००८

नारायण उवाच ॥
पार्वत्याः स्तवनं श्रुत्वा श्रीकृष्णः करुणानिधिः ॥
स्वरूपं दर्शयामास सर्वादृश्यं सुदुर्लभम् ॥ १ ॥
स्तुत्वा देवी व्रतपरा कृष्णसंलग्नमानसा ॥
ददर्श तेजसां मध्ये स्वरूपं सर्वमोहनम् ॥ २ ॥
सद्रत्नसाररचिते हीरकेण परिष्कृते ॥
युक्ते माणिक्यमालाभी रत्नपूर्णे मनोरमे ॥ ३ ॥
पीतांशुकं वह्निशुद्धं वरं वंशकरं परम् ॥
वनमालागलं श्यामं रत्नभूषणभूषितम् ॥ ४ ॥
किशोरवयसं चित्रवेषं वै चन्दनाङ्कितम् ॥
चारुस्मितास्यमीड्यं तच्छारदेन्दुविनिन्दकम् ॥ ९ ॥
मालतीमाल्यसंयुक्तं केकिपिच्छावचूडकम् ॥
गोपाङ्गनापरिवृतं राधावक्षस्थलोज्ज्वलम् ॥ ६ ॥
कोटिकन्दर्पलावण्यलीलाधाम मनोहरम् ॥
अतीव हृष्टं सर्वेष्टं भक्तानुग्रहकारकम् ॥ ७ ॥
दृष्ट्वा रूपं रूपवती पुत्रं तदनुरूपकम् ॥
मनसा वरयामास वरं सम्प्राप्य तत्क्षणम् ॥ ८ ॥
वरं दत्त्वा वरेशस्तु यद्यन्मनसि वाञ्छितम् ॥
दत्त्वाऽभीष्टं सुरेभ्यश्च तत्तेजोऽन्तरधीयत ॥ ९ ॥
कुमारं बोधयित्वा तु देवदेव्यै दिगम्बरम् ॥
ददुर्निरुपमं तत्र प्रहृष्टायै कृपान्विताः ॥ १० ॥
ब्राह्मणेभ्यो ददौ दुर्गा रत्नानि विविधानि च ॥
सुवर्णानि च भिक्षुभ्यो बन्दिभ्यो विश्वनन्दिता ॥ ११ ॥
ब्राह्मणान्भोजयामास देवान्वै पर्वतांस्तथा ॥
शङ्करं पूजयामास चोपहारैरनुत्तमैः ॥ १२ ॥
दुन्दुभिं वादयामास कारयामास मङ्गलम् ॥
सङ्गीतं गापयामास हरिसम्बन्धि सुन्दरम्॥ १३॥
व्रतं समाप्य सा दुर्गा दत्त्वा दानानि सस्मिता ॥
सर्वांश्च भोजयित्वा तु बुभुजे स्वामिना सह ॥ १४ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥
क्रमात्प्रदाय सर्वेभ्यो बुभुजे तेन कौतुकात् ॥ १५ ॥
पयःफेननिभां शय्यां रम्यां सद्रत्नमञ्चके ॥
पुष्पचन्दनसंयुक्तां कस्तूरीकुङ्कुमान्विताम् ॥
रहसि स्वामिना सार्द्धं सुष्वाप परमेश्वरी ॥ ॥ १६ ॥
कैलासस्यैकदेशे च रम्ये चन्दनकानने ॥
सुगन्धिकुसुमाढ्येन वायुना सुरभीकृते ॥ १७ ॥
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुताश्रये ॥
व्यहार्षीत्सा सुरसिका तत्र तेन सहाम्बिका ॥ १८ ॥
रेतःपतनकाले च स विष्णुर्विष्णुमायया ॥
विधाय विप्ररूपं तदाजगाम रतेर्गृहम् ॥१९॥
जटावन्तं विना तैलं कुचैलं भिक्षुकं मुने ॥
अतीवशुक्लदशनं तृष्णया परिपीडितम्॥ ॥ २० ॥
अतीव कृशगात्रं च बिभ्रत्तिलकमुज्ज्वलम् ॥
बहुकाकुस्वरं दीनं दैन्यात्कुत्सितमूर्तिमत् ॥ २१ ॥
आजुहाव महादेवमतिवृद्धोऽन्नयाचकः ॥
दण्डावलम्बनं कृत्वा रतिद्वारेऽतिदुर्बलः ॥ २२ ॥
ब्राह्मण उवाच ॥
किं करोषि महादेव रक्ष मां शरणागतम् ॥
सप्तरात्रिव्रतेऽतीते पारणाकाङ्क्षिणं क्षुधा॥२३॥
किं करोषि महादेव हे तात करुणानिधे ॥
पश्य वृद्धं जराग्रस्तं तृषया परिपीडितम्॥ ॥ २४ ॥
मातरुत्तिष्ठ मेऽन्नं त्वं प्रयच्छाद्य शिवं जलम् ॥
अनन्तरत्नोद्भवजे रक्ष मां शरणागतम् ॥ २५ ॥
मातर्मातर्जगन्मातरेहि नाहं स्थितो बहिः ॥
सीदामि तृषया कस्मात्स्थितायामात्ममातरि ॥ २६ ॥
इति काकुस्वरं श्रुत्वा शिवस्योत्तिष्ठतो मुने ॥
पपात वीर्य्यं शय्यायां न योनौ प्रकृतेस्तदा ॥ २७ ॥
उत्तस्थौ पार्वती त्रस्ता सूक्ष्मवस्त्रं पिधाय च ॥
आजगाम बहिर्द्वारं पार्वत्या सह शङ्करः ॥ २८ ॥
ददर्श ब्राह्मणं दीनं जरया परिपीडितम् ॥
वृद्धं लुलितगात्रं च बिभ्रतं दण्डमानतम् ॥ २९ ॥
तपस्विनमशान्तं च शुष्ककण्ठौष्ठतालुकम् ॥
कुर्वन्तं परया भक्त्या प्रणामं स्तवनं तयोः ॥ ३० ॥
श्रुत्वा तद्वचनं तत्र नीलकण्ठः सुधोपमम् ॥
उवाच परया प्रीत्या प्रसन्नस्तं प्रहस्य च ॥ ३१ ॥
शङ्कर उवाच ॥
गृहं ते कुत्र विप्रर्षे वद वेदविदां वर ॥
किन्नाम भवतः क्षिप्रं ज्ञातुमिच्छामि साम्प्रतम् ॥ ३२ ॥
पार्वत्युवाच ॥
आगतोऽसि कुतो विप्र मम भाग्यादुपस्थितः ॥
अद्य मे सफलं जन्म ब्राह्मणो मद्गृहेऽतिथिः ॥ ३३ ॥
अतिथिः पूजितो येन त्रिजगत्तेन पूजितम् ॥
तत्रैवाधिष्ठिता देवा ब्राह्मणा गुरवो द्विज ॥ ३४ ॥
तीर्थान्यतिथिपादेषु शश्वत्तिष्ठन्ति निश्चितम् ॥
तत्पादधौततोयेन मिश्रितानि लभेद्गृही ॥ ३५॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः॥
अतिथिः पूजितो येन स्वात्मशक्त्या यथोचितम् ॥ ३६ ॥
महादानानि सर्वाणि कृतानि तेन भूतले ॥
अतिथिः पूजितो येन भारते भक्तिपूर्वकम् ॥ ३७ ॥
नानाप्रकारपुण्यानि वेदोक्तानि च यानि वै ॥
अन्ये चातिथिसेवायाः कलां नार्हन्ति षोडशीम् ॥ ३८ ॥
अपूजितोऽतिथिर्यस्य भवनाद्विनिवर्त्तते ॥
पितृदेवाग्नयः पश्चाद्गुरवो यान्त्यपूजिताः ॥ ३९ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
तानि सर्वाणि लभते नाभ्यर्च्यातिथिमीप्सितम्॥४०॥
ब्राह्मण उवाच ॥
जानासि वेदान्वेदज्ञे वेदोक्तं कुरु पूजनम् ॥
क्षुत्तृड्भ्यां पीडितो मातर्वचनं च श्रुतौ श्रुतम् ॥ ४१ ॥
व्याधियुक्तो निराहारो यदा वाऽनशनव्रती ॥
मनोरथेनोपहारं भोक्तुमिच्छति मानवः॥४२॥
पार्वत्युवाच ॥
भोक्तुमिच्छसि किं विप्र त्रैलोक्ये च सुदुर्लभम्॥
दास्यामि भोक्तुं त्वामद्य मज्जन्म सफलं कुरु ॥४३॥
ब्राह्मण उवाच ॥
व्रते सुव्रतया सर्वमुपहारं समाहृतम् ॥
नानाविधं मिष्टमिष्टं भोक्तुं श्रुत्वा समागतः॥४४॥
सुव्रते तव पुत्रोऽहमग्रे मां पूजयिष्यसि ॥
दत्त्वा मिष्टानि वस्तूनि त्रैलोक्ये दुर्लभानि च ॥ ४५ ॥
ताताः पञ्चविधाः प्रोक्ता मातरो विविधाः स्मृताः ॥
पुत्रः पञ्चविधः साध्वि कथितो वेदवादिभिः॥४६॥
विद्यादाताऽन्नदाता च भयत्राता च जन्मदः ॥
कन्यादाता च वेदोक्ता नराणां पितरः स्मृताः ॥ ४७ ॥
गुरुपत्नी गर्भधात्री स्तनदात्री पितुः स्वसा ॥
स्वसा मातुः सपत्नी च पुत्रभार्य्याऽन्नदायिका ॥ ४८ ॥
भृत्यः शिष्यश्च पोष्यश्च वीर्य्यजः शरणागतः ॥
धर्मपुत्राश्च चत्वारो वीर्य्यजो धनभागिति ॥ ४९ ॥
क्षुत्तृड्भ्यां पीडितो मातर्वृद्धोऽहं शरणागतः ॥
साम्प्रतं तव वन्ध्याया अनाथः पुत्र एव च ॥ ५० ॥
पिष्टकं परमान्नं च सुपक्वानि फलानि च ॥
नानाविधानि पिष्टानि कालदेशोद्भवानि च ॥ ५१ ॥
पक्वान्नं स्वस्तिकं क्षीरमिक्षुमिक्षुविकारजम् ॥
घृतं दधि च शाल्यन्नं घृतपक्वं च व्यञ्जनम् ॥ ५२ ॥
लड्डुकानि तिलानां च मिष्टान्नैः सगुडानि च ॥
ममाज्ञातानि वस्तूनि सुधया तुल्यकानि च ॥ ५३ ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥
चलं सुनिर्मलं स्वादु द्रव्याण्येतानि वासितम् ॥५४॥
द्रव्याणि यानि भुक्त्वा मे चारु लम्बोदरं भवेत् ॥
अनन्तरत्नोद्भवजे तानि मह्यं प्रदास्यसि ॥ ५५ ॥
स्वामी ते त्रिजगत्कर्त्ता प्रदाता सर्वसम्पदाम् ॥
महालक्ष्मी स्वरूपा त्वं सर्वैश्वर्य्यप्रदायिनी ॥ ५६ ॥
रत्नसिंहासनं रम्यममूल्यं रत्नभूषणम् ॥
वह्निशुद्धांशुकं चारु प्रदास्यसि सुदुर्लभम् ॥ ५७ ॥
सुदुर्लभं हरेर्मन्त्रं हरौ भक्तिं दृढां सति ॥
हरिप्रिया हरेः शक्तिस्त्वमेव सर्वदा स्थिता ॥ ५८ ॥
ज्ञानं मृत्युञ्जयं नाम दातृशक्तिं सुखप्रदाम् ॥
सर्वसिद्धिं च किं मातरदेयं स्वसुताय च ॥ ५९ ॥
मनः सुनिर्मलं कृत्वा धर्मे तपसि सन्ततम् ॥
श्रेष्ठे सवं करिष्यामि न कामे जन्म हेतुके ॥ ६० ॥
स्वकामात्कुरुते कर्म कर्मणो भोग एव च ॥
भोगौ शुभाशुभौ ज्ञेयौ तौ हेतू सुखदुःखयोः ॥६१॥
दुःखं न कस्माद्भवति सुखं वा जगदम्बिके ॥
सर्वं स्वकर्मणो भोगस्तेन तद्विरतो बुधः ॥ ६२ ॥
कर्म निर्मूलयन्त्येव सन्तो हि सततं मुदा ॥
हरिभावनबुद्ध्या तत्तपसा भक्तसङ्गतः ॥ ६३ ॥
इन्द्रियद्रव्यसंयोगसुखं विध्वंसनावधि ॥
हरिसंलापरूपं च सुखं तत्सर्वकालिकम् ॥६४॥
हरिस्मरणशीलानां नायुर्याति सतां सती ॥
न तेषामीश्वरः कालो न च मृत्युञ्जयो ध्रुवम् ॥ ६५ ॥
चिरं जीवन्ति ते भक्ता भारते चिरजीविनः ॥
सर्वसिद्धिं च विज्ञाय स्वच्छन्दं सर्वगामिनः ॥ ६६ ॥
जातिस्मरा हरेर्भक्ता जानते कोटिजन्मनः ॥
कथयन्ति कथां जन्म लभन्ते स्वेच्छया मुदा ॥ ६७ ॥
परं पुनन्ति ते पूतास्तीर्थानि स्वीयलीलया ॥
पुण्यक्षेत्रेऽत्र सेवायै परार्थं च भ्रमन्ति ते ॥ ६८ ॥
वैष्णवानां पदस्पर्शात्सद्यः पूता वसुन्धरा ॥
कालं गोदोहमात्रं तु तीर्थे यत्र वसन्ति ते ॥ ६९ ॥
गुरोरास्याद्विष्णुमन्त्रः श्रुतौ यस्य प्रविश्यति ॥
तं वैष्णवं तीर्थपूतं प्रवदन्ति पुराविदः ॥ ७० ॥
पुरुषाणां शतं पूर्वमुद्धरन्ति शतं परम् ॥
लीलया भारते भक्त्या सोदरान्मातरं तथा ॥ ७१ ॥
मातामहानां पुरुषान्दश पूर्वान्दशापरान् ॥
मातुः प्रसूमुद्धरन्ति दारुणाद्यमताडनात् ॥ ॥ ७२ ॥
भक्तदर्शनमाश्लेषं मानवाः प्राप्नुवन्ति ये ॥
ते याताः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षिताः ॥ ७३ ॥
न लिप्ताः पातकैर्भक्ताः सन्ततं हरिमानसाः ॥
यथाऽग्नयः सर्वभक्ष्या यथा द्रव्येषु वायवः ॥७४॥
त्रिकोटिजन्मनामन्ते प्राप्नोति जन्म मानवम् ॥
प्राप्नोति भक्तसङ्गं स मानुषे कोटिजन्मतः ॥ ७५ ॥
भक्तसङ्गाद्भवेद्भक्तेरङ्कुरो जीवितः सती ॥
अभक्तदर्शनादेव स च प्राप्नोति शुष्कताम् ॥ ॥ ७६ ॥
पुनः प्रफुल्लतां याति वैष्णवालापमात्रतः ॥
अङ्कुरश्चाविनाशी च वर्द्धते प्रतिजन्मनि ॥ ७७
तत्तरोवर्द्धमानस्य हरिदास्यं फलं सति ॥
परिणामे भक्तिपाके पार्षदश्च भवेद्धरेः ॥ ७८ ॥
महति प्रलये नाशो न भवेत्तस्य निश्चितम् ॥
सर्वसृष्टेश्च संहारे ब्रह्मलोकस्य वेधसः ॥ ७९ ॥
तस्मान्नारायणे भक्तिं देहि मामम्बिके सदा ॥
न भवेद्विष्णुभक्तिश्च विष्णुमाये त्वया विना ॥८०॥
तद्वन्तं लोकशिक्षार्थं स्वतपस्तव पूजनम् ॥
सर्वेषां फलदात्री त्वं नित्यरूपा सनातनी ॥ ८१ ॥
गणेशरूपः श्रीकृष्णः कल्पे कल्पे तवात्मजः ॥
त्वत्क्रोडमागतः क्षिप्रमित्युक्त्वाऽन्तरधीयत ॥ ८२ ॥
कृत्वाऽन्तर्धानमीशश्च बालरूपं विधाय सः ॥
जगाम पार्वती तल्पं मन्दिराभ्यन्तरस्थितम् ॥ ८३ ॥
तल्पस्थे शिववीर्य्ये च मिश्रितः स बभूव ह ॥
ददर्श गेहशिखरं प्रसूते बालके यथा ॥८४॥
शुद्धचम्पकवर्णाभः कोटिचन्द्रसमप्रभः ॥
सुखदृश्यः सर्वजनैश्चक्षूरश्मिविवर्द्धकः ॥ ८५ ॥
अतीव सुन्दरतनुः कामदेवविमोहनः ॥
सुखं निरुपमं बिभ्रच्छारदेन्दुविनिन्दकम् ॥ ८६ ॥
सुन्दरे लोचने बिभ्रच्चारुपद्मविनिन्दके ॥
ओष्ठाधरपुटं बिभ्रत्पक्वबिम्बविनिन्दकम् ॥ ८७ ॥
कपालं च कपोलं च परमं सुमनोहरम् ॥
नासाग्रं रुचिरं बिभ्रद्वीन्द्रचञ्चुविनिन्दकम् ॥ ८८ ॥
त्रैलोक्ये वै निरुपमं सर्वाङ्गं बिभ्रदुत्तमम् ॥
शयानः शयने रम्ये प्रेरयन्हस्तपादकम् ॥ ८९ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे गणेशोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥