०१४

नारायण उवाच ॥
देवास्तस्यां सभायां च सर्वे संहृष्टमानसाः ॥
गन्धर्वा मुनयः शैलाः पश्यन्तः सुमहोत्सवम्॥ ॥ १ ॥
एतस्मिन्नन्तरे दुर्गा स्मेराननसरोरुहा ॥
उवाच विष्णुं प्रणता देवेशं तत्र संसदि ॥२॥
पार्वत्युवाच ॥
त्वं पाता सर्वजगतां नाथ नाहं जगद्बहिः ॥
कथं मत्स्वामिनो वीर्य्यममोघं रक्षितं प्रभो ॥ ३ ॥
रतिभङ्गे कृते देवैर्ब्रह्मणा प्रेरितैस्त्वया ॥
भूमौ निपतितं वीर्यं केन देवेन वै हृतम् ॥ ४ ॥
सर्वे देवास्त्वत्पुरतस्तदन्विष्यन्तु सादरम् ॥
अराजकं कथमिदं तिष्ठति त्वयि राजनि ॥ ५ ॥
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ॥
उवाच देववर्गे च मुनिवर्गे च तिष्ठति ॥ ६ ॥
श्रीविष्णुरुवाच ॥
देवाः शृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ॥
शिवस्यामोघवीर्य्यं यत्तत्पुरा केन निर्हृतम् ॥ ७ ॥
सभामानयत क्षिप्रं न चेद्दण्डमिहार्हथ ॥
स को राजा न शास्ता यः प्रजाबाध्यश्च पाक्षिकः ॥ ८ ॥
विष्णोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ॥
ऊचुः सर्वे शिवावाक्यैस्त्रासिताः पुरतो हरेः ॥ ९ ॥
ब्रह्मोवाच ॥
तद्वीर्यं निर्हृतं येन पुण्यभूमौ च भारते ॥
स वञ्चितो भवत्वत्र पुण्याहे पुण्यकर्मणि ॥ १० ॥
श्रीमहादेव उवाच ॥
मद्वीर्य्यं निर्हृतं येन पुण्यभूमौ च भारते ॥
स वञ्चितो भवत्वत्र सेवने पूजने तव ॥ ११ ॥
यम उवाच ॥
स वञ्चितो भवत्वत्र शरणागतरक्षणे ॥
एकादशीव्रते चैव तद्वीर्य्यं येन निर्हृतम् ॥१२॥
इन्द्र उवाच ॥
तद्वीर्यं निर्हृतं येन पापिनां पापमोचने ॥
भवत्वत्र यशो लुप्तं तत्पुण्यं कर्म सन्ततम् ॥ १३ ॥
वरुण उवाच ॥
भवत्वत्र कलौ जन्म वर्षे स्याद्भारते हरे ॥
शूद्रयाजकपत्न्याश्च गर्भे तद्येन निर्हृतम् ॥ १४ ॥
कुबेर उवाच ॥
न्यासहारी स भवतु विश्वासघ्नश्च मित्रहा ॥
सत्यघ्नश्च कृतघ्नश्च तद्वीर्यं येन निर्हृतम्॥१५॥
ईशान उवाच ॥
परद्रव्यापहारी च स भवत्वत्र भारते ॥
नरघाती गुरुद्रोही तद्वीर्यं येन निर्हृतम्॥१६॥
रुद्रा ऊचुः॥
ते मिथ्यावादिनः सन्तु भारते पारदारिकाः ॥
गुरुनिन्दारताः शश्वत्तद्वीर्य्यं यैश्च निर्हृतम् ॥ १७ ॥
कामदेव उवाच ॥
कृत्वा प्रतिज्ञां यो मूढो न सम्पालयते भ्रमात् ॥
भाजनं तस्य पापस्य स भवेद्येन तद्धृतम् ॥ १८ ॥
स्वर्वैद्यावूचतुः ॥
मातुः पितुर्गुरोश्चैव स्त्रीपुत्राणां च पोषणे ॥
भवेतां वञ्चितौ तौ च याभ्यां वीर्य्यं च तद्धृतम् ॥ १९ ॥
सर्वे देवा ऊचुः ॥
मिथ्यासाक्ष्यप्रदातारो भवन्त्वत्र च भारते ॥
अपुत्रिणो दरिद्राश्च यैश्च वीर्य्यं हि तद्धृतम् ॥ २० ॥
देवपत्न्य ऊचुः ॥
ता निन्दन्तु स्वभर्त्तारो गच्छन्तु परपूरुषम् ॥
सन्तु बुद्धिविहीनाश्च याभिर्वीर्य्यं हि तद्धृतम् ॥ २१ ॥
देवानां वचनं श्रुत्वा देवीनां च हरिस्स्वयम् ॥
कर्मणां साक्षिणं धर्मं सूर्य्यं चन्द्रं हुताशनम् ॥ २२ ॥
पवनं पृथिवीं तोयं सन्ध्ये रात्रिं दिवं मुने ॥
उवाच जगतां कर्त्ता पाता शास्ता जगत्त्रये ॥ २३ ॥
श्रीविष्णुरुवाच ॥
देवैर्न निर्हृतं वीर्य्यं तदेतत्केन निर्हृतम् ॥
तदमोघं भगवतो महेशस्य जगद्गुरोः ॥ २४ ॥
यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ॥
युष्माभिर्निर्हृत किं वा किम्भूतं वक्तुमर्हथ ॥ २५ ॥
ईश्वरस्य वचः श्रुत्वा सभायां कम्पिताश्च ते ॥
परस्परं समालोच्य क्रमेणोचुः पुरो हरेः ॥ २६ ॥
श्रीधर्म उवाच ॥
रतेरुत्तिष्ठतो वीर्य्यं पपात वसुधातले ॥
मया ज्ञातममोघं तच्छङ्करस्य प्रकोपतः ॥ २७ ॥
क्षितिरुवाच ॥
वीर्य्यं वोढुमशक्ताऽहं तद्वह्नौ न्यक्षिपं पुरा ॥
अतीव दुर्वहं ब्रह्मन्नबलां क्षन्तुमर्हसि ॥ २८ ॥
अग्निरुवाच ॥
वीर्य्यं वोढुमशक्ताऽहं न्यक्षिपं शरकानने ॥
दुर्बलस्य जगन्नाथ किं यशः किं च पौरुषम् ॥ २९ ॥
वायुरुवाच ॥ शरेषु पतितं वीर्य्यं सद्यो बालो बभूव ह ॥
अतीव सुन्दरो विष्णो स्वर्णरेखानदीतटे ॥ ३० ॥
श्रीसूर्य्य उवाच ॥
रुदन्तं बालकं दृष्ट्वाऽगममस्ताचलं प्रति ॥
प्रेरितः कालचक्रेण निशि संस्थातुमक्षमः ॥ ३१ ॥
चन्द्र उवाच ॥ रुदन्तं बालकं प्राप्य गृहीत्वा कृत्तिकागणः ॥
जगाम स्वालयं विष्णो गच्छन्बदरिकाश्रमात् ॥ ॥ ३२ ॥
जलमुवाच ॥
अमुं रुदन्तमानीय स्तनं दत्त्वा स्तनार्थिने ॥
वर्द्धयामासुरीशस्य तं ताः सूर्य्याधिकप्रभम् ॥ ३३ ॥
सन्ध्ये ऊचतुः ॥ अधुना कृत्तिकानां च षण्णां तत्पोष्यपुत्रकः ॥
तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकेय इति स्वयम् ॥ ३४ ॥
रात्रिरुवाच ॥
न चक्रुर्बालकं ताश्च लोचनानामगोचरम् ॥
प्राणेभ्योऽपि प्रेमपात्रं यः पोष्टा तस्य पुत्रकः ॥ ३५ ॥
दिनमुवाच ॥
यानि यानि च वस्तूनि त्रैलोक्ये दुर्लभानि च ॥
प्रशंसितानि स्वादूनि भोजयामासुरेव तम् ॥ ३६ ॥
तेषां तद्वचनं श्रुत्वा सन्तुष्टो मधुसूदनः ॥
ते सर्वे हरिमित्यूचुः सभायां हृष्टमानसाः ॥ ३७ ॥
पुत्रस्य वार्त्तां सम्प्राप्य पार्वती हृष्टमानसा ॥
कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च ॥
ददौ सर्वाणि विप्रेभ्यो वासांसि विविधानि च॥३८॥
लक्ष्मीः सरस्वती मेना सावित्री सर्वयोषितः ॥
विष्णुश्च सर्वदेवाश्च ब्राह्मणेभ्यो ददुर्धनम् ॥ ३९ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे कार्त्तिकेयजन्मकथनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥