०१६

नारायण उवाच ॥
इत्येवमुक्त्वा तं शीघ्रं बोधयित्वा च कृत्तिकाः ॥
उवाच किञ्चिद्युक्तं च वचनं शङ्करात्मजः ॥ १ ॥
कार्तिकेय उवाच ॥
यास्यामि शङ्करस्थानं द्रक्ष्यामि सुरसञ्चयम् ॥
मातरं बन्धुवर्गांश्चाप्याज्ञां मे दत्त मातरः ॥ २ ॥
दैवाधीनं जगत्सर्वं जन्म कर्म शुभावहम् ॥
संयोगश्च वियोगश्च न च दैवात्परं बलम् ॥ ३ ॥
कृष्णायत्तं च तद्दैवं स च दैवात्परस्ततः ॥
भजन्ति सततं सन्तः परमात्मानमीश्वरम् ॥ ४ ॥
दैवं वर्द्धयितुं शक्तः क्षयं कर्त्तुं स्वलीलया ॥
न दैवबद्धस्तद्भक्तश्चाविनाशीति निर्णयः ॥५॥
तस्माद्भजत गोविन्दं मोहं त्यजत दुःखदम्॥
सुखदं मोक्षदं सारं जन्ममृत्युभयापहम् ॥ ६ ॥
परमानन्दजननं मोहजालनिकृन्तनम् ॥
शश्वद्भजन्ति यत्सर्वे ब्रह्मविष्णुशिवादयः ॥ ७ ॥
कोऽहं भवाब्धौ युष्माकं का वा यूयं ममात्मिकाः ॥
तत्कर्मस्रोतसां सर्वं पुञ्जीभूतं च फेनवत् ॥ ८ ॥
संश्लेषं वा वियोगं वा सर्वमीश्वरचिन्तया ॥
ब्रह्माण्डमीश्वराधीनं न स्वतन्त्रं विदुर्बुधाः ॥ ९ ॥
जलबुद्बुदवत्सर्वमनित्यं च जगत्त्रयम् ॥
मायामनित्ये कुर्वन्ति मायया मूढचेतसः ॥ १० ॥
सन्तस्तत्र न लिप्यन्ते वायुवत्कृष्णचेतसः ॥
तस्मान्मोहं परित्यज्य चाज्ञप्तिं दत्त मातरः ॥ ११ ॥
इत्येवमुक्त्वा ता नत्वा सार्द्धं शङ्करपार्षदैः ॥
यात्रां चकार भगवान्मनसा श्रीहरिं स्मरन् ॥ १२ ॥
एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम् ॥
विश्वकर्मकृतं रम्यं हीरकेण विराजितम् ॥ १३ ॥
सद्रत्नसाररचितं माणिक्येन विराजितम् ॥
पारिजातप्रसूनानां मालाजालैश्च शोभितम् ॥ १४ ॥
मणीन्द्रदर्पणः श्वेतचामरैरतिदीपितम् ॥
क्रीडार्हमन्दिरै रम्यैश्चित्रितैश्चित्रितं वरम् ॥ १५ ॥
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ॥
प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ॥ १६ ॥
समारुहन्तं यानं ता हृदयेन विदूयता ॥
सहसा चेतनां प्राप्य मुक्तकेश्यः शुचाऽऽतुराः ॥ १७ ॥
दृष्ट्वा च स्वपुरः स्कन्दं स्तम्भिताश्चातिशोकतः ॥
उन्मत्ता इव तत्रैव वक्तुमारेभिरे भिया ॥ १८ ॥
कृत्तिका ऊचुः ॥
किं कुर्मः क्व च यास्यामो वयं वत्स त्वदाश्रयाः ॥
विहायास्मान्क्व यासि त्वं नायं धर्म्मस्तवाधुना ॥ १९ ॥
स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं स्वधर्मतः ॥
नायं धर्मो मातृवर्गाननुरक्तः सुतस्त्यजेत् ॥ २० ॥
इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि तं सुतम् ॥
पुनर्मूर्च्छामवापुस्ताः सुतविच्छेददारुणम् ॥ २१ ॥
कुमारो बोधयित्वा ता अध्यात्मवचनेन वै ॥
ताभिश्च पार्षदैः सार्द्धमारुरोह रथं मुने ॥ २२ ॥
पूर्णकुम्भं द्विजं वेश्यां शुक्लधान्यानि दर्पणम्॥
दध्याज्यं मधु लाजांश्च पुष्पं दूर्वाक्षतान्सितान् ॥ २३ ॥
वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम् ॥
पूर्णं च परिपक्वानि फलानि विविधानि च ॥ २४ ॥
पतिपुत्रवतीं नारीं प्रदीपं मणिमुत्तमम् ॥
मुक्तां प्रसूनमालां च सद्योमांसं च चन्दनम् ॥ २५ ॥
ददर्शैतानि वस्तूनि मङ्गलानि पुरो मुने ॥
शृगालं नकुलं कुम्भं शवं वामे शुभावहम् ॥ २६ ॥
राजहंसं मयूरं च खञ्जनं च शुकं पिकम् ॥
पारावतं शङ्खचिल्लं चक्रवाकं च मङ्गलम् ॥ २७ ॥
कृष्णसारं च सुरभिं चमरीं श्वेतचामरम्॥
धेनुं च वत्ससंयुक्तां पताकां दक्षिणे शुभाम्॥ ॥ २८ ॥
नानाप्रकारवाद्यं चाप्यश्रौषीन्मङ्गलध्वनिम् ॥
मनोहरं च सङ्गीतं घण्टाशङ्खध्वनिं तथा ॥ २९ ॥
दृष्ट्वा श्रुत्वा मङ्गलं स ह्यगमत्तातमन्दिरम् ॥
क्षणेनानन्दयुक्तश्च मनोयायिरथेन च ॥ ३० ॥
कुमारः प्राप्य कैलासं न्यग्रोधाक्षयमूलके ॥
क्षणं तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह ॥ ३१ ॥
पार्वती मङ्गलं कृत्वा राजमार्गं मनोहरम् ॥
पद्मरागैरिन्द्रनीलैः संस्कृतं परितः पुरम् ॥ ३२ ॥
रम्भास्तम्भसमूहैश्च पट्टसूत्रांशुकैस्तथा ॥
श्रीखण्डपल्लवैर्युक्तं पूर्णकुम्भैः सुशोभितम् ॥ ३३ ॥
पूर्णकुम्भजलैर्व्याप्तं सिक्तं चन्दनवारिभिः ॥
असङ्ख्यरत्नदीपैश्च मणिराजैर्विराजितम् ॥ ३४ ॥
नटनर्त्तकवेश्यानामुत्सवैः सङ्कुलं सदा ॥
बन्दिभिर्विप्रवर्गैश्च दूर्वापुष्पकरैर्युतम्॥३५॥
पतिपुत्रवतीभिश्च साध्वीभिश्च समन्वितम्॥
लक्ष्मीं सरस्वतीं दुर्गां सावित्रीं तुलसीं रतिम्॥३६॥
अरुन्धतीमहल्यां च दितिं तारां मनोरमाम् ॥
अदितिं शतरूपां च शचीं सन्ध्यां च रोहिणीम् ॥ ३७ ॥
अनसूयां तथा स्वाहां सञ्ज्ञां वरुणकामिनीम्॥
आकूतिं च प्रसूतिं च देवहूतिं च मेनकाम् ॥ ३८ ॥
तामेकपाटलामेकपर्णां मैनाककामिनीम् ॥
वसुन्धरां च मनसां पुरस्कृत्य समाययौ॥ ॥ ३९ ॥
रम्भा तिलोत्तमा मेना घृताची मोहिनी शुभा ॥
उर्वशी रत्नमाला च सुशीला ललिता कला ॥ ४० ॥
कदम्बमाला सुरसा वनमाला च सुन्दरी ॥
एताश्चान्याश्च बहवो विप्रेन्द्राप्सरसां गणाः ॥ ४१ ॥
सङ्गीतनर्त्तनपराः सस्मिता वेषसंयुताः ॥
करतालकराः सर्वा जग्मुरानन्दपूर्वकम् ॥ ४२ ॥
देवाश्च मुनयः शैला गन्धर्वाः किन्नरास्तथा ॥
सर्वे ययुः प्रमुदिताः कुमारस्यानुमज्जने ॥ ४३ ॥
नानाप्रकारवाद्यैश्च रुद्रैर्वा पार्षदैः सह ॥
भैरवैः क्षेत्रपालैश्च ययौ सार्द्धं महेश्वरः ॥ ४४ ॥
अथ शक्तिधरो हृष्टो दृष्ट्वा ऽऽरात्पार्वतीं तदा ॥
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह॥४५॥
तं पद्माप्रमुखं देवीगणं च मुनिकामिनीम् ॥
शिवं च परया भक्त्या सर्वान्सम्भाष्य यत्नतः ॥ ४६ ॥
कार्त्तिकेयं शिवा दृष्ट्वा क्रोडे कृत्वा चुचुम्ब च ॥
शङ्करश्च सुराः शैला देव्यो वै शैलयोषितः ॥४७॥
पार्वतीप्रमुखा देव्यस्तथा देवश्च शङ्करः ॥
शैलाश्च मुनयः सर्वे ददुस्तस्मै शुभाशिषः ॥ ४८ ॥
कुमारः स गणैः सार्द्धमागत्य च शिवालयम् ॥
ददर्श तं सभामध्ये विष्णुं क्षीरोदशायिनम्॥४९॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥
धर्मब्रह्मेन्द्रचन्द्रार्कवह्निवाय्वादिभिर्युतम् ॥ ५० ॥
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥
स्तुतं मुनीन्द्रैर्देवेन्द्रैः सेवितं श्वेतचामरैः ॥५१॥
तं दृष्ट्वा जगतां नाथं भक्तिनम्रात्मकन्धरः ॥
पुलकान्वितसर्वाङ्गः शिरसा प्रणनाम ह ॥ ५२ ॥
विधिं धर्मं च देवांश्च मुनीन्द्रांश्च मुदाऽन्वितान् ॥
प्रणनाम पृथक्तत्र प्राप तेभ्यश्शुभाशिषः ॥ ५३ ॥
पृथक्सम्भाष्य सर्वांश्चाप्युवास कनकासने ॥
ददौ धनानि विप्रेभ्यः पार्वत्या सह शङ्करः ॥ ५४ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कार्त्तिकेयागमनं नाम षोडशोऽध्यायः ॥ १६ ॥