०२०

नारद उवाच ॥
हरेरंशसमुत्पन्नो हरितुल्यो भवान्धिया ॥
तेजसा विक्रमेणैव मत्प्रश्नं श्रोतुमर्हसि ॥१॥
विघ्ननिघ्नस्य यद्विघ्नं श्रुतं तत्परमाद्भुतम् ॥
तद्विघ्नकारणं चैव विश्वकारणवक्त्रतः ॥ २ ॥
अधुना श्रोतुमिच्छामि परं सन्देहभञ्जनम् ॥
त्रैलोक्यनाथतनये गजास्यायोजनार्थकम् ॥ ३ ॥
स्थितेष्वन्येषु बहुषु जन्तुष्वब्जभुवः पते ॥
सुप्राणिनां सुरूपेषु नानारूपेषु रूपिणाम् ॥ ४ ॥
श्रीनारायण उवाच ॥
गजास्ययोजनायाश्च कारणं शृणु नारद ॥
गोप्यं सर्वपुराणेषु वेदेषु च सुदुर्लभम्॥५॥
तारणं सर्वदुःखानां कारणं सर्वसम्पदाम् ॥
हारणं विपदां चैव रहस्यं पापमोचनम् ॥ ६ ॥
महालक्ष्म्याश्च चरितं सर्वमङ्गलमङ्गलम् ॥
सुखदं मोक्षदं चैव चतुर्वर्गफलप्रदम्॥७॥
शृणु तात प्रवक्ष्येऽहमितिहासं पुरातनम् ॥
रहस्यं पाद्मकल्पस्य पुरा तातमुखाच्छ्रुतम् ॥ ८ ॥
एकदैव महेन्द्रश्च पुष्पभद्रां नदीं ययौ ॥
महासम्पन्मदोन्मत्तः कामी राजश्रियाऽन्वितः ॥ ९॥
तत्तीरेऽतिरहःस्थाने पुष्पोद्याने मनोहरे ॥
अतीव दुर्गमेऽरण्ये सर्वजन्तुविवर्जिते ॥ १० ॥
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रवे ॥
सुगन्धिपुष्प संश्लिष्टवायुना सुरभीकृते ॥ ११ ॥
ददर्श रम्भां तत्रैव चन्द्रलोकात्समागताम् ॥
सुरतश्रमविश्रान्तिकामुकीं कामकामुकीम् ॥ ॥ १२ ॥
इच्छन्तीमीप्सितां क्रीडां गच्छन्तीं मदनाश्रमम् ॥
एकाकिनीमुन्मनस्कां मन्मथोद्गतमानसाम् ॥ १३ ॥
सुश्रोणीं सुदतीं श्यामां बिम्बाधरसरोरुहाम्॥
बृहन्नितम्बभारार्त्तां मत्तवारणगामिनीम्॥१४॥
सस्मितास्यशरच्चन्द्रां सुकटाक्षं च बिभ्रतीम्॥
बिभ्रतीं कबरीं रम्यां मालतीमाल्यशोभिताम् ॥ १५ ॥
वह्निशुद्धांशुकधरां रत्नभूषणभूषिताम् ॥
कस्तूरीबिन्दुना सार्द्धं सिन्दूरं बिभ्रतीं मुदा ॥ ॥ १६ ॥
नीलोत्पलदलश्यामकज्जलोज्जललोचनाम् ॥
मणिकुण्डलयुग्माढ्यगण्डस्थलविराजिताम् ॥ १७ ॥
अत्युन्नतं सुकठिनं पत्रराजिविराजितम् ॥
सुखदं रसिकानां च स्तनयुग्मं च बिभ्रतीम् ॥ १८ ॥
सर्वशोभां सुवेषाढ्यां सुभगां सुरतोत्सुकाम् ॥
प्राणाधिकां च देवानां स्वच्छां स्वच्छन्दगामिनीम् ॥ १९ ॥
वरामप्सरसां रम्यामतीव स्थिरयौवनाम् ॥
गुणरूपवतीं शान्तां मुनिमानसमोहिनीम् ॥२०॥
दृष्ट्वा तामतिवेषाढ्यां तत्कटाक्षेण पीडितः ॥
इन्द्रोऽतीन्द्रियचापल्यात्प्रवक्तुपचक्रमे ॥ २१ ॥
इन्द्र उवाच ॥
क्व गच्छसि वरारोहे क्व गताऽसि मनोहरे ॥
मया दृष्टा हि सुचिरात्कल्याणि सुभगेऽधुना ॥ २२ ॥
तवान्वेषणकर्त्ताऽहं श्रुत्वा वाचिकमग्रतः ॥
त्वदासक्तमनाश्चास्मि नान्यां वै गणयामि च ॥ २३ ॥
सुवासितजलार्थी यः किमिच्छेत्पङ्किलं जलम् ॥
पङ्कं नेच्छेच्चन्दनार्थी पङ्कजार्थी न चोत्पलम् ॥ २४ ॥
सुधार्थी न सुरामिच्छेद्दुग्धार्थी नाविलं जलम् ॥
सुगन्धिपुष्पशायी यो ह्यस्त्रतल्पं न चेच्छति ॥२५ ॥
स्वर्गी च नरकं नेच्छेत्सुभोगी दुष्टभोजनम् ॥
पण्डितैः सह संवासी नेच्छेत्स्त्रीसन्निधिं नरः ॥
विहाय रत्नाभरणं कोऽपीच्छेल्लोहभूषणम् ॥ २६ ॥
त्वां नाश्लिष्य महाविज्ञां कां मूढो गन्तुमिच्छति॥
विहाय गङ्गां को विज्ञो नदीमन्यां च वाञ्छति ॥ २७ ॥
इन्द्रियैश्चेन्द्रियरतिं वर्द्धयन्तीं पदे पदे ॥
वरं प्रार्थयितारश्च प्राणिनश्च सुखार्थिनः ॥२२८॥।
इत्येवमुक्त्वा भगवानवरुह्य गजेश्वरात् ॥
कामयुक्तश्च पुरतस्तस्थौ तस्याश्च नारद ॥ २९ ॥
श्रुत्वा तद्वचनं रम्भा महाशृङ्गारलोलुपा ॥
जहासानम्रवदना पुलकाञ्चितविग्रहा ॥ ३० ॥
स्मेरानना कटाक्षेण स्तनोर्वोर्दर्शनेन च ॥
नर्मोक्तिगर्भवाक्येन चाहरत्तस्य चेतनाम् ॥ ३१ ॥
मितं सारं सुमधुरं सुस्निग्धं कोमलं प्रियम् ॥
पुरुषायत्तबीजं च प्रवक्तुमुपचक्रमे ॥ ३२ ॥
रम्भोवाच ॥
यास्यामि वाञ्छितं यत्र प्रश्नेन तव किं फलम् ॥
नाहं सन्तोषजननी धूर्त्तानां दुष्टमित्रता ॥ ३३ ॥
यथा मधुकरो लोभात्सर्वपुष्पासवं लभेत् ॥
स्वादु यत्रातिरिक्तं स तत्र तिष्ठति सन्ततम् ॥ ३४ ॥
तथैव कामुकी लोके भ्रमेद्भ्रमरवत्सदा ॥
चाञ्चल्यात्स हि कास्वेव वायुवद्रसमाहरेत् ॥ ३५ ॥
सुपुमानङ्गवत्स्त्रीणां यथा शाखाश्च शाखिषु ॥
कामुकी काकवल्लोलः फलं भुक्त्वा प्रयाति च ॥ ३६ ॥
स्वकार्य्यमुद्धरेद्यावत्तावद्वा स प्रयोजनम् ॥
स्थितिः कार्य्यानुरोधेन यथा काष्ठे हुताशनः ॥ ३७ ॥
यावत्तडागे तोयानि तावद्यादांसि तेषु च ॥
शोषारम्भे च तोयानां यान्ति स्थानान्तरं पुनः ॥ ३८ ॥
त्वं देवानामीश्वरोऽसि कामिनीनां च वाञ्छितः ॥
पुमांसं रसिकं शश्वद्वाञ्छन्ति रसिकाः सुखात् ॥ ३९ ॥
युवानं रसिकं शान्तं सुवेषं सुन्दरं प्रियम् ॥
गुणिनं धनिनं स्वच्छं कान्तमिच्छति कामिनी ॥ ४० ॥
दुश्शीलं रोगिणं वृद्धं रतिशक्तिवियोजितम् ॥
अदातारमविज्ञं च नैव वाञ्छन्ति योषितः ॥ ४१ ॥
का मूढा न च वाञ्छन्ति त्वामेवं गुणसागरम् ॥
तवाज्ञाकारिणीं दासीं गृहाणात्र यथासुखम् ॥ ४२ ॥
इत्युक्त्वा सस्मिता सा च तं पपौ वक्रचक्षुषा ॥
कामाग्निदग्धा विगलल्लज्जा तस्थौ समीपतः ॥ ४३ ॥
ज्ञात्वा भावं स्मरार्त्तायाः स्मरशास्त्रविशारदः ॥
गृहीत्वा तां पुष्पतल्पे विजहार तया सह ॥ ४४ ॥
चुचुम्ब रहसि प्रौढां नग्नां च सुभगां वराम् ॥
पक्वबिम्बाधरौष्ठीं च सुदत्या चुम्बितस्तया ॥ ४५ ॥
नानाप्रकारशृङ्गाराद्विपरीतादिकान्मुने ॥
सुखी बभूव तस्यां वै शृङ्गारो मूर्तिमानिव ॥ ४६ ॥
तौ कामाहितचित्तौ नो बुबुधाते दिवानिशम् ॥
अन्योन्यगतचित्तौ च कामार्तौ ज्ञानवर्जितौ ॥ ४७ ॥
स च कृत्वा स्थले क्रीडां तया सह सुरेश्वरः॥
ययौ जलविहारार्थं पुष्पभद्रानदी जलम् ॥ ४८ ॥
स चकार जलक्रीडां तया सह मुदा क्षणम् ॥
जलात्स्थले स्थलात्तोये विजहार पुनः पुनः ॥४९॥
एतस्मिन्नन्तरे तेन वर्त्मना मुनिपुङ्गवः ॥
सशिष्यो याति दुर्वासा वैकुण्ठाच्छङ्करालयम् ॥ ५० ॥
तं च दृष्ट्वा मुनीन्द्रं च देवेन्द्रः स्तब्धमानसः ॥
ननामागत्य सहसा ददौ तस्मै स चाशिषः ॥ ५१ ॥
पारिजातप्रसूनं यद्दत्तं नारायणेन वै ॥
तच्च दत्तं महेन्द्राय मुनीन्द्रेण महात्मना ॥५२॥
दत्त्वा पुष्पं महाभागस्तमुवाच कृपानिधिः॥
माहात्म्यं तस्य यत्किञ्चिदपूर्वं मुनिसत्तमः ॥५३॥
दुर्वासा उवाच ॥
सर्वविघ्नहरं पुष्पं नारायणनिवेदितम ॥
मूर्ध्नीदं यस्य देवेन्द्र जयस्तस्यैव सर्वतः ॥ ९४ ॥
पुरःपूजा च सर्वेषां देवानामग्रणीर्भवेत्।
तच्छायेव महालक्ष्मीर्न जहाति कदाऽपि तम् ॥५५॥
ज्ञानेन तेजसा बुद्ध्या विक्रमेण बलेन च ॥
सर्वदेवाधिकः श्रीमान्हरितुल्यपराक्रमः ॥ ५५ ॥
भक्त्या मूर्ध्नि न गृह्णाति योऽहङ्कारेण पामरः ॥
नैवेद्यं च हरेरेव स भ्रष्टश्रीः स्वजातिभिः ॥
इत्युक्त्वा शङ्करांशश्च ह्यगमच्छङ्करालयम् ॥५७॥
तत्स रम्भान्तिके तिष्ठंश्चिक्षेप गजमस्तके ॥
तेन भ्रष्टश्रियं दृष्ट्वा सा जगाम सुरालयम्॥५८॥
पुंश्चली योग्यमिच्छन्ती नापरं चञ्चलाऽधमा ॥
देवराजं परित्यज्य गजराजो महाबली ॥ ५९ ॥
प्रविवेश महारण्यं तं निक्षिप्य स्वतेजसा ॥
तत्रैव करिणीं प्राप्य मत्तः सम्बुभुजे बलात् ॥ ६० ॥
साऽतो बभूव वशगा योषिज्जातिः सुखार्थिनी ॥
तयोर्बभूवापत्यानां निवहस्तत्र कानने ॥ ६१ ॥
हरिस्तन्मस्तकं छित्त्वा योजयामास बालके ॥
इत्येवं कथितं वत्स किं भूयः श्रोतुमिच्छसि ॥
गजास्ययोजनायाश्च कारणं पापनाशनम् ॥ ६२ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणपतेर्गजास्ययोजनाहेतुकथनं नाम विंशतितमोऽध्यायः ॥२०॥