०१८

नारद उवाच ॥
नारायण महाभाग वेदवेदाङ्गपारग ॥
पृच्छामि त्वामहं किञ्चिदतिसन्देहवान्यतः ॥ १ ॥
सुतस्य त्रिदशेशस्य शङ्करस्य महात्मनः ॥
विघ्ननिघ्नस्य यद्विघ्नमीश्वरस्य कथं प्रभो ॥२॥
परिपूर्णतमः श्रीमान्परमात्मा परात्परः ॥
गोलोकनाथः स्वांशेन पार्वतीतनयः स्वयम्॥३॥
अहो भगवतस्तस्य मस्तकच्छेदनं विभो ॥
ग्रहदृष्ट्या ग्रहेशस्य कथं मे वक्तुमर्हसि ॥ ४ ॥
नारायण उवाच ॥
सावधानं शृणु ब्रह्मन्नितिहासं पुरातनम् ॥
विघ्नेशस्य बभूवेदं विघ्नं येन च नारद ॥ ५॥
एकदा शङ्करः सूर्य्यं जघान परमष्टधा ॥
सुमालिमालिहन्तारं शूलेन बहुवत्सलः ॥ ६ ॥
श्रीसूर्य्योऽमोघशूलेनाशनितुल्येन तेजसा ॥
जहौ स चेतनां सद्यो रथाच्च निपपात ह ॥ ७ ॥
ददर्श कश्यपः पुत्रं मृतमुत्तानलोचनम् ॥
कृत्वा वक्षसि तं शोकाद्विललाप भृशं मुहुः ॥८॥
हाहाकारं सुराश्चक्रुर्विलेपुर्भयकातराः ॥
अन्धीभूतं जगत्सर्वं बभूव तमसा वृतम् ॥ ९ ॥
निष्प्रभं तनयं दृष्ट्वा चाशपत्कश्यपः शिवम् ॥
तपस्वी ब्रह्मणः पौत्रः प्रज्वन्ब्रह्मतेजसा ॥ १० ॥
मत्पुत्रस्य यथा वक्षश्छिन्नं शूलेन तेऽद्य वै ॥
त्वत्पुत्रस्य शिरश्छिन्नं भविष्यति न संशयः ॥ ११ ॥
शिवश्च गलितक्रोधः क्षणेनैवाशुतोषकः ॥
ब्रह्मज्ञानेन तत्पूर्णं जीवयामास तत्क्षणात् ॥ १२ ॥
ब्रह्मविष्णुमहेशानामंशश्च त्रिगुणात्मकः ॥
सूर्य्यश्च चेतनां प्राप्य समुत्तस्थौ पितुः पुरः ॥ १३ ॥
ननाम पितरं भक्त्या शङ्करं भक्तवत्सलः ॥
विज्ञाय शम्भोः शापं च कश्यपं स चुकोप ह ॥ १४ ॥
विषयान्नैव जग्राह कोपेनैवमुवाच ह ॥
विषयांश्च परित्यज्य भजे श्रीकृष्णमीश्वरम् ॥१५॥
सर्वं तुच्छमनित्यं च नश्वरं चेश्वरं विना ॥
विहाय मङ्गलं सत्यं विद्वान्नेच्छेदमङ्गलम् ॥ १६ ॥
देवैश्च प्रेरितो ब्रह्मा समागत्य ससम्भ्रमः ॥
बोधयित्वा रविं तत्र युयोज विषयेष्वजः ॥ १७ ॥
तस्मै दत्त्वाऽऽशिषश्शम्भुर्ब्रह्मा च स्वालयं मुदा ॥
जगाम कश्यपश्चैव स्वराशिं रविरेव च ॥ १८ ॥
अथ माली सुमाली च व्याधिग्रस्तौ बभूवतुः ॥
श्वित्रौ गलितसर्वाङ्गौ शक्तिहीनौ हतप्रभौ॥ १९ ॥
तावुवाच स्वयं ब्रह्मा युवां च भजतां रविम् ॥
सूर्य्यकोपेन मलिनौ युवामेवं हतप्रभौ ॥ २० ॥
सूर्य्यस्य कवचं स्तोत्रं सर्वपूजाविधिं विधिः ॥
जगाम कथयित्वा तौ ब्रह्मलोकं सनातनः ॥२१॥
ततस्तौ पुष्करं गत्वा सिषेवाते रविं मुने॥
स्नात्वा त्रिकालं भक्त्या च जपन्तौ मन्त्रमुत्तमम् ॥ २२ ॥
ततः सूर्य्याद्वरं प्राप्य निजरूपौ बभूवतुः ॥
इत्येवं कथितं सर्वं किं भयः श्रोतुमिच्छसि ॥ २३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे विघ्नेशविघ्नकथनन्नामाष्टादशोऽध्यायः ॥ १८ ॥