००९

नारायण उवाच ॥
हरौ तिरोहिते शर्वाणी दुर्गा शङ्करस्तदा ॥
ब्राह्मणान्वेषणं कृत्वा बभ्राम परितो मुने ॥ १ ॥
पार्वत्युवाच ॥
अये विप्रेन्द्रातिवृद्ध क्व गतोऽसि क्षुधाऽऽतुरः ॥
हे तात दर्शनं देहि प्राणान्वै रक्ष मे विभो ॥ २ ॥
शिव शीघ्रं समुत्तिष्ठ ब्राह्मणान्वेषणं कुरु ॥
क्षणमुन्मनसोरेष गतः प्रत्यक्षमावयोः ॥ ३ ॥
अगृहीत्वा गृहात्पूजां गृहिणोऽतिथिरीश्वर ॥
यदि याति क्षुधाऽऽर्त्तश्च तस्य किं जीवनं वृथा ॥ ४ ॥
पितरस्तन्न गृह्णन्ति पिण्डदानं च तर्पणम् ॥
तस्याहुतिं न गृह्णाति वह्निः पुष्पं जलं सुराः ॥ ५ ॥
हव्यं पुष्पं जलं द्रव्यमशुचेश्च सुरासमम् ॥
अमेध्यसदृशः पिण्डः स्पर्शनं पुण्यनाशनम् ॥ ६ ॥
एतस्मिन्नन्तरे तत्र वाग् बभूवाशरीरिणी ॥
कैवल्ययुक्ता सा दुर्गा तां शुश्राव शुचाऽऽतुरा ॥ ७ ॥
शान्ता भव जगन्मातस्स्वसुतं पश्य मन्दिरे ॥
कृष्णं गोलोकनाथं तं परिपूर्णतमं परम् ॥८॥
सुपुण्यकव्रततरोः फलरूपं सनातनम् ॥
यत्तेजो योगिनः शश्वद्ध्यायन्ति सन्ततं मुदा ॥ ९ ॥
ध्यायन्ति वैष्णवा देवा ब्रह्मविष्णुशिवादयः ॥
यस्य पूज्यस्य सर्वाग्रे कल्पे कल्पे च पूजनम् ॥ १० ॥
यस्य स्मरणमात्रेण सर्वविघ्नो विनश्यति ॥
पुण्यराशिस्वरूपं च स्वसुतं पश्य मन्दिरे ॥ ११ ॥
कल्पे कल्पे ध्यायसि यं ज्योतीरूपं सनातनम् ॥
पश्य त्वं मुक्तिदं पुत्रं भक्तानुग्रहविग्रहम् ॥१२॥
तव वाञ्छापूर्णबीजं तपःकल्पतरोः फलम्॥
सुन्दरं स्वसुतं पश्य कोटिकन्दर्पनिन्दकम् ॥१३॥
नायं विप्रः क्षुधाऽऽर्त्तश्च विप्ररूपी जनार्दनः ॥
किं वा विलापं कुरुषे क्व वा वृद्धः क्व चातिथिः ॥
सरस्वती त्वेवमुक्त्वा विरराम च नारद ॥ १४ ॥
त्रस्ता श्रुत्वाऽऽकाशवाणीं जगाम स्वालयं सती ॥
ददर्श बालं पर्य्यङ्के शयानं सस्मितं मुदा॥१५॥
पश्यन्तं गेहशिखरं शतचन्द्रसमप्रभम् ॥
स्वप्रभापटलेनैव द्योतयन्तं महीतलम् ॥ १६ ॥
कुर्वन्तं भ्रमणं तल्पे पश्यन्तं स्वेच्छया मुदा ॥
उमेति शब्दं कुर्वन्तं रुदन्तं तं स्तनार्थिनम् ॥ १७ ॥
दृष्ट्वा तदद्भुतं रूपं त्रस्ता शङ्करसन्निधिम् ॥
गत्वा सोवाच गिरिशं सर्वमङ्गलमङ्गला ॥ १८ ॥
पार्वत्युवाच ॥
गृहमागच्छ सर्वेश तपसां फलदायकम् ॥
कल्पे कल्पे ध्यायसि यं तं पश्यागत्य मन्दिरम् ॥ १९ ॥
शीघ्रं पुत्रमुखं पश्य पुण्यबीजं महोत्सवम् ॥
पुन्नामनरकत्राणकारणं भवतारणम् ॥ २० ॥
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम् ॥
पुत्रसन्दर्शनस्यास्य कलां नार्हति षोडशीम् ॥ २१ ॥
सर्वदानेन यत्पुण्यं क्ष्माप्रदक्षिणतश्च यत् ॥
पुत्रदर्शनपुण्यस्य कलां नार्हति षोडशीम् ॥ २२ ॥
सर्वैस्तपोभिर्यत्पुण्यं देवानशनैर्व्रतैः ॥
सत्पुत्रोद्भवपुण्यस्य कलां नार्हति षोडशीम् ॥ २३ ॥
यद्विप्रभोजनैः पुण्यं यदेव सुरसेवनैः ॥
सत्पुत्रप्राप्तिपुण्यस्य कलां नार्हति षोडशीम् ॥ २४ ॥
पार्वत्या वचनं श्रुत्वा शिवः संहृष्टमानसः ॥
आजगाम स्वभवनं क्षिप्रं वै कान्तया सह ॥
ददर्श तल्पे स्वसुतं तप्तकाञ्चनसन्निभम् ॥ २५ ॥
हदयस्थं च यद्रूपं तदेवातिमनोहरम् ॥
दुर्गातल्पात्समादाय कृत्वा वक्षसि तं सुतम्॥
चुचुम्बानन्दजलधौ निमग्ना सेत्युवाच तम् ॥ २६ ॥
सम्प्राप्यामूल्यरत्नं त्वां पूर्णमेव सनातनम् ॥
यथा मनो दरिद्रस्य सहसा प्राप्य सद्धनम् ॥ २७ ॥
कान्ते सुचिरमायाते प्रोषिते योषितो यथा ॥
मानसं परिपूर्णं च बभूव च तथा मम ॥ २८ ॥
सुचिरं गतमायातमेकपुत्रा कथा सुतम् ॥
दृष्ट्वा तुष्टा यथा वत्स तथाऽहमपि साम्प्रतम् ॥ २९ ॥
सद्रत्नं सुचिरं भ्रष्टं प्राप्य हृष्टो यथा जनः ॥
अनावृष्टौ सुवृष्टिं च सम्प्राप्याहं तथा सुतम् ॥ ३० ॥
यथा सुचिरमन्धानां स्थितानां च निराश्रये ॥
चक्षुस्सुनिर्म्मलं प्राप्य मनः पूर्णं तथैव मे ॥ ३१ ॥
दुस्तरे सागरे घोरे पतितस्य च सङ्कटे ॥
अनौकस्य प्राप्य नौकां मनः पूर्णं तथा मम ॥ ३२ ॥
तृष्णया शुष्ककण्ठानां सुचिराच्च सुशीतलम्॥
सुवासितं जलं प्राप्य मनः पूर्णं तथा मम॥३३॥
दावाग्निपतितानां च स्थितानां च निराश्रये ॥
निरग्निमाश्रयं प्राप्य मनः पूर्णं तथा मम ॥ ३४ ॥
चिरं बुभुक्षितानां च व्रतोपोषणकारिणाम् ॥३५॥
सदन्नं पुरतो दृष्ट्वा मनः पूर्णं तथा मम ॥
इत्युक्त्वा पार्वती तत्र क्रोडे कृत्वा स्वबालकम् ॥३६॥
प्रीत्या स्तनं ददौ तस्मै परमानन्दमानसा ॥
क्रोडे चकार भगवान्बालकं हृष्टमानसः ॥ ३७ ॥
चुचुम्ब गण्डे वेदोक्तं युयुजे चाशिषं मुदा ॥ ३८ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराण तृतीये गणपति खण्डे नारदनारायणसंवादे बालगणेशदर्शनं नाम नवमोऽध्यायः ॥ ९ ॥