नारायण उवाच ॥
अथ विष्णुः शुभे काले देवैश्च मुनिभिः सह ॥
पूजयामास तं बालमुपहारैरनुत्तमैः ॥ १ ॥
सर्वाग्रे तव पूजा च मया दत्ता सुरोत्तम ॥
सर्वपूज्यश्च योगीन्द्रो भव वत्सेत्युवाच तम् ॥ २ ॥
वनमालां ददौ तस्मै ब्रह्मज्ञानं च मुक्तिदम् ॥
सर्वसिद्धिं प्रदायैव चकारात्मसमं हरिः ॥ ३ ॥
ददौ द्रव्याणि चारूणि चोपचारांश्च षोडश ॥
नामभिः स्तवनं चक्रे मुनिभिश्च समं सुरैः ॥ ४ ॥
विघ्नेशश्च गणेशश्च हेरम्बश्च गजाननः ॥
लम्बोदरश्चैकदन्तः शूर्पकर्णो विनायकः ॥ ५ ॥
एतान्यष्टौ च नामानि सर्वसिद्धिप्रदानि च ॥
आशिषं दापयामास चानयामास तान्मुनीन् ॥ ६ ॥
सिद्धासनं ददौ धर्मस्तस्मै ब्रह्मा कमण्डलुम् ॥
शङ्करो योगपट्टं च तत्त्वज्ञानं सुदुर्लभम् ॥ ७ ॥
रत्नसिंहासनं शक्रः सूर्य्यश्च मणिकुण्डले ॥
माणिक्यमालां चन्द्रश्च कुबेरश्च किरीटकम् ॥ ८ ॥
वह्निशुद्धं च वसनं ददौ तस्मै हुताशनः ॥
रत्नच्छत्रं च वरुणो वायू रत्नाङ्गुलीयकम् ॥ ९ ॥
क्षीरोदोद्भवसद्रत्नरचितं वलयं वरम् ॥
मञ्जीरं चापि केयूरं ददौ पद्मालया मुने ॥ १० ॥
कण्ठभूषां च सावित्री भारती हारमुज्ज्वलम् ॥
क्रमेण सर्वदेवाश्च देव्यश्च यौतकं ददुः ॥ ११ ॥
मुनयः पर्वताश्चैव रत्नानि विविधानि च ॥
वसुन्धरा ददौ तस्मै वाहनाय च मूषकम्॥१२॥
क्रमेण देवा देव्यश्च मुनयः पर्वतादयः॥
गन्धर्वाः किन्नरा यक्षा मनवो मानवास्तथा ॥१३॥
नानाविधानि द्रव्याणि स्वादूनि मधुराणि च ॥
पूजां चक्रुश्च ते सर्वे क्रमाद्वै भक्तिपूर्वकम् ॥ १४ ॥
पार्वती जगतां माता स्मेराननसरोरुहा ॥
रत्नसिंहासने पुत्रं वासयामास नारद ॥ १९ ॥
सर्वतीर्थोदकै रत्नकलशावर्जितैः स्तुतैः ॥
स्नापयामास वेदोक्तमन्त्रेण मुनिभिस्तदा ॥
अग्निशुद्धे च वसने ददौ तस्मै सती मुदा ॥ १६ ॥
गोदावर्युदकैः पाद्यमर्घ्यं गङ्गोदकेन च ॥
दूर्वाभिरक्षतापुष्पैश्चन्दनेन समन्वितम् ॥ १७ ॥
पुष्करोदकमानीय पुनराचमनीयकम् ॥
मधुपर्कं रत्नपात्रैरासवं शर्करान्वितम् ॥ १८ ॥
स्नानीयं विष्णुतैलं च स्वर्वैद्याभ्यां विनिर्मितम् ॥
अमूल्यरत्नरचितं चारुभूषाकदम्बकम् ॥ १९ ॥
पारिजातप्रसूनानामन्येषां शतकानि च ॥
मालतीचम्पकादीनां पुष्पाणि विविधानि च ॥
पूजार्हाणि च पत्राणि तुलसीसहितानि च ॥ २० ॥
चन्दनागुरुकस्तूरी कुङ्कुमानि च सादरम् ॥
रत्नप्रदीपनिकरं धूपं च परितो ददौ ॥ २१ ॥
नैवेद्यं तत्प्रियं चैव तिललड्डुकपर्वतान् ॥
यवगोधूमचूर्णानां लड्डुकानां च पर्वतान् ॥ २२ ॥
पक्वान्नानां पर्वताश्च सुस्वादुसुमनोहरान् ॥
पर्वतान्स्वस्तिकानां च सुस्वादुशर्करान्वितान् ॥ २३ ॥
गुडाक्तानां च लाजानां पृथुकानां च पर्वतान् ॥
शाल्यन्नानां पिष्टकानां पर्वतान्व्यञ्जनैः सह ॥
पयोभृत्कलशानां च लक्षाणि प्रददौ मुदा ॥ २४ ॥
लक्षाणि दधिपूर्णानां कलशानां च पूजने ॥
मधुभृत्कलशानां च त्रिलक्षाणि च सुन्दरी ॥ २५ ॥
सर्पिस्सुवर्णकुम्भानां पञ्चलक्षाणि सादरम् ॥
दाडिमानां श्रीफलानामसङ्ख्यानि फलानि च ॥ २६ ॥
खर्जूराणां कपित्थानां जम्बूनां विविधानि च ॥।
आम्राणां पनसानां च कदलीनां च नारद ॥
फलानि नारिकेलानामसङ्ख्यानि ददौ मुदा ॥ २७॥
अन्यानि परिपक्वानि कालदेशोद्भवानि च ॥
ददौ तानि महाभाग स्वादूनि मधुराणि च ॥ २८ ॥
स्वच्छं सुनिर्मलं चैव कर्पूरादिसुवासितम् ॥
गङ्गाजलं च पानार्थं पुनराचमनीयकम् ॥ २९ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥
सुवर्णपात्रशतकं भक्ष्यपूर्णं च नारद ॥ ३० ॥
शैलराजप्रिया मात्याः पुपूजुः शैलजात्मजम् ॥३१॥
ॐ श्रीं ह्रीं क्लीं गणेश्वराय ब्रह्मरूपाय चारवे ॥
सर्वसिद्धिप्रदेशाय विश्वेशाय नमो नमः ॥३२॥
इत्यनेनैव मन्त्रेण दत्त्वा द्रव्याणि भक्तितः॥
सर्वे प्रमुदितास्तत्र ब्रह्मविष्णुशिवादयः॥३३॥
द्वात्रिंशदक्षरो मालामन्त्रोऽयं सर्वकामद॥
धर्मार्थकाममोक्षाणां फलदः सर्वसिद्धिदः ॥३४॥
पञ्चलक्षजपेनैव मन्त्रसिद्धिस्तु मन्त्रिणः॥
मन्त्रसिद्धिर्भवेद्यस्य स च विष्णुश्च भारते॥३५॥
विघ्नानि च पलायन्ते तन्नामस्मरणेन च ॥
महावाग्ग्मी महासिद्धिः सर्वसिद्धिसमन्वितः ॥ ३६ ॥
वाक्पतिर्गुरुतां याति तस्य साक्षात्सुनिश्चितम् ॥
महाकवीन्द्रो गुणवान्विदुषां च गुरोर्गुरुः ॥ ३७ ॥
सम्पूज्यानेन मन्त्रेण देवा आनन्दसम्प्लुताः ॥
नानाविधानि वाद्यानि वादयामासुरुत्सवे ॥३८॥
ब्राह्मणान्भोजयामासुः कारयामासुरुत्सवम् ॥
ददुर्दानानि तेभ्यश्च बन्दिभ्यश्च विशेषतः ॥३९॥
नारायण उवाच ॥
अथ विष्णुः सभामध्ये तं सम्पूज्य गणेश्वरम् ॥
तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ॥ ४० ॥
ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ॥
नैव वर्णयितुं शक्तोऽस्त्यनुरूपमनीहकम् ॥ ४१ ॥
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ॥
सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम् ॥ ४२ ॥
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ॥
वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ४३ ॥
संसारार्णवपारे च मायापोते सुदुर्लभे ॥
कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ॥ ४४ ॥
वरं वरेण्यं वरदं वरदानामपीश्वरम् ॥
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम ॥ ४९ ॥
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ॥
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥४६॥
बीजं संसारवृक्षाणामङ्कुरं च तदाश्रयम् ॥
स्त्रीपुन्नपुंसकानां च रूपमेतदतीन्द्रियम् ॥ ४७ ॥
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ॥
स्वेच्छया सगुणं ब्रह्म निर्गुणं स्वेच्छया पुनः ॥४८॥
स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् ॥
त्वां स्तोतुमक्षमोऽनन्तः सहस्रवदनैरपि ॥ ४९ ॥
न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः ॥
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ॥
न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ॥५०॥
इत्येवं स्तवनं कृत्वा मुनीशसुरसंसदि ॥
सुरेशश्च सुरैः सार्द्धं विरराम रमापतिः ॥५१॥
इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ॥
सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः ॥ ५२ ॥
तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने ॥
वर्द्धते सर्वकल्याणं कल्याणजनकः सदा ॥ ५३ ॥
यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम् ॥
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ ५४ ॥
तेन दृष्टं च दुस्स्वप्नं सुस्वप्नमुपजायते ॥
कदाऽपि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ ५५ ॥
भवेद्विनाशः शत्रूणां बन्धूनां चापि वर्द्धनम् ॥
शश्वद्विघ्नविनाशश्च शश्वत्सम्यग्विवर्द्धनम् ॥ ५६ ॥
स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्द्धनम् ॥
सर्वैश्वर्य्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ ५७ ॥
फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम् ॥
महतां सर्वदानानां तद्गणेशप्रसादत ॥५८॥
नारद उवाच ॥
श्रुतं स्तोत्रं गणेशस्य पूजनं च मनोहरम् ॥
कवचं श्रोतुमिच्छामि साम्प्रतं भवतारणम् ॥५९॥
नारायण उवाच ॥
पूजायां सुनिवृत्तायां सभामध्ये शनैश्चरः ॥
उवाच विष्णुं सर्वेषां तारकं जगतां गुरुम् ॥ ६० ॥
शनैश्चर उवाच ॥
सर्वदुःखविनाशाय पापप्रशमनाय च ॥
कवचं विघ्ननिघ्नस्य वद वेदविदांवर ॥ ६१ ॥
बभूव नो विवादश्च शक्त्या वै मायया सह ॥
तद्विघ्नप्रशमार्थं च कवचं धारयाम्यहम् ॥ ६२ ॥
श्रीविष्णुरुवाच ॥
विनायकस्य कवचं त्रिषु लोकेषु दुर्लभम् ॥
सुगोप्यं च पुराणेषु दुर्लभं चागमेषु च ॥ ६३ ॥
उक्तं कौथुमशाखायां सामवेदे मनोहरम् ॥
कवचं विघ्ननाथस्य सर्वविघ्नहरं परम् ॥ ६४ ॥
राज्यं देयं शिरो देयं प्राणा देयाश्च सूर्य्यज ॥
एवम्भूतं च कवचं न देयं प्राणसङ्कटे ॥ ६५ ॥
आविर्भावस्तिरोभावः स्वेच्छया यस्य मायया ॥
नित्योऽयमेकदन्तश्च कवचं चास्य वत्सक ॥६६॥
पूजाऽस्य नित्या स्तोत्रं च कल्पे कल्पेऽस्ति सन्ततम्॥
अस्य वै जन्मनः पूर्वं मुनयश्च सिषेविरे॥६७॥
यथा मदवतारेषु जन्मविग्रहधारणम् ॥
तथा गणेश्वरस्यापि जन्म शैलसुतोदरे ॥ ६८ ॥
यद्धृत्वा मुनयः सर्वे जीवन्मुक्ताश्च भारते ॥
निश्शङ्काश्च सुराः सर्वे शत्रुपक्षविमर्दकाः ॥ ६९ ॥
कवचं बिभ्रतां मृत्युर्न भिया याति सन्निधिम् ॥
नायुर्व्ययो नाशुभं च ब्रह्माण्डे न पराजयः ॥ ७० ॥
दश लक्षजपेनैव सिद्धं तु कवचं भवेत् ॥
यो भवेत्सिद्धकवचो मृत्युं जेतुं स च क्षमः ॥ ७१ ॥
सुसिद्धकवचो वाग्मी चिरञ्जीवी महीतले ॥
सर्वत्र विजयी पूज्यो भवेद्ग्रहणमात्रतः ॥ ७२ ॥
मालामन्त्रमिमं पुण्यं कवचं मङ्गलं शुभम् ॥
बिभ्रतां सर्वपापानि प्रणश्यन्ति सुनिश्चितम् ॥ ७३ ॥
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥
डाकिनीयोगिनीयक्षवेताला भैरवादयः ॥ ७४ ॥
बालग्रहा ग्रहाश्चैव क्षेत्रपालादयस्तथा ॥
वर्मणः शब्दमात्रेण पलायन्ते च भीरवः ॥७५॥
आधयो व्याधयश्चैव शोकाश्चैव भयावहाः ॥
न यान्ति सन्निधिं तेषां गरुडस्य यथोरगाः ॥ ७६ ॥
ऋजवे गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ॥
खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ ७७ ॥
संसारमोहकस्यास्य कवचस्य प्रजापतिः ॥
ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम्॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ॥ ७८ ॥
सर्वेषां कवचानां च सारभूतमिदं मुने ॥
ॐ गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम् ॥
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ७९ ॥
ॐ ह्रीं क्लीं श्रीं गमिति वै सततं पातु लोचनम् ॥
तालुके पातु विघ्नेशः सततं धरणीतले ॥ ८० ॥
ॐ ह्रीं श्रीं क्लीमिति परं सन्ततं पातु नासिकाम् ॥
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥
दन्तांश्च तालुकां जिह्वां पातु मे षोडशाक्षरः ॥ ८१ ॥
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदा ऽवतु ॥
ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णं सदाऽवतु ॥ ८२ ॥
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु॥
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ॥ ८३ ॥
ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलं परम् ॥
करौ पादौ सदा पातु सर्वाङ्गं विघ्ननाशकृत् ॥ ८४ ॥
प्राच्यां लम्बोदरः पातु चाग्नेय्यां विघ्ननायकः ॥
दक्षिणे पातु विश्वेशो नैर्ऋत्यां तु गजाननः ॥ ८५ ॥
पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः ॥
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च ॥ ८६ ॥
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ॥
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ॥
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ॥ ८७ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥
संसारमोहनं नाम कवचं परमाद्भुतम् ॥८८॥
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ॥
वृन्दावने विनीताय मह्यं दिनकरात्मज ॥ ८९ ॥
मया दत्तं च तुभ्यं च यस्मै कस्मै न दास्यसि ॥
परं वरं सर्वपूज्यं सर्वसङ्कटतारणम् ॥ ९० ॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ॥
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ ९१ ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ॥
ग्रहेन्द्र कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ ९२ ॥
इदं कवचमज्ञात्वा यो भजेच्छङ्करात्मजम् ॥
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ९३ ॥
इति संसारमोहनं नाम कवचम् ॥
दत्त्वेदं सूर्य्यपुत्राय विरराम सुरेश्वरः ॥
परमानन्दसंयुक्ता देवास्तस्थुः समीपतः ॥ ९४ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशपूजास्तवकवचकथनं नाम त्रयोदशोऽध्यायः ॥१३॥