००७

नारायण उवाच ॥
हरेराज्ञां समादाय हरः संहृष्टमानसः ॥
उवाच पार्वतीं प्रीत्या हरिसंलापमङ्गलम् ॥ १ ॥
शिवाज्ञां च समादाय शिवा संहृष्टमानसा ॥
वाद्यं च वादयामास मङ्गलं मगलव्रते ॥ २ ॥
सुस्नाता सुदती शुद्धा बिभ्रती धौतवाससी ॥
संस्थाप्य रत्नकलशं शुक्लधान्योपरि स्थिरम् ॥ ३ ॥
आम्रपल्लवसंयुक्तं फलाक्षतसुशोभितम् ॥
चन्दनागुरुकस्तूरीकुङ्कुमेन विराजितम् ॥ ४ ॥
रत्नासनस्था रत्नाढ्या रत्नोद्भवसुता सती ॥
रत्नसिंहासनस्थांश्च सम्पूज्य मुनिपुङ्गवान् ॥ ५ ॥
रत्नसिंहासनस्थं च सम्पूज्य सुपुरोहितम् ॥
चन्दनागुरुकस्तूरीरत्नभूषणभूषितम् ॥ ६ ॥
संस्थाप्य पुरतो भक्त्या दिक्पालान्रत्नभूषितान् ॥
देवान्नरांश्च नागांश्च समर्च्य विधिबोधितम् ॥ ७ ॥
समर्च्य परया भक्त्या ब्रह्मविष्णुमहेश्वरान् ॥
चन्दनागुरुकस्तूरीकुङ्कुमेन विराजितान् ॥ ८ ॥
वह्निशुद्धैस्सुवस्त्रैश्च सद्रत्नैर्भूषणैस्तथा ॥
पूजाद्रव्यैश्च विविधैः पूजितान्पुण्यके मुने ॥
समारेभे व्रतं देवी स्वस्तिवाचनपूर्वकम् ॥ ९ ॥
आवाह्याभीष्टदेवं तं श्रीकृष्णं मङ्गले घटे ॥
भक्त्या ददौ क्रमेणैव चोपचारांस्तु षोडश ॥ १० ॥
यानि व्रते विधेयानि देयानि विविधानि च ॥
प्रददौ तानि सर्वाणि प्रत्येकं फलदानि च ॥ ११ ॥
व्रतोक्तमुपहारं च दुर्लभं भुवनत्रये ॥
तच्च सर्वं ददौ भक्त्या सुव्रते सुव्रता सती ॥ १२ ॥
दत्त्वा द्रव्याणि सर्वाणि वेदमन्त्रेण सा सती ॥
होमं च कारयामास त्रिलक्षं तिलसर्पिषा ॥
ब्राह्मणान्भोजयामास पूजयित्वाऽतिथींस्तथा ॥ १३ ॥
भोजयामास सा देवी सुव्रते सुव्रता सती ॥
प्रत्यहं सविधानं च चक्रे सा पूर्णवत्सरम् ॥ १४ ॥
समाप्तिदिवसे विप्रस्तमुवाच पुरोहितः ॥
सुव्रते सुव्रते मह्यं देहि त्वं पतिदक्षिणाम् ॥ १५ ॥
इति तद्वचनं श्रुत्वा विलप्य सुरसंसदि ॥
मूर्च्छां प्राप महामाया मायामोहितचेतसा ॥१६॥
तां च ते मूर्च्छितां दृष्ट्वा प्रहस्य मुनिपुङ्गवाः ॥
शङ्करं प्रेषयामास ब्रह्मा विष्णुश्च नारद ॥ १७ ॥
सम्प्रार्थितः सभासद्भिः शिवां बोधयितुं तदा ॥
शिवः समुद्यमं चक्रे प्रवक्तुं वदतां वरः ॥१८॥
श्रीमहादेव उवाच ॥
उत्तिष्ठ भद्रे भद्रं ते भविष्यति न संशयः ॥
साम्प्रतं चेतनं कृत्वा मदीयं वचनं शृणु ॥ १९ ॥
शिवः शिवां तामित्युक्त्वा शुष्ककण्ठौष्ठतालुकाम् ॥
वक्षसि स्थापयामास कारयामास चेतनाम् ॥ २० ॥
हितं सत्यं मितं सर्वं परिणामसुखावहम् ॥
यशस्करं च फलदं प्रवक्तुमुपचक्रमे ॥ ॥ २१ ॥
शृणु देवि प्रवक्ष्यामि यद्वेदेन निरूपितम् ॥
सर्वसम्मतमिष्टं च धर्मार्थं धर्म्मसंसदि ॥ २२ ॥
सर्वेषां कर्म्मणां देवि सारभूता च दक्षिणा ॥
यशोदा फलदा नित्यं धर्मिष्ठे धर्मकर्मणि ॥ २३ ॥
दैवं वा पैतृकं वाऽपि नित्यं नैमित्तिकं प्रिये ॥
यत्कर्म्म दक्षिणाहीनं तत्सर्वं निष्फलं भवेत् ॥
दाता च कर्म्मणा तेन कालसूत्रं व्रजेद्ध्रुवम् ॥ २४ ॥
अथान्ते दैन्यमाप्नोति शत्रुणा परिपीडितः ॥
दक्षिणा विप्रमुद्दिश्य तत्कालं तु न दीयते ॥ २९ ॥
तन्मुहूर्ते व्यतीते तु दक्षिणा द्विगुणा भवेत् ॥
चतुर्गुणा दिनातीते पक्षे शतगुणा भवेत् ॥ २६ ॥
मासे पञ्चशतघ्ना स्यात्षण्मासे तच्चतुर्गुणा ॥
संवत्सरे व्यतीते तु कर्म्म तन्निष्फलं भवेत् ॥ २७ ॥
दाता च नरकं याति यावद्वर्षसहस्रकम् ॥
पुत्रपौत्रधनैश्वर्य्यं क्षयमाप्नोति पातकात् ॥
धर्मो नष्टो भवेत्तस्य धर्म्महीने च कर्म्मणि ॥ २८ ॥
श्रीविष्णुरुवाच ॥
रक्ष स्वधर्मं धर्मिष्ठे धर्मज्ञे धर्मकर्मणि ॥
सर्वेषां च भवेद्रक्षा स्वधर्मपरिपालने ॥ २९ ॥
ब्रह्मोवाच ॥
यश्च केन निमित्तेन न धर्मं परिरक्षति ॥
धर्मे नष्टे च धर्मज्ञे तस्य कर्ता विनश्यति ॥ ३० ॥
धर्म उवाच ॥
मां रक्ष यत्नतः साध्वि प्रदाय पतिदक्षिणाम् ॥
मयि स्थिते महासाध्वि सर्वं भद्रं भविष्यति ॥ ३१ ॥
देवा ऊचुः ॥
धर्मं रक्ष महासाध्वि कुरु पूर्णं व्रतं सति ॥
वयं तव व्रते पूर्णे कुर्मस्त्वां पूर्णमानसाम् ॥३२॥
मुनय ऊचुः ॥
कृत्वा साध्वि पूर्णहोमं देहि विप्राय दक्षिणाम् ॥
स्थितेष्वस्मासु धर्मज्ञे किमभद्रं भविष्यति ॥३३॥
सनत्कुमार उवाच ॥
शिवे शिवं देहि मह्यं न चेद्व्रतफलं त्यज ॥
सुचिरं सञ्चितस्यापि स्वात्मनस्तपसः फलम् ॥ ३४ ॥
कर्मण्यदक्षिणे साध्वि यागस्याहं तु तत्फलम् ॥
प्राप्स्यामि यजमानस्य सम्पूर्णं कर्मणः फलम् ॥ ३५ ॥
पार्वत्युवाच ॥
किं कर्म्मणा मे देवेशाः किं मे दक्षिणया मुने ॥
किं पुत्रेण च धर्मेण यत्र भर्त्ता च दक्षिणा ॥ ३६ ॥
वृक्षार्चने फलं किं वै यदि भूमिर्न चार्च्यते ॥
गते च कारणे कार्य्यं कुतः सस्यं कुतः फलम् ॥ ३७ ॥
प्राणास्त्यक्ताः स्वेच्छया चेद्देहैस्स्यात्किं प्रयोजनम् ॥
दृष्टिशक्तिविहीनेन चक्षुषा किं प्रयोजनम् ॥३८॥
शतपुत्रसमः स्वामी साध्वीनां च सुरेश्वराः ॥
यदि भर्त्ता व्रते देयः किं व्रतेन सुतेन वा ॥ ३९ ॥
भर्तुर्वंशश्च तनयः केवलं भर्तृमूलकः ॥
यत्र मूलं भवेद्भ्रष्टं तद्वाणिज्यं च निष्फलम् ॥ ४० ॥
श्रीविष्णुरुवाच ॥
पुत्रादपि परः स्वामी धर्मश्च स्वामिनः परः ॥
नष्टे धर्मे च धर्मिष्ठे स्वामिना किं सुतेन वा ॥ ४१ ॥
ब्रह्मोवाच ॥
स्वामिनश्च परो धर्मो धर्मात्सत्यं च सुव्रते॥
सत्यं सङ्कल्पितं कर्म न तु भ्रष्टं कुरु व्रतम्॥४२॥
पार्वत्युवाच॥
निरूपितश्च वेदेषु स्वशब्दो धनवाचकः॥
तद्यस्यास्तीति स स्वामी वेदज्ञ शृणु मद्वचः॥४३॥
तस्य दाता सदा स्वामी न च स्वस्वामितां लभेत्॥
अहोऽव्यवस्था भवतां वेदज्ञानामबोधतः ॥४४॥
धर्म्म उवाच ॥
पत्नी विनाऽन्यं स्वं साध्वि स्वामिनं दातुमक्षमा ॥
दम्पती ध्रुवमेकाङ्गौ द्वयोर्दाने द्वकौ समौ ॥ ४५ ॥
पार्वत्युवाच ॥
पिता ददाति जामात्रे स च गृह्णाति तत्सुताम् ॥
न श्रुतं विपरीतं च श्रुतौ श्रुतिपरायणाः ॥ ४६ ॥
देवा ऊचुः ॥
बुद्धिस्वरूपा त्वं दुर्गे बुद्धिमन्तो वयं त्वया ॥
वेदज्ञे वेदवादेषु के वा त्वां जेतुमीश्वराः ॥४७॥
निरूपिता पुण्यके तु व्रते स्वामी च दक्षिणा ॥
श्रुतौ श्रुतो यः स धर्मो विपरीतो ह्यधर्मकः ॥४८॥
पार्वत्युवाच ॥
केवलं वेदमाश्रित्य कः करोति विनिर्णयम् ॥
बलवाल्ँलौकिको वेदाल्लोकाचारं च कस्त्यजेत् ॥ ४९ ॥
वेदे प्रकृतिपुंसोश्च गरीयान्पुरुषो ध्रुवम् ॥
निबोधत सुराः प्राज्ञा बालाहं कथयामि किम् ॥ ५० ॥
बृहस्पतिरुवाच ॥
न पुमांसं विना सृष्टिर्न साध्वि प्रकृतिं विना ॥
श्रीकृष्णश्च द्वयोः स्रष्टा समौ प्रकृतिपूरुषौ ॥ ५१ ॥
पार्वत्युवाच ॥
सर्वस्रष्टा च यः कृष्णः सोंऽशेन सगुणः पुमान् ॥
पुमान्गरीयान्प्रकृतेस्तथैव न ततश्च सा ॥ ५२ ॥
एतस्मिन्नन्तरे देवा मुनयस्तत्र संसदि ॥
रत्नेन्द्रसाररचितमाकाशे ददृशू रथम् ॥ ५३ ॥
पार्षदैस्सम्परिवृतं युतं श्यामैश्चतुर्भुजैः ॥
वनमालापरिवृतै रत्नभूषणभूषितैः ॥
अवरुह्य मुदा यानादाजगाम सभातलम् ॥ ५४ ॥
तुष्टुवुस्तं सुरेन्द्रास्ते देवं वैकुण्ठवासिनम् ॥
शङ्खचक्रगदापद्मधरमीशं चतुर्भुजम् ॥ ९५ ॥
लक्ष्मीसरस्वतीकान्तं शान्तं तं सुमनोहरम् ॥
सुखदृश्यमभक्तानामदृश्यं कोटिजन्मभिः ॥ ५६ ॥
कोटिकन्दर्पलावण्यं कोटिचन्द्रसमप्रभम् ॥
अमूल्यरत्नरचितचारुभूषणभूषितम् ॥ ॥ ५७ ॥
सेव्यं ब्रह्मादिदेवैश्च सेवकैः सततं स्तुतम् ॥
तद्भासा सम्परिच्छन्नैर्वेष्टितं च सुरर्षिभिः ॥ ९८ ॥
वासयामास तं ते च रत्नसिंहासने वरे ॥
तं प्रणेमुश्च शिरसा ब्रह्मशक्तिशिवादयः ॥ ९९ ॥
सम्पुटाञ्जलयः सर्वे पुलकाङ्गाश्रुलोचनाः ॥ ६० ॥
सस्मितस्तांश्च पप्रच्छ सर्वं मधुरया गिरा ॥
प्रबोधितः सुबोधज्ञः प्रवक्तुमुपचक्रमे ॥ ६१ ॥
श्रीनारायण उवाच ॥
सह बुद्ध्या बुद्धिमन्तो न वक्तुमुचितं सुराः॥
सर्वे शक्त्या यया विश्वे शक्तिमन्तो हि जीविनः॥६२॥
ब्रह्मादितृणपर्य्यन्तं सर्वं प्राकृतिकं जगत्॥
सत्यं सत्यं विना मां च मया शक्तिः प्रकाशिता ॥ ६३ ॥
आविर्भूता च सा मत्तः सृष्टौ देवी मदिच्छया ॥
तिरोहिता च सा शेषे सृष्टिसंहरणे मयि ॥ ६४ ॥
प्रकृतिः सृष्टिकर्त्री च सर्वेषां जननी परा ॥
मम तुल्या च मन्माया तेन नारायणी स्मृता ॥ ॥ ६५ ॥
सुचिरं तपसा तप्तं शम्भुना ध्यायता च माम् ॥
तेन तस्मै मया दत्ता तपसां फलरूपिणी ॥ ६६ ॥
व्रतं च लोकशिक्षार्थमस्या न स्वार्थमेव च ॥
स्वयं व्रतानां तपसां फलदात्री जगत्त्रये ॥ ६७ ॥
मायया मोहिताः सर्वे किमस्या वास्तवं व्रतम् ॥
साध्यमस्य व्रतफलं कल्पे कल्पे पुनः पुनः ॥ ६८ ॥
सुरेश्वरा मदंशाश्च ब्रह्मशक्तिमहेश्वराः ॥
कलाः कलांशरूपाश्च जीविनश्च सुरादयः ॥ ६९ ॥
मृदा विना घटं कर्त्तुं कुलालश्च यथाऽक्षमः ॥
विना स्वर्णं स्वर्णकारः कुण्डलं कर्त्तुमक्षमः ॥ ७० ॥
विना शक्त्या तथाऽहं च स्वसृष्टिं कर्तुमक्षमः ॥
शक्तिप्रधाना सृष्टिश्च सर्वदर्शनसम्मता ॥ ७१ ॥
अहमात्मा हि निर्लिप्तोऽदृश्यः साक्षी च देहिनाम् ॥
देहाः प्राकृतिकाः सर्वे नश्वराः पाञ्चभौतिकाः ॥ ७२ ॥
अहं नित्यः शरीरी च भानुविग्रहविग्रहः ॥
सर्वाधारा सा प्रकृतिः सर्वात्माऽहं जगत्सु च ॥७३॥
अहमात्मा मनो ब्रह्मा ज्ञानरूपो महेश्वरः ॥
पञ्च प्राणाः स्वयं विष्णुर्बुद्धिः प्रकृतिरीश्वरी ॥ ॥ ७४ ॥
मेधा निद्रादयश्चैताः सर्वाश्च प्रकृतेः कलाः ॥
सा च शैलेन्द्रकन्यैषा त्विति वेदे निरूपितम् ॥ ७९ ॥
अहं गोलोकनाथश्च वैकुण्ठेशः सनातनः ॥
गोपीगोपैः परिवृतस्तत्रैव द्विभुजः स्वयम् ॥
चतुर्भुजोऽत्र देवेशो लक्ष्मीशः पार्षदैर्वृतः ॥ ७६ ॥
ऊर्ध्व परश्च वैकुण्ठात्पञ्चाशत्कोटियोजने ॥
ममाश्रयश्च गोलोके यत्राहं गोपिकापतिः ॥ ७७ ॥
व्रताराध्यस्स द्विभुजः स च तत्फलदायकः॥
यद्रूपं चिन्तयेद्यो हि तच्च तत्फलदायकः॥७८॥
व्रतं पूर्णं कुरु शिवे शिवं दत्त्वा च दक्षिणाम्॥
पुनः समुचितं मूल्यं दत्त्वा नाथं ग्रहीष्यसि॥७९॥
विष्णुदेहा यथा गावो विष्णुदेहस्तथा शिवः ॥
द्विजाय दत्त्वा गोमूल्यं गृहाण स्वामिनं शुभे॥८०॥
यज्ञपत्नीं यथा दातुं क्षमः स्वामी सदैव तु ॥
तथा सा स्वामिनं दातुमीश्वरीति श्रुतेर्मतम्॥८१॥
इत्युक्त्वा स सभामध्ये तत्रैवान्तरधीयत ॥
हृष्टास्ते सा च संहृष्टा दक्षिणां दातुमुद्यता ॥ ८२ ॥
कृत्वा शिवा पूर्णहोमं सा शिवं दक्षिणां ददौ ॥
स्वस्तीत्युक्त्वा च जग्राह कुमारो देवसंसदि ॥८३॥
उवाच दुर्गा सन्त्रस्ता शुष्ककण्ठौष्ठतालुका ॥
कृत्वाञ्जलिपुटा विप्रं हृदयेन विदूयता ॥८४॥
पार्वत्युवाच ॥
गोमूल्यं मत्पतिसममिति वेदे निरूपितम्॥
गवां लक्षं प्रयच्छामि देहि मत्स्वामिनं द्विज॥८५॥
तदा दास्यामि विप्रेभ्यो दानानि विविधानि च॥
आत्महीनो हि देहश्च कर्म्म किं कर्तुमीश्वरः॥८६॥
सनत्कुमार उवाच ॥
गवां लक्षेण मे देवि वल्गुना किं प्रयोजनम् ॥
दत्तस्यामूल्य रत्नस्य गवां प्रत्यर्पणेन च॥८७॥
स्वस्य स्वस्य स्वयं दाता लोकः सर्वो जगत्त्रये॥
कर्त्तुरेवेप्सितं कर्म भवेत्किं वा परेच्छया ॥ ८८ ॥
दिगम्बरं पुरः कृत्वा भ्रमिष्यामि जगत्त्रयम्॥
बालकानां बालिकानां समूहस्मितकारणम्॥८९॥
इत्युक्त्वा ब्रह्मणः पुत्रो गृहीत्वा शङ्करं मुने॥
सन्निधौ वासयामास तेजस्वी देवसंसदि॥९०॥
दृष्ट्वा शिवं गृह्यमाणं कुमारेण च पार्वती॥
समुद्यता तनुं त्यक्तुं शुष्ककण्ठौष्ठतालुका॥ ॥ ९१ ॥
विचिन्त्य मनसा साध्वीत्येवमेव दुरत्ययम् ॥
न दृष्टोऽभीष्टदेवश्च न च प्राप्तं फलं व्रते ॥ ९२ ॥
एतस्मिन्नन्तरे देवाः पार्वतीसहितास्तदा ॥
सद्यो ददृशुराकाशे तेजसां निकरं परम् ॥ ९३ ॥
कोटिसूर्य्यप्रभोर्ध्वं च प्रज्वलन्तं दिशो दश ॥
कैलासशैलपुरतः सर्वदेवादिभिर्युतम् ॥ ९४ ॥
सर्वाश्रयं गणाच्छन्नं विस्तीर्णं मण्डलाकृतिम् ॥
तच्च दृष्ट्वा भगवतस्तुष्टुवुस्ते क्रमेण च ॥ ॥ ९५ ॥
विष्णुरुवाच ॥
ब्रह्माण्डानि च सर्वाणि यल्लोमविवरेषु च ॥
सोऽयं ते षोडशांशश्च के वयं यो महाविराट् ॥ ९६ ॥
ब्रह्मोवाच ॥
वेदोपयुक्तं दृश्यं यत्प्रत्यक्षं द्रष्टुमीश्वर ॥
स्तोतुं तद्वर्णितुमहं शक्तः किं स्तौमि तत्परः ॥९७॥
श्रीमहादेव उवाच ॥
ज्ञानाधिष्ठातृदेवोऽहं स्तौमि ज्ञानपरं च किम् ॥
सर्वानिर्वचनीयं तं त्वां च स्वेच्छामयं विभुम् ॥ ९८ ॥
धर्म उवाच ॥
अदृश्यमवतारेषु यद्दृश्यं सर्वजन्तुभिः ॥
किं स्तौमि तेजोरूपं तद्भक्तानुग्रहविग्रहम् ॥ ९९ ॥
देवा उचुः ॥
के वयं त्वत्कलांशाश्च किं वा त्वां स्तोतुमीश्वराः ॥
स्तोतुं न शक्ता वेदा यं न च शक्ता सरस्वती ॥ १०० ॥
मुनय उचुः ॥
वेदान्पठित्वा विद्वांसो वयं किं वेदकारणम् ॥
स्तोतुमीशा न वाणी च त्वां वाङ्मनसयोः परम् ॥ १०१ ॥
सरस्वत्युवाच ॥
वागधिष्ठातृदेवीं मां वदन्ते वेदवादिनः ॥
किञ्चिन्न शक्ता त्वां स्तोतुमहो वाङ्मनसोः परम् ॥ १०२ ॥
सावित्र्युवाच ॥
वेदप्रसूरहं नाथ सृष्ट्वा त्वत्कलया पुरा ॥
किं स्तौमि स्त्रीस्वभावेन सर्वकारणकारणम्॥१०३॥
लक्ष्मीरुवाच ॥
त्वदंशविष्णुकान्ताहं जगत्पोषणकारिणी॥
किं स्तौमि त्वत्कलासृष्टा जगतां बीजकारणम् ॥ १०४ ॥
हिमालय उवाच ॥
हसन्ति सन्तो मां नाथ कर्मणा स्थावरं परम्॥
स्तोतुं समुद्यतं क्षुद्रः किं स्तौमि स्तोतुमक्षमः ॥ १०५ ॥
क्रमेण सर्वे तं स्तुत्वा देवा विररमुर्मुने ॥
देव्यश्च मुनयः सर्वे पार्वती स्तोतुमुद्यता ॥ १०६ ॥
धौतवस्त्रा जटाभारं बिभ्रती सुव्रता व्रते ॥
प्रेरिता परमात्मानं व्रताराध्यं शिवेन च ॥१०७॥
ज्वलदग्निशिखारूपा तेजोमूर्तिमती सती ॥
तपसां फलदा माता जगतां सर्वकर्मणाम् ॥ १०८ ॥
पार्वत्युवाच ॥
कृष्ण जानासि मां भद्रं नाहं त्वां ज्ञातुमीश्वरी ॥
के वा जानन्ति वेदज्ञा वेदा वा वेदकारकाः ॥१०९॥
त्वदंशास्त्वां न जानन्ति कथं ज्ञास्यन्ति ते कलाः॥
त्वं चापि तत्त्वं जानासि किमन्ये ज्ञातुमीश्वराः ॥ ११० ॥
सूक्ष्मात्सूक्ष्मतमोऽव्यक्तः स्थूलात्स्थूलतमो महान् ॥
विश्वस्त्वं विश्वरूपश्च विश्वबीजं सनातनः ॥ १११ ॥
कार्य्यं त्वं कारणं त्वं च कारणानां च कारणम् ॥
तेजस्स्वरूपो भगवान्निराकारो निराश्रयः ॥ ११२ ॥
निर्लिप्तो निर्गुणः साक्षी स्वात्मारामः परात्परः ॥
प्रकृतीशो विराड्बीजं विराड्रूपस्त्वमेव च ॥
सगुणस्त्वं प्राकृतिकः कलया सृष्टिहेतवे ॥ ११३ ॥
प्रकृतिस्त्वं पुमांस्त्वं च वेदाऽन्यो न क्वचिद्भवेत् ॥
जीवस्त्वं साक्षिणो भोगी स्वात्मनः प्रतिबिम्बकम् ॥ ११४ ॥
कर्म त्वं कर्मबीजं त्वं कर्मणां फलदायकः ॥
ध्यायन्ति योगिनस्तेजस्त्वदीयमशरीरि यत् ॥
केचिच्चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम् ॥ ११५ ॥
वैष्णवाश्चैव साकारं कमनीयं मनोहरम् ॥
शङ्खचक्रगदापद्मधरं पीताम्बरं परम् ॥११६॥
द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम् ॥
शान्तं गोपाङ्गनाकान्तं रत्नभूषणभूषितम् ॥ ११७ ॥
एवं तेजस्विनं भक्ताः सेवन्ते सन्ततं मुदा ॥
ध्यायन्ति योगिनो यत्तत्कुतस्तेजस्विनं विना ॥ १३. ॥
तत्तेजो बिभ्रतां देव देवानां तेजसा पुरा ॥
आविर्भूता सुराणां च वधाय ब्रह्मणा स्तुता ॥ ११९ ॥
नित्या तेजस्त्वरूपाऽहं धृत्वा वै विग्रहं विभो ॥
स्त्रीरूपं कमनीयं च विधाय समुपस्थिता ॥ १२० ॥
मायया तव मायाऽहं मोहयित्वाऽसुरान्पुरा ॥
निहत्य सर्वाञ्छैलेन्द्रमगमं तं हिमालयम् ॥ १२१ ॥
ततोऽहं संस्तुता देवैस्तारकाक्षेण पीडितैः ॥
अभवं दक्षजायायां शिवस्त्री भवजन्मनि ॥१२२॥
त्यक्त्वा देहं दक्षयज्ञे शिवाऽहं शिवनिन्दया ॥
अभवं शैलजायायां शैलाधीशस्य कर्मणा ॥ १२३ ॥
अनेकतपसा प्राप्तः शिवश्चात्रापि जन्मनि ॥
पाणिं जग्राह मे योगी प्रार्थितो ब्रह्मणा विभुः ॥ १२४ ॥
शृङ्गारजं च तत्तेजो नालभं देवमायया ॥
स्तौमि त्वामेव तेनेश पुत्रदुःखेन दुःखिता ॥ १२५ ॥
व्रते भवद्विधं पुत्रं लब्धुमिच्छामि साम्प्रतम् ॥
देवेन विहिता वेदे साङ्गे स्वस्वामिदक्षिणा ॥ १२६ ॥
श्रुत्वा सर्वं कृपासिन्धो कृपां मे कर्तुमर्हसि ॥
इत्युक्त्वा पार्वती तत्र विरराम च नारद ॥ १२७ ॥
भारते पार्वतीस्तोत्रं यः शृणोति सुसंयतः ॥
सत्पुत्रं लभते नूनं विष्णुतुल्यपराक्रमम् ॥ १२८ ॥
संवत्सरं हविष्याशी हरिमभ्यर्च्य भक्तितः ॥
सुपुण्यकव्रतफलं लभते नात्र संशयः ॥ १२९ ॥
विष्णुस्तोत्रमिदं ब्रह्मन्सर्वसम्पत्तिवद्धर्नम् ॥
सुखदं मोक्षदं सारं स्वामिसौभाग्यवर्द्धनम् ॥१३०॥
सर्वसौन्दर्य्यबीजं च यशोराशिविवर्द्धनम् ॥
हरिभक्तिप्रदं तत्त्वज्ञानबुद्धिसुखप्रदम् ॥ १३१ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे पुण्यकव्रते पतिदाने पार्वतीकृतं श्रीकृष्णस्तोत्रकथनं नाम सप्तमोऽध्यायः ॥ ७ ॥