नारद उवाच ॥
ते देवा ब्रह्मशापेन निःश्रीका केन वा प्रभो ॥
बभूवुस्तद्रहस्यं च गोपनीयं सुदुर्लभम् ॥ १ ॥
कथं वा प्रापुरेते तां कमलां जगतां प्रसूम् ॥
किं चकार महेन्द्रश्च तद्भवान्वक्तुमर्हति ॥ २ ॥
नारायण उवाच ॥
गजेन्द्रेण पराभूतो रम्भया च सुमन्दधीः ॥
भ्रष्टश्रीर्दैन्ययुक्तश्च स जगामामरावतीम् ॥ ॥ ३ ॥
तां ददर्श निरानन्दो निरानन्दां पुरीं मुने ॥
दैन्यग्रस्तां बन्धुहीनां वैरिवर्गैः समाकुलाम् ॥ ४ ॥
इति श्रुत्वा दूतमुखाज्जगाम गुरुमन्दिरम् ॥
तेन देवगणैः सार्द्धं जगाम ब्रह्मणः सभाम् ॥ ५ ॥
गत्वा ननाम तं शक्रः सुरैः सार्द्धं तथा गुरुः ॥
तुष्टाव वेदवाक्यैश्च स्तोत्रेणापि च संयतः ॥ ६ ॥
प्रवृत्तिं कथयामास वाक्पतिस्तं प्रजापतिम् ॥
श्रुत्वा ब्रह्मा नम्रवक्त्रः प्रवक्तुमुपचक्रमे ॥ ७ ॥
ब्रह्मोवाच ॥ मत्प्रपौत्रोऽसि देवेन्द्र शश्वद्राजञ्छ्रिया ज्वलन् ॥
लक्ष्मीसमशचीभर्त्ता परस्त्रीलोलुपः सदा ॥ ८ ॥
गौतमस्याभिशापेन भगाङ्गः सुरसंसदि ॥
पुनर्लज्जाविहीनस्त्वं परस्त्रीरतिलोलुपः ॥ ९ ॥
यः परस्त्रीषु निरतस्तस्य श्री वा कुतो यशः ॥
स च निन्द्यः पापयुक्तः शश्वत्सर्वसभासु च ॥ १० ॥
नैवेद्यं श्रीहरेरेव दत्तं दुर्वाससा च ते ॥
गजमूर्ध्नि त्वया न्यस्तं रम्भयाऽऽहृतचेतसा ॥ ११ ॥
क्व सा रम्भा सर्वभोग्या क्वाधुना त्वं श्रिया हतः ॥
सर्वसौख्यप्रदात्री त्वां गता त्यक्त्वा क्षणेन सा ॥ १२ ॥
वेश्या सश्रीकमिच्छन्ती निःश्रीकं न च चञ्चला ॥
नवं नवं प्रार्थयन्ती परिनिन्द्य पुरातनम् ॥ १३ ॥
यद्गतं तद्गतं वत्स निष्पन्नं न निवर्त्तते ॥
भज नारायणं भक्त्या पद्मायाः प्राप्तिहेतवे ॥१४॥
इत्युक्त्वा तं जगत्स्रष्टुः स्तोत्रं च कवचं ददौ ॥
नारायणस्य मन्त्रं च नारायणपरायणः ॥१५॥
स तैः सार्द्धं च गुरुणा ह्यजपन्मन्त्रमीप्सितम् ॥
गृहीत्वा कवचं तेन पर्यष्टौत्पुष्करे हरिम् ॥१६॥
वर्षमेकं निराहारो भारते पुण्यदे शुभे ॥
सिषेवे कमलाकान्तं कमलाप्राप्तिहेतवे ॥ १७ ॥
आगत्य तं हरिस्तस्मै वाञ्छितं च वरं ददौ ॥
लक्ष्मीस्तोत्रं च कवचं मन्त्रमैश्वर्य्यवर्द्धनम् ॥ १८ ॥
दत्त्वा जगाम वैकुण्ठमिन्द्रः क्षीरोदमेव च ॥
गृहीत्वा कवचं स्तुत्वा प्राप पद्मालयां मुने ॥ १९ ॥
सुरेश्वरोऽरिं जित्वा वै ह्यलभच्चामरावतीम् ॥
प्रत्येकं च सुराः सर्वे स्वालयं प्रापुरीप्सितम् ॥ २० ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शक्रलक्ष्मीप्राप्तिर्नामैकविंशतितमोऽध्यायः ॥ २१ ॥