०११

नारायण उवाच ॥
हरिस्तमाशिषं कृत्वा रत्नसिंहासने वरे ॥
देवैश्च मुनिभिः सार्द्धमवसत्तत्र संसदि ॥ १ ॥
दक्षिणे शङ्करस्तस्य वामे ब्रह्मा प्रजापतिः ॥
पुरतो जगतां साक्षी धर्मो धर्मवतां वरः ॥ २ ॥
तथा धर्मसमीपे च सूर्य्यः शक्रः कलानिधिः ॥
देवाश्च मुनयो ब्रह्मन्नूषुः शैलाः सुखासने ॥ ३ ॥
ननर्त्त नर्त्तकश्रेणी जगुर्गन्धर्व किन्नराः ॥
श्रुतिसारं श्रुतिसुखं तुष्टुवुः श्रुतयो हरिम् ॥ ४ ॥
एतस्मिन्नन्तरे तत्र द्रष्टुं शङ्करनन्दनम् ॥
आजगाम महायोगी सूर्यपुत्रः शनैश्चरः ॥ ५ ॥
अत्यन्तनम्रवदन ईषन्मुद्रितलोचनः ॥
अन्तर्बहिः स्मरन्कृष्णं कृष्णैकगतमानसः ॥ ६ ॥
तपःफलाशी तेजस्वी ज्वलदग्निशिखोपमः ॥
अतीव सुन्दरः श्यामः पीताम्बरधरो वरः ॥ ७ ॥
प्रणम्य विष्णुं ब्रह्माणं शिवं धर्मं रविं सुरान् ॥
मुनीन्द्रान्बालकं द्रष्टुं जगाम तदनुज्ञया ॥८॥
प्रधानद्वारमासाद्य शिवतुल्यपराक्रमम् ॥
द्वाःस्थं वै शूलहस्तं च विशालाक्षमुवाच ह ॥ ९ ॥
शनैश्चर उवाच ॥
शिवाज्ञया शिशुं द्रष्टुं यामि शङ्करकिङ्कर ॥
विष्णुप्रमुखदेवानां मुनीनामनुरोधतः ॥ १० ॥
आज्ञां देहि च मां गन्तुं पार्वतीसन्निधिं बुध ॥
पुनर्यामि शिशुं दृष्ट्वा विषयासक्तमानसः ॥ ११ ॥
विशालाक्ष उवाच ॥ आज्ञावहो न देवानां नाहं शङ्करकिङ्करः ॥
मार्गं दातुं न शक्तोऽहं विना मन्मातुराज्ञया ॥ १२ ॥
इत्युक्त्वाऽभ्यन्तरभ्येत्य प्रेरितः स शिवाज्ञया ॥
ददौ मार्गं ग्रहेशाय विशालाक्षो मुदा ततः ॥ १३ ॥
शनिरभ्यन्तरं गत्वा चानमन्नम्रकन्धरः ॥
रत्नसिंहासनस्थां च पार्वतीं सस्मितां मुदा ॥ १४ ॥
सखीभिः पञ्चभिः शश्वत्सेवितां श्वेतचामरैः ॥
सखीदत्तं च ताम्बूलमुपभुज्य सुवासितम् ॥१५॥
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥
पश्यन्तीं नर्त्तकीनृत्यं पुत्रं धृत्वा च वक्षसि ॥ १६ ॥
नतं सूर्य्यसुतं दृष्ट्वा दुर्गा सम्भाष्य सत्वरम् ॥
शुभाशिषं ददौ तस्मै पृष्ट्वा तन्मङ्गलं शुभम् ॥ ३७ ॥
पार्वत्युवाच ॥
कथमानम्रवक्त्रस्त्वं श्रोतुमिच्छामि साम्प्रतम् ॥
किं न पश्यसि मां साधो बालकं वा ग्रहेश्वर ॥ १८ ॥
शनिरुवाच॥
सर्वे स्वकर्मणा साध्वि भुञ्जते तपसः फलम्॥
शुभाशुभं च यत्कर्म कोटिकल्पैर्न लुप्यते ॥ १९ ॥
कर्मणा जायते जन्तुर्ब्रह्मेन्द्रार्य्यममन्दिरे ॥
कर्मणा नरगेहेषु पश्वादिषु च कर्मणा ॥ २० ॥
कर्मणा नरकं याति वैकुण्ठं याति कर्मणा ॥
स्वकर्मणा च राजेन्द्रो भृत्यश्चापि स्वकर्मणा ॥ २१ ॥
कर्मणा सुन्दरः शश्वद्व्याधियुक्तः स्वकर्मणा ॥
कर्मणा विषयी मातर्न्निर्लिप्तश्च स्वकर्मणा ॥ २२ ॥
कर्मणा धनवाल्ँलोको दैन्ययुक्तः स्वकर्मणा ॥
कर्मणा सत्कुटुम्बी च कर्मणा बन्धुकण्टकः ॥ २३ ॥
सुभार्यश्च सुपुत्रश्च सुखी शश्वत्स्वकर्मणा ॥
अपुत्रकश्च कुस्त्रीको निस्त्रीकश्च स्वकर्मणा ॥ २४ ॥
इतिहासं चातिगोप्यं शृणु शङ्करवल्लभे ॥
अकथ्यं जननीपार्श्वे लज्जाजनककारणम् ॥ २५ ॥
आबाल्यात्कृष्णभक्तोऽहं कृष्णध्यानैकमानसः ॥
तपस्यासु रतश्शश्वद्विषयेऽपि रतः सदा ॥ २६ ॥
पिता ददौ विवाहे तु कन्यां चित्ररथस्य च ॥
अतितेजस्विनी शश्वत्तपस्यासु रता सती ॥ २७ ॥
एकदा सा त्वृतुस्नाता सुवेषं स्वं विधाय च ॥
रत्नालङ्कारसंयुक्ता मुनिमानसमोहिनी ॥ २८ ॥
हरेः पादं ध्यायमानं पश्यन्ती मदमोहिता ॥
मत्समीपं समागत्य सस्मिता लोललोचना ॥२९॥
शशाप मामपश्यन्तमृतुनाशाच्च कोपतः ॥
बाह्यज्ञानविहीनं च ध्यानसंलग्नमानसम् ॥ ३० ॥
न दृष्टाऽहं त्वया येन न कृतं ह्यृतुरक्षणम्
त्वया दृष्टं च यद्वस्तु मूढ सर्वं विनश्यति ॥ ३१ ॥
अहं च विरतो ध्यानात्तोषयंस्तां तदा सतीम् ॥
शापं मोक्तुं न शक्ता सा पश्चात्तापमवाप ह ॥ ३२ ॥
तेन मातर्न पश्यामि किञ्चिद्वस्तु स्वचक्षुषा ॥
ततः प्रकृतिनम्रास्यः प्राणिहिंसाभयादहम् ॥ ३३ ॥
शनैश्चरवचः श्रुत्वा चाहसत्पार्वती मुने ॥
उच्चैः प्रजहसुः सर्वा नर्त्तकीकिन्नरीगणाः ॥ ३४ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शनिपार्वतीसंवादे शनेरधोदृष्टौ कारणकथनं नामैकादशोऽध्यायः ॥ ११ ॥