुदा ॥
एतद्वृत्तं कामधेनुं कथयामास भीतवत् ॥१२॥
उवाच सा मुनिं भीतं भयं किं ते मम स्थितौ ॥
जगद्भोजयितुं शक्तस्त्वं मया को नृपो मुने ॥ १३ ॥
राजभोजनयोग्यार्हं यद्यद्द्रव्यं प्रयाचसे ॥
सर्वं तुभ्यं प्रदास्यामि त्रिषु लोकेषु दुर्लभम् ॥ १४ ॥
सौवर्णानि च रौप्याणि पात्राणि विविधानि च ॥
भोजनार्हाण्यसङ्ख्यानि पाकपात्राणि यानि च ॥ १५ ॥
पात्राणि स्वादुपूर्णानि प्रददौ मुनये च सा ॥
नानाविधानि स्वादूनि परिपक्वफलानि च ॥ १६ ॥
पनसाम्रश्रीफलानि नारिकेलादिकानि च ॥
राशीभूतान्यसङ्ख्यानि स्वादुलड्डुकराशयः ॥ १७ ॥
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च ॥
पक्वान्नानां पर्वतांश्च परमान्नस्य कन्दरान् ॥ १८ ॥
दुग्धानां च घृतानां च नदीर्दध्नां ददौ मुदा ॥
शर्कराणां तथा राशिं मोदकानां च पर्वतान् ॥ १९ ॥
पृथुकानां सुशालीनां पर्वतान्प्रददौ मुदा ॥
ताम्बूलं च ददौ पूर्णं कर्पूरादिसुवासितम् ॥ २० ॥
नृपयोग्यं कौतुकाच्च सुन्दरं वस्त्रभूषणम् ॥
मुनिः सम्भृतसम्भारो दत्त्वा द्रव्यं मनोहरम् ॥ २१ ॥
भोजयामास राजानं ससैन्यमपि लीलया ॥
यद्यस्तु दुर्लभं वस्तु परिपूर्णं नृपेश्वर ॥
जगाम विस्मयं राजा दृष्ट्वा पात्राण्युवाच ह ॥ २२ ॥
राजोवाच ॥
द्रव्याण्येतानि सचिव दुर्लभान्यश्रुतानि च ॥
ममासाध्यानि सहसा क्वागतान्यवलोकय ॥ २३ ॥
नृपाज्ञया च सचिवः सर्वं दृष्ट्वा मुनेर्गृहे ॥
राजानं कथयामास वृत्तान्तं महद्भुतम् ॥ २४ ॥
सचिव उवाच ॥
दृष्टं सर्वं महाराज निबोध मुनिमन्दिरम् ॥
वह्निकुण्डं यज्ञकाष्ठकुशपुष्पफलान्वितम् ॥२५॥
कृष्णचर्मस्रुवस्रुग्भिः शिष्यसङ्घैश्च सङ्कुलम् ॥
तैजसाधारसस्यादिसर्वसम्पद्विवर्जितम् ॥ २६ ॥
वृक्षचर्मपरीधाना दृष्टाः सर्वे जटाधराः ॥
गृहैकदेशे दृष्टा सा कपिलैका मनोहरा ॥ २७ ॥
चार्वङ्गी रुद्रवर्णाभा रक्तपङ्कजलोचना ॥
ज्वलन्ती तेजसा तत्र पूर्णचन्द्रसमप्रभा ॥ २८ ॥
सर्वसम्पद्गुणाधारा साक्षादिव हरिप्रिया ॥
इत्येवं बोधितो राजा दुर्बुद्धिः सचिवाज्ञया ॥ २९ ॥
मुनिं ययाचे तां धेनुं निबद्धः कालपाशतः ॥
किं वा पुण्यं च का बुद्धिः कः कालः सर्वतो बली॥३०॥
पुण्यवान्बुद्धिमान्दैवाद्राजेन्द्रो ऽयाचत द्विजम् ॥
पुण्यात्प्रजायते कर्म पुण्यरूपं च भारते ॥ ३१ ॥
पापात्प्रजायते कर्म पापरूपं भयावहम् ॥
पुण्यात्कृत्वा स्वर्गभोगं जन्म पुण्यस्थले नृणाम् ॥ ३२ ॥
पापाद्भुक्त्वा च नरकं कुत्सितं जन्म जीविनाम् ॥
जीविनां निष्कृतिर्नास्ति स्थिते कर्मणि नारद ॥ ३३ ॥
तेन कुर्वन्ति सन्तश्च सन्ततं कर्मणः क्षयम् ॥
सा विद्या तत्तपो ज्ञानं स गुरुः स च बान्धवः ॥ ३४ ॥
सा माता स पिता पुत्रस्तत्क्षयं कारयेत्तु यः ॥
जीविनां दारुणो रोगः कर्मभोगः शुभाशुभः ॥ ३९ ॥
भक्तवैद्यस्तं निहन्ति कृष्णभक्तिरसायनात् ॥
माया ददाति तां भक्तिं प्रतिजन्मनि सेविता ॥ ३६ ॥
परितुष्टा जगद्धात्री भक्तेभ्यो बुद्धिदायिनी ॥
परा परम भक्ताय माया यस्मै ददाति च ॥३७॥
मायां तस्मै मोहयितुं न विवेकं कदाचन ॥
मायाविमोहिते राजा मुनिमानीय यत्नतः ॥ ॥ ३८ ॥
उवाच विनयाद्भक्त्या कृताञ्जलिपुटो मुदा ॥ ३९ ॥
राजोवाच ॥
देहि भिक्षां कल्पतरो कामधेनुं च कामदाम् ॥
मह्यं भक्ताय भक्तेश भक्तानुग्रहकारक ॥४०॥
युष्मद्विधानां दातॄणामदेयं नास्ति भारते ॥
दधीचिर्देवताभ्यश्च ददौ स्वास्थि पुरा श्रुतम् ॥ ॥ ४१ ॥
भ्रूभङ्गलीलामात्रेण तपोराशे तपोधन ॥
समूहं कामधेनूनां स्रष्टुं शक्तोऽसि भारते ॥ ४२ ॥
मुनिरुवाच ॥
अहो व्यतिक्रमं राजन्ब्रवीषि शठ वञ्चक ॥
दानं दास्यामि विप्रोऽहं क्षत्रियाय कथं नृप ॥ ४३ ॥
कृष्णेन दत्ता गोलोके ब्रह्मणे परमात्मना ॥
कामधेनुरियं यज्ञे न देया प्राणतः प्रिया ॥ ४४ ॥
ब्रह्मणा भृगवे दत्ता प्रियपुत्राय भूमिप ॥
मह्यं दत्ता च भृगुणा कपिला पैतृकी मम ॥४५॥
गोलोकजा कामधेनुर्दुर्लभा भुवनत्रये॥
लीलामात्रात्कथमहं कपिलां स्रष्टुमीश्वरः ॥ ४६ ॥
नाहं रे हालिको मूढस्तुत्या नोत्थापितो बुधः ॥
क्षणेन भस्मसात्कर्तुं क्षमोऽहमतिथिं विना ॥ ४७ ॥
गृहं गच्छ गृहं गच्छ मे कोपं नैव वर्द्धय ॥
पुत्र दारादिकं पश्य दैवबाधित पामर ॥४८॥
मुनेस्तद्वचनं श्रुत्वा चुकोप स नराधिपः ॥
नत्वा मुनिं सैन्यमध्यं प्रययौ विधिबाधितः ॥ ॥ ४९ ॥
गत्वा सैन्यसकाशं स कोपप्रस्फुरिताधरः ॥
किङ्करान्प्रेषयामास धेनुमानयितुं बलात् ॥ ५० ॥
कपिलासन्निधिं गत्वा रुरोद मुनिपुङ्गवः ॥
कथयामास वृत्तान्तं शोकेन हतचेतनः ॥ ५१ ॥
रुदन्तं ब्राह्मणं दृष्ट्वा सुरभिस्तमुवाच ह ॥
साक्षाल्लक्ष्मीस्वरूपा सा भक्तानुग्रहकारिका ॥५२॥
सुरभिरुवाच ॥
इन्द्रो वा हालिको वाऽपि वस्तु स्वं दातुमीश्वरः ॥
शास्ता पालयिता दाता स्ववस्तूनां च सन्ततम् ॥५३॥
स्वेच्छया चेन्नृपेन्द्राय मां ददासि तपोधन ॥
तेन सार्द्धं गमिष्यामि स्वेच्छया च तवाज्ञया ॥९४॥
अथवा न ददासि त्वं न गमिष्यामि ते गृहात् ॥
मत्तो दत्तेन सैन्येन दूरीकुरु नृपं द्विषम् ॥ ५५ ॥
कथं रोदिषि सर्वज्ञ मायामोहितचेतनः ॥
संयोगश्च वियोगश्च कालसाध्यो न चात्मनः ॥ ५६ ॥
त्वं वा को मे तवाहं का सम्बन्धः कालयोजितः ॥
यावदेव हि सम्बन्धो ममत्वं तावदेव हि ॥५७॥
मनो जानाति यद्द्रव्यमात्मीयं चेति केवलम् ॥
दुःखं च तस्य विच्छेदाद्यावत्स्वत्वं च तत्र वै ॥। ॥। ५८ ॥
इत्युक्त्वा कामधेनुश्च सुषाव विविधानि च ॥
शस्त्राण्यस्त्राणि सैन्यानि सूर्यतुल्यप्रभाणि च ॥५९॥
निर्गताः कपिलावक्त्रात्त्रिकोट्यः खड्गधारिणाम् ॥
विनिस्सृता नासिकायाः शूलिनः पञ्च कोटयः ॥ ६० ॥
विनिस्सृता लोचनाभ्यां शतकोटिधनुर्द्धरा॥
कपालान्निस्सृता वीरास्त्रिकोट्यो दण्डधारिणाम्॥ ६१ ॥
वक्षस्स्थलान्निस्सृताश्च त्रिकोट्यश्शक्तिधारिणाम् ॥
शतकोट्यो गदाहस्ताः पृष्ठदेशाद्विनिर्गताः॥६२॥
विनिस्सृताः पादतलाद्वाद्यभाण्डाः सहस्रशः ॥
जङ्घादेशान्निस्सृताश्च त्रिकोट्यो राजपुत्रकाः ॥ ६३ ॥
विनिर्गता गुह्यदेशात्त्रिकोटिम्लेच्छजातयः॥
दत्त्वा सैन्यानि कपिला मुनये चाभयं ददौ।
युद्धं कुर्वन्तु सैन्यानि त्वं न याहीत्युवाच ह॥६४॥
मुनिः सम्भूतसम्भारैर्हर्षयुक्तो बभूव ह॥
नृपेण प्रेरितो भृत्यो नृपं सर्वमुवाच ह॥६५॥
कपिलासैन्यवृत्तान्तमात्मवर्गपराजयम्॥
तच्छ्रुत्वा नृपशार्दूलस्त्रस्तः कातरमानसः ॥
दूतान्त्सम्प्रेष्य सैन्यानि चाजहार स्वदेशतः॥६६॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे एकदन्तत्वप्रश्नप्रसङ्गे जदमग्निकार्त्तवीर्ययुद्धारम्भवर्णनन्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥