०१२

नारायण उवाच ॥
दुर्गा तद्वचनं श्रुत्वा सस्मार हरिमीश्वरम् ॥
ईश्वरेच्छावशीभूतं जगदेवेत्युवाच ह॥१॥
सा च देवी दैववशा शनिं प्रोवाच कौतुकात्॥
पश्य मां मच्छिशुमिति निषेकः केन वार्य्यते॥२॥
पार्वत्या वचनं श्रुत्वा शनिर्मेने हृदा स्वयम् ॥
पश्यामि किं न पश्यामि पार्वतीसुतमित्यहो ॥
यदि बालो मया दृष्टस्तस्य विघ्नो भवेद्ध्रुवम्॥३॥
अन्यथा सुप्रशस्तं च पुरतः स्वात्मरक्षणम् ॥
इत्येवमुक्त्वा धर्मिष्ठो धर्मं कृत्वा तु साक्षिणम्॥
बालं द्रष्टुं मनश्चक्रे न तु तन्मातरं शनिः॥४॥
विषण्णमानसः पूर्वं शुष्ककण्ठौष्ठतालुकः॥
सव्यलोचनकोणेन ददर्श च शिशोर्मुखम् ॥५॥
शनेश्च दृष्टिमात्रेण चिच्छिदे मस्तकं मुने ॥
चक्षुर्निमीलयामास तस्थौ नम्राननः शनिः॥६॥
तस्थौ च पार्वतीक्रोडे तत्सर्वाङ्गं सलोहितम्॥
विवेश मस्तकं कृष्णे गत्वा गोलोकमीप्सितम्॥७॥
मूर्च्छा सम्प्राप सा देवी विलप्य च भृशं मुहुः॥
मत्तेव च पृथिव्यां तु कृत्वा वक्षसि बालकम् ॥ ८ ॥
विस्मितास्ते सुराः सर्वे चित्रपुत्तलिका यथा ॥
देव्यश्च शैला गन्धर्वाः सर्वे कैलासवासिनः ॥ ९ ॥
तान्सर्वान्मूर्च्छितान्दृष्ट्वैवारुह्य गरुडं हरिः ॥
जगाम पुष्पभद्रां स चोत्तरस्यां दिशि स्थिताम् ॥ १० ॥
पुष्पभद्रानदीतीरे ह्यपश्यत्कानने स्थितम् ॥
गजेन्द्रं निद्रितं तत्र शयानं हस्तिनीयुतम् ॥ ११ ॥
तथोदक्छिरसं रम्यं मूर्च्छितं सुरतश्रमात् ॥
परितः शावकात्कृत्वा परमानन्दमानसम् ॥ १२ ॥
शीघ्रं सुदर्शनेनैव चिच्छिदे तच्छिरो मुदा ॥
स्थापयामास गरुडे रुधिराक्तं मनोहरम् ॥ १३ ॥
गजच्छिन्नाङ्गविक्षेपात्प्रबोधं प्राप्य हस्तिनी ॥
शावकान्बोधयामास चाशुभं वदती तदा ॥
रुरोद शावकैः सार्द्धं सा विलप्य शुचातुरा ॥ १४ ॥
तुष्टाव कमलाकान्तं शान्तं सस्मितमीश्वरम् ॥
शङ्खचक्रगदापद्मधरं पीताम्बरं परम् ॥
गरुडस्थं जगत्कान्तं भ्रामयन्तं सुदर्शनम् ॥ १५ ॥
निषेकं खण्डितुं शक्तं निषेकजनकं विभुम् ॥
निषेकभोगदातारं भोगनिस्तारकारणम् ॥ १६ ॥
प्रभुस्तत्स्तवनात्तुष्टस्तस्यै विप्र वरं ददौ ॥
मुण्डातुण्डं पृथक्कृत्य युयुजेऽन्यगजस्य च ॥ १७ ॥
जीवयामास तं तत्र ब्रह्मज्ञानेन सर्ववित् ॥
सर्वाङ्गे योजयामास गजस्य चरणाम्बुजम् ॥ १८ ॥
त्वं जीवाकल्पपर्य्यन्तं परिवारैः समं गज ॥
इत्युक्त्वा च मनोयायी कैलासं ह्याजगाम सः ॥ १९ ॥
आहृत्य पार्वतीहस्ताद्बालं कृत्वा स्ववक्षसि ॥
रुचिरं तच्छिरस्सम्यग्योजयामास बालके ॥ २० ॥
ब्रह्मस्वरूपो भगवान्ब्रह्मज्ञानेन लीलया ॥
जीवयामास तं शीघ्रं हुङ्कारोच्चारणेन च ॥ २१ ॥
पार्वतीं बोधयित्वा तु कृत्वा क्रोडे च तं शिशुम् ॥
बोधयामास तां कृष्ण आध्यात्मिकविबोधनैः ॥ २२ ॥
विष्णुरुवाच ॥
ब्रह्मादिकीटपर्य्यन्तं फलं भुङ्क्ते स्वकर्मणः ॥
जगद्बुद्धिस्वरूपाऽसि त्वं न जानासि किं शिव ॥ २३ ॥
कल्पकोटिशतं भोगी जीविनां तत्स्वकर्मणा ॥
उपस्थितो भवेन्नित्यं प्रतियोनौ शुभाशुभैः ॥ २४ ॥
इन्द्रः स्वकर्मणा कीटयोनौ जन्म लभेत्सति ॥
कीटश्चापि भवेदिन्द्रः पूर्वकर्मफलेन वै॥२५॥
सिंहोऽपि मक्षिकां हन्तुमक्षमः प्राक्तनं विना ॥
मशको हस्तिनं हन्तुं क्षमः स्वप्राक्तनेन च ॥२६॥
सुखं दुःख भयं शोकमानन्दं कर्मणः फलम् ॥
सुकर्मणः सुखं हर्षमितरे पापकर्मणः ॥ २७ ॥
इहैव कर्मणो भोगः परत्र च शुभाशुभैः ॥
कर्मोपार्जनयोग्यं च पुण्यक्षेत्रं च भारतम् ॥ २८ ॥
कर्मणः फलदाता च विधाता च विधेरपि ॥
मृत्योर्मृत्युः कालकालो निषेकस्य निषेककृत् ॥ २९ ॥
संहर्तुरपि संहर्त्ता पातुः पाता परात्परः ॥
गोलोकनाथः श्रीकृष्णः परिपूर्णतमः स्वयम् ॥३०॥
वयं यस्य कलाः पुंसो ब्रह्मविष्णुमहेश्वराः ॥
महाविराड्यदंशश्च यल्लोमविवरे जगत् ॥ ३१ ॥
कलांशाः केऽपि तद्धर्मे कलाशांशाश्च केचन ॥
चराचरं जगत्सर्वं तत्र तस्थौ विनायकः ॥ ३२ ॥
श्रीविष्णोर्वचनं श्रुत्वा परितुष्टा च पार्वती ॥
स्तनं ददौ च शिशवे तं प्रणम्य गदाधरम् ॥ ३३ ॥
तुष्टाव पार्वती तुष्टा प्रेरिता शङ्करेण च ॥
कृताञ्जलिपुटा भक्त्या विष्णुं तं कमलापतिम् ॥३४॥
आशिषं युयुजे विष्णुः शिशुं च शिशुमातरम् ॥
ददौ गले बालकस्य कौस्तुभं च स्वभूषणम् ॥३५॥
ब्रह्मा ददौ स्वमुकुटं धर्मो वै रत्नभूषणम्॥
क्रमेण देव्यो रत्नानि ददुः सर्वे यथोचितम्॥३६॥
तुष्टाव तं महादेवश्चात्यन्तं हृष्टमानसः ॥
देवाश्च मुनयः शैला गन्धर्वाः सर्वयोषितः॥३७॥
दृष्ट्वा शिवाः शिवा चैव बालकं मृतजीवितम् ॥
ब्राह्मणेभ्यो ददौ तत्र कोटिरत्नानि नारद ॥३६॥
अश्वानां च गजानां च सहस्राणि शतानि च ॥
बन्दिभ्यः प्रददौ तत्र बालके मृतजीविते ॥३९॥
हिमालयश्च सन्तुष्टो हृष्टा देवाश्च तत्र वै ॥
ददुर्दानानि विप्रेभ्यो बन्दिभ्यः सर्वयोषित॥४०॥
ब्राह्मणान्भोजयामास कारयामास मङ्गलम् ॥
वेदांश्च पाठयामास पुराणानि रमापतिः ॥ ४१ ॥
शनिं संलज्जितं दृष्ट्वा पार्वती कोपशालिनी ॥
शशाप च सभामध्येऽप्यङ्गहीनो भवेति च ॥ ४२ ॥
दृष्ट्वा शप्तं शनिं सूर्य्यः कश्यपश्च यमस्तथा ॥
तेऽतिरुष्टाः समुत्तस्थुर्गामुकाः शङ्करालयात् ॥ ४३ ॥
रक्ताक्षास्ते रक्तमुखाः कोपप्रस्फुरिताधराः ॥
तां धर्मसाक्षिणं कृत्वा विष्णुं संशप्तुमुद्यताः ॥ ४४ ॥
ब्रह्मा तान्बोधयामास विष्णुना प्रेरितः सुरैः ॥
रक्तास्यां पार्वतीं चैव कोपप्रस्फुरिताधराम् ॥ ४५ ॥
ब्रह्माणमूचुस्ते तत्र क्रमेण समयोचितम् ॥
भीरवो देवताः सर्वे मुनयः पर्वतास्तथा ॥ ४६॥
कश्यप उवाच ॥
दुर्दृष्टोऽयं प्राक्तनेन पत्नीशापेन सर्वदा ॥
बालं ददर्श यत्नेन तस्य वै मातुराज्ञया ॥ ४७ ॥
श्रीसूर्य्य उवाच ॥
तं धर्मं साक्षिणं कृत्वा सूनोर्वै मातुराज्ञया ॥
यत्पुत्रोऽतिप्रयत्नेन ह्यपश्यत्पार्वतीसुतम् ॥ ४८ ॥
यथा निरपराधेन मत्पुत्रं सा शशाप ह ॥
तत्पुत्रस्याङ्गभङ्गश्च भविष्यति न संशयः ॥ ४९ ॥
यम उवाच ॥
प्रदाय स्वयमाज्ञां च शशापेयं स्वयं कथम् ॥
वयं शपामः कोऽधर्मो जिघांसोश्च विहिंसने ॥ ५० ॥
ब्रह्मोवाच ॥
शशाप पार्वती रुष्टा स्त्रीस्वभावाच्च चापलात् ॥
सर्वेषां वचनेनैव क्षन्तुमर्हन्तु साधवः ॥ ५१ ॥
दुर्गे दत्त्वा त्वमाज्ञां च पुत्रदर्शनहेतवे ॥
कथं शपसि निर्दोषमतिथिं त्वद्गृहागतम् ॥ ५२ ॥
इत्युक्त्वा शनिमादाय बोधयित्वा च पार्वतीम् ॥
तां तं समर्पणं चक्रे शाप मोचनहेतवे ॥ ५३ ॥
बभूव पार्वती तुष्टा ब्रह्मणो वचनान्मुने॥
शान्ता बभूबुस्ते तत्र दिनेशयमकश्यपाः॥५४॥
उवाच पार्वती तत्र सन्तुष्टा तं शनैश्चरम् ॥
प्रसादिता शिवेनैव ब्रह्मणा परिसेविता ॥ ५५ ॥
पार्वत्युवाच ॥
ग्रहराजो भव शने मद्वरेण हरिप्रियः ॥
चिरजीवी च योगीन्द्रो हरिभक्तस्य का विपत् ॥ ५६ ॥
अद्यप्रभृति निर्विघ्ना हरौ भक्तिर्दृढाऽस्तु ते ॥
शापोऽमोघस्ततो मेऽद्य किञ्चित्खञ्जो भविष्यसि ॥ ५७ ॥
इत्युक्त्वा पार्वती तुष्टा बालं धृत्वा च वक्षसि ॥
उवास योषितां मध्ये तस्मै दत्त्वा शुभाशिषः ॥ ५८ ॥
शनिर्जगाम देवानां समीपं हृष्टमानसः ॥
प्रणम्य भक्त्या तां ब्रह्मन्नम्बिकां जगदम्बिकाम् ॥ ५९ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शनिकृतगणेशदर्शन तज्जातगणेशशिरःपतन विष्णुकृतगणेशशिरोयोजन शनिशापादिकथनं नाम द्वादशोऽध्यायः ॥ १२ ॥