नारायण उवाच ॥
पुत्रस्य वार्त्तां सम्प्राप्य पार्वत्या सह शङ्करः ॥
प्रेरितो विष्णुना देवैर्मुनिभिः पर्वतैर्मुने ॥ १ ॥
दूतान्प्रस्थापयामास महाबलपराक्रमान् ॥
वीरभद्रं विशालाक्षं शङ्कुकर्णं कबन्धकम् ॥ २ ॥
नन्दीश्वरं महाकालं वज्रदन्तं भगन्दरम् ॥
गोधामुखं दधिमुखं ज्वलदग्निशिखोपमम् ॥ ३ ॥
लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ॥
वेतालानां चतुर्लक्षं यक्षाणां पञ्चलक्षकम् ॥ ४ ॥
कूष्माण्डानां चतुर्लक्षं त्रिलक्षं ब्रह्मराक्षसान् ॥
डाकिनीनां चतुर्लक्षं योगिनीनां त्रिलक्षकम् ॥ ५ ॥
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ॥
अन्यांश्च विकृताकारानसङ्ख्यानपि नारद ॥ ६ ॥
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ॥
कृत्तिकानां च भवनं वेष्टयामासुरुज्ज्वलम् ॥७॥
दृष्ट्वा तान्कृत्तिकाः सर्वा भयविह्वलमानसाः॥
कार्त्तिकेयं च जगृहुर्ज्वलन्तं ब्रह्मतेजसा ॥ ८ ॥
कृत्तिका ऊचुः ॥
वत्स सैन्यान्यसङ्ख्यानि वेष्टयामासुरायलम् ॥
न जानीमो वयं कस्य करालानि च बालक ॥ ९ ॥
कार्त्तिकेय उवाच ॥
भयं त्यजत कल्याण्यो भयं किं वो मयि स्थिते ॥
दुर्निवार्य्यः कर्मपाको मातरः केन वार्य्यते ॥१०॥
एतस्मिन्नन्तरे तत्र सेनानीर्नन्दिकेश्वरः ॥
पुरतः कार्त्तिकेयस्य तिष्ठंस्तासामुवाच ह ॥ ११ ॥
नन्दिकेश्वर उवाच॥
भ्रातः प्रवृत्तिं शृणु मे मातुश्चापि शुभावहाम् ॥
प्रेषितस्य सुरेन्द्रस्य संहर्तुः शङ्करस्य च ॥ १२ ॥
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ॥
सभायां ते वसन्तश्च गणेशोत्सवमङ्गलम् ॥ १३ ॥
शैलेन्द्रकन्या तं विष्णुं जगतां परिपालकम् ॥
सम्बोध्य कथयामास तवान्वेषणकारणम् ॥ १४ ॥
पप्रच्छ देवान्विष्णुस्तान्क्रमेणावाप्तिहेतवे ॥
प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम्॥ १५ ॥
त्वमत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ॥
सर्वे धर्मादयो देवा धर्माधर्मस्य साक्षिणः ॥
या बभूव रहःक्रीडा पार्वतीशिवयोः पुरा ॥ १६ ॥
दृष्टस्य च सुरैः शम्भोवीर्य्यं भूमौ पपात ह ॥
भूमिस्तदक्षिपद्वह्नौ वह्निश्च शरकानने ॥
ततो लब्धः कृत्तिकाभिरमूभिर्गच्छ साम्प्रतम् ॥१७॥
तवाभिषेकं विष्णुश्च करिष्यति सुरैः सह ॥
शस्त्रं लब्ध्वाऽखिलं देव तारकं संहनिष्यति॥
पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां गोप्तुं न क्षमा इमाः ॥१८॥
नाग्निं गोप्तुं यथा शक्तः शुष्कवृक्षः स्वकोटरे ॥
दीप्तिमांस्त्वं च विश्वेषु तासां गेहेषु शोभसे ॥
यथा पतन्महाकूपे द्विजराजो न राजते ॥ १९ ॥
करोषि जगदालोकं नाच्छन्नोऽस्याङ्गतेजसा ॥
यथा सूर्य्यः कराच्छन्नो न भवेत्पूरुषस्य च ॥ २० ॥
विष्णुस्त्वं च जगद्व्यापी नासां व्याप्योऽसि शाम्भव ॥
यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ॥ २१ ॥
योगीन्द्रो नानुलिप्तस्त्वं भोगी च परिपोषणे ॥
नैव लिप्तो यथाऽऽत्मा च कर्म्म भोगेषु जीविनाम् ॥ २२ ॥
विश्वाधारस्त्वमीशश्च नामृते सम्भवेत्स्थितिः ॥
सागरस्य यथा नद्यां सरितामाश्रयस्य च ॥ २३ ॥
नहि सर्वेश्वरावासः सम्भवेत्कृत्तिकालये ॥
गरुडस्य यथा वासः क्षुद्रे च चटकोदरे ॥ २४ ॥
त्वां च देवा न जानन्ति भक्तानुग्रह विग्रहम् ॥
गुणानां तेजसां राशिं यथा ज्ञानमयोगिनः ॥२५॥
त्वामनिर्वचनीयं च कथं जानन्ति कृत्तिकाः ॥
यथा परां हरेर्भक्तिमभक्ता मूढचेतसः ॥ २६ ॥
भ्रातर्ये यं न जानन्ति ते तं कुर्वन्त्यनादरम् ॥
नाद्रियन्ते यथा भेकास्त्वेकावासं च पङ्कजम् ॥ २७ ॥
कार्त्तिकेय उवाच॥
भ्रातः सर्वं विजानामि ज्ञानं त्रैकालिकं च यत्॥
ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः॥२८॥
कर्मणा जन्म येषां वा यासु यासु च योनिषु ॥
तासु ते निर्वृतिं भ्रातर्नाप्नुवन्ति च सन्ततम्॥२९॥
ये यत्र सन्ति सन्तो वा मूढा वा कर्मभोगतः॥
तेऽपि तं बहुमन्यन्ते मोहिता विष्णुमायया॥३०॥
साम्प्रतं जगतां माता विष्णुमाया सनातनी॥
सर्वाद्या विष्णुमाया च सर्वदा विष्णुमङ्गला ॥ ३१ ॥
शैलेन्द्रपत्नी गर्भे सा चालभज्जन्म भारते ॥
दारुणं च तपस्तप्त्वा सम्प्रापच्छङ्करं पतिम् ॥ ३२ ॥
ब्रह्मादितृणपर्य्यन्तं सर्वं मिथ्यैव कृत्रिमम् ॥
सर्वे कृष्णोद्भवाः काले विलीनास्तत्र केवलम् ॥ ३३ ॥
कल्पे कल्पे जगन्माता माता मे प्रतिजन्मनि ॥
यज्जन्ममायया बद्धो नित्यः सृष्टिविधावहम् ॥ ३४ ॥
प्रकृतेरुद्भवास्सत्यं जगत्यां सर्वयोषितः ॥
काश्चिदंशाः कलाः काश्चित्कलांशांशेन काश्चन ॥ ३६ ॥
कृत्तिका ज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ॥
स्तनैश्च संवर्द्धितोऽहमुपहारेण सन्ततम् ॥ ॥ ३६ ॥
तासामहं पोष्यपुत्रो मदम्बाः पोषणादिमाः ॥
तस्याश्च प्रकृतेः पुत्रो गतस्त्वत्स्वामिवीर्य्यतः ॥ ३७ ॥
न गर्भजोऽहं शैलेन्द्रकन्याया नन्दिकेश्वर ॥
सा च मे धर्मतो माता तथेमाः सर्वसम्मताः ॥ ३८ ॥
स्तनदात्री गर्भधात्री भक्ष्यदात्री गुरुप्रिया ॥
अभीष्टदेवपत्नी च पितुः पत्नी च कन्यकाः॥३९॥
सगर्भकन्या भगिनी पुत्रपत्नी प्रियाप्रसूः ॥
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ॥४०॥
मातुः पितुश्च भगिनी मातुलानी तथैव च ॥
जनानां वेदविहिता मातरः षोडश स्मृताः ॥४१॥
इमाश्च सर्वसिद्धिज्ञाः परमैश्वर्य्यसंयुताः ॥
न क्षुद्रा ब्रह्मणः कन्यास्त्रिषु लोकेषु पूजिताः ॥ ४२ ॥
विष्णुना प्रेरितस्त्वं च शम्भोः पुत्रसमो महान् ॥
गच्छ यामि त्वया सार्द्धं द्रक्ष्यामि सुरसञ्चयम् ॥४३॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे नन्दिकार्त्तिकेयसंवादो नाम पञ्चदशोऽध्यायः ॥ १५ ॥