०२२

नारद उवाच ॥
आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ ॥
महालक्ष्म्याश्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन ॥ १ ॥
नारायण उवाच॥
पुष्करे च तपस्तप्त्वा विरराम सुरेश्वरः ॥
आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम् ॥२॥
तमुवाच हृषीकेशो वरं वृणु यथेप्सितम् ॥
स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा ॥ ३ ॥
वरं दत्त्वा हृषीकेशः प्रवक्तुमुपचक्रमे ॥
हितं सत्यं च सारं च परिणामसुखावहम् ॥ ४ ॥
श्रीमधुसूदन उवाच ॥
गृहाण कवचं शक्र सर्वदुःखविनाशनम् ॥
परमैश्वर्य्यजनकं सर्वशत्रुविमर्दनम् ॥ ५ ॥
ब्रह्मणे च पुरा दत्तं विष्टपे च जलप्लुते ॥
यद्धृत्वा जगतां श्रेष्ठः सर्वैश्वर्य्ययुतो विधिः ॥६॥
बभूवुर्मनवः सर्वे सर्वैश्वर्ययुता यतः ॥
सर्वैश्वर्य्यप्रदस्यास्य कवचस्य ऋषिर्विधिः ॥ ७ ॥
पङ्क्तिश्छन्दश्च सा देवी स्वयं पद्मालया वरा ॥
सिद्ध्यैश्वर्य्यसुखेष्वेव विनियोगः प्रकीर्त्तितः ॥
यद्धृत्वा कवचं लोकः सर्वत्र विजयी भवेत् ॥ ८ ॥
मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया ॥
नासिकां पातु मे लक्ष्मीः कमला पातु लोचने ॥ ९ ॥
केशान्केशवकान्ता च कपालं कमलालया ॥
जगत्प्रसूर्गण्डयुग्मं स्कन्धं सम्पत्प्रदा सदा ॥ ॥ १० ॥
ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदाऽवतु ॥
ॐ ह्रीं श्रीं पद्मालयायै स्वाहा वक्षः सदाऽवतु ॥
पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः ॥ ११ ॥
ॐ ह्रीं श्रीं लक्ष्म्यै नमः पादौ पातु मे सन्ततं चिरम् ॥
ॐ ह्रीं श्रीं नमः पद्मायै स्वाहा पातु नितम्बकम् ॥ १२ ॥
ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा ॥
ॐ ह्रीं श्रीं क्लीं महालक्ष्म्यै स्वाहा मां पातु सर्वतः ॥१३॥
इति ते कथितं वत्स सर्वसम्पत्करं परम् ॥
सर्वैश्वर्य्यप्रदं नाम कवचं परमाद्भुतम् ॥१४॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः॥
कण्ठे वा दक्षिणे बाहौ स सर्वविजयी भवेत् ॥ १५ ॥
महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ॥
तस्य च्छायेव सततं सा च जन्मनि जन्मनि ॥ १६ ॥
इदं कवचमज्ञात्वा भजेल्लक्ष्मीं स मन्दधीः ॥
शतलक्षप्रजापेऽपि न मन्त्रः सिद्धिदायकः ॥ १७ ॥
नारायण उवाच ॥
दत्त्वा तस्मै च कवचं मन्त्रं वै षोडशाक्षरम् ॥
सन्तुष्टश्च जगन्नाथो जगतां हितकारणम् ॥१८॥
ॐ ह्रीं श्रीं क्लीं नमो महालक्ष्म्यै स्वाहा॥
ददौ तस्मै च कृपया चेन्द्राय च महामुने ॥ १९ ॥
ध्यानं च सामवेदोक्तं गोपनीयं सुदुर्लभम् ॥
सिद्धैर्मुनीन्द्रैर्दुष्प्राप्यं ध्रुवं सिद्धिप्रदं शुभम्॥ २० ॥
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् ॥
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥२१॥
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ॥
सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् ॥ २२ ॥
शान्तां च श्रीहरेः कान्तां तां भजेज्जगतां प्रसूम् ॥२३॥
ध्यानेनानेन देवेन्द्रो ध्यात्वा लक्ष्मीं मनोहराम् ॥
भक्त्या सम्पूज्य तस्यै च चोपचारांस्तु षोडश ॥२४॥
स्तुत्वाऽनेन स्तवेनैव वक्ष्यमाणेन वासव ॥
नत्वा वरं गृहीत्वा च लभिष्यसि च निर्वृतिम् ॥ २५ ॥
स्तवनं शृणु देवेन्द्र महालक्ष्म्याः सुखप्रदम्॥
कथयामि सुगोप्यं च त्रिषु लोकेषु दुर्लभम् ॥२६॥
नारायण उवाच॥
देवि त्वां स्तोतुमिच्छामि न क्षमाः स्तोतुमीश्वराः ॥
बुद्धेरगोचरां सूक्ष्मां तेजोरूपां सनातनीम् ॥
अनिवार्य्यगुणाढ्यां च को वा निर्वक्तुमीश्वरः ॥ २७ ॥
स्वेच्छामयीं निराकारां भक्तानुग्रहविग्रहाम् ॥
स्तौमि वाङ्मनसापारां किं वाऽहं जगदम्बिके॥२८॥
परां चतुर्णां वेदानां पारबीजं भवार्णवे ॥
सर्वसस्याधिदेवीं च सर्वासामपि सम्पदाम् ॥२९॥
योगिनां चैव योगानां ज्ञानानां ज्ञानिनां तथा ॥
वेदानां वै वेदविदां जननीं वर्णयामि किम्॥३०॥
यया विना जगत्सर्वमबीजं निष्फलं ध्रुवम् ॥
यया स्तनन्धयानां च विना मात्रा सुखं भवेत् ॥ ३१ ॥
प्रसीद जगतां माता रक्षास्मानतिकातरान् ॥
वयं त्वच्चरणाम्भोजे प्रपन्नाः शरणं गताः ॥ ३२ ॥
नमः शक्तिस्वरूपायै जगन्मात्रे नमो नमः ॥
ज्ञानदायै बुद्धिदायै सर्वदायै नमो नमः ॥३३॥
हरिभक्तिप्रदायिन्यै मुक्तिदायै नमो नमः॥
सर्वज्ञायै सर्वदायै महालक्ष्म्यै नमो नमः ॥ ३४ ॥
कुपुत्राः कुत्रचित्सन्ति न कुत्रापि कुमातरः॥
कुत्र माता पुत्रदोषं तं विहाय च गच्छति॥३५॥
स्तनन्धयेभ्य इव मे हे मातर्देहि दर्शनम् ॥
कृपां कुरु कृपासिन्धो त्वमस्मान्भक्तवत्सले ॥३६॥
इत्येवं कथितं वत्स पद्मायाश्च शुभावहम् ॥
सुखदं मोक्षदं सारं शुभदं सम्पदःप्रदम् ॥३७॥
इदं स्तोत्रं महापुण्यं पूजाकाले च यः पठेत् ॥
महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ॥ ३८ ॥
इत्युक्त्वा श्रीहरिस्तं च तत्रैवान्तरधीयत ॥
देवो जगाम क्षीरोदं सुरैः सार्द्धं तदाज्ञया ॥ ३९ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे लक्ष्मीस्तवकवचपूजा कथनं नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥