शौनक उवाच ॥
नारायणवचः श्रुत्वा नारदो हृष्टमानसः ॥
किं पप्रच्छ पुनः साधो तन्मे ब्रूहि तपोधन ॥ १ ॥
सूत उवाच ॥
नारायणवचः श्रुत्वा नारदो हृष्टमानसः ॥
व्रतारम्भविधानं च सम्प्रष्टुमुपचक्रमे ॥ ॥ २ ॥
नारद उवाच ॥
कृतं केन प्रकारेण व्रतमेतच्छुभावहम्॥
तन्मे ब्रूहि मुनिश्रेष्ठ पार्वत्या भर्तुराज्ञया ॥३॥
ललाभ जन्म भूतेशः कृते सुव्रतया व्रते ॥
ब्रह्मन्केन प्रकारेण तन्नः शंसितुमर्हसि ॥ ४ ॥
नारायण उवाच॥
कथयित्वा कथां दिव्यां विधानं च व्रतस्य च ॥
स्वयं विधाता तपसां जगाम तपसे शिवः ॥ ५ ॥
हरेराराधनव्यग्रो मूर्त्तिभेदधरो हरिः ॥
हरिभावनशीलश्च हरिध्यानपरायणः ॥ ॥ ६ ॥
परमानन्दपूर्णश्च ज्ञानानन्दः सनातनः ॥
दिवानिशं न जानाति हरिमन्त्रं बहिः स्मरन् ॥ ७ ॥
प्रहृष्टमनसा देवी पार्वती भर्तुराज्ञया ॥
किङ्करान्प्रेरयामास विप्रांश्च व्रतहेतवे ॥ ८ ॥
आनीय सर्वद्रव्याणि व्रते योग्यानि यानि च॥
व्रतं कर्तुं समारेभे शुभदा सा शुभे क्षणे ॥ ९ ॥
सनत्कुमारो भगवानाजगाम विधेः सुतः ॥
मूर्त्तिमांस्तेजसा राशिः प्रज्वलन्ब्रह्मतेजसा ॥१०॥
ब्रह्माऽऽजगाम हृष्टश्च ब्रह्मलोकात्सभार्य्यकः ॥
अतित्रस्तो हि भगवानाजगाम महेश्वरः ॥ ११ ॥
विष्णुः क्षीरोदशायी च सलक्ष्मीकश्चतुर्भुजः ॥
भगवाञ्जगतां पाता शास्ता भर्त्ता सपार्षदः ॥ १२ ॥
वनमालाधर श्यामो भूषितो रत्नभूषणैः ॥
तथा सम्भृतसम्भारो रत्नयानेन नारद ॥ १३ ॥
सनकश्च सनन्दश्च कपिलश्च सनातनः ॥
आसुरिश्च क्रतुर्हंसो वोढुः पञ्चशिखोऽरुणिः ॥ १४ ॥
यतिश्च सुमतिश्चैव वसिष्ठश्च सहानुगः ॥
पुलहश्च पुलस्त्यश्चाप्यत्रिश्च भृगुरङ्गिराः ॥ १५ ॥
अगस्त्यश्च प्रचेताश्च दुर्वासाश्च्यवनस्तथा ॥
मरीचिः कश्यपः कण्वो जरत्कारुश्च गौतमः ॥ १६ ॥
बृहस्पतिरुतथ्यश्च संवर्तः सौभरिस्तथा ॥
जाबालिर्जमदग्निश्च जैगीषव्यश्च देवलः ॥ ॥ १७ ॥
गोकामुखो वक्ररथः पारिभद्रः पराशरः ॥
विश्वामित्रो वामदेव ऋष्यशृङ्गो विभाण्डकः ॥ १८ ॥
मार्कण्डेयो मृकण्डुश्च पुष्करो लोमशस्तथा ॥
कौत्सो वत्सश्च दक्षश्च बालाग्निरघमर्षणः ॥ १९ ॥
कात्यायनः कणादश्च पाणिनिः शाकटायनः ॥
शङ्कुरापिशलिश्चैव शाकल्यः शङ्ख एव च ॥ २० ॥
एते चान्ये च बहवः सशिष्या मुनयो मुने ॥
आवां च धर्म्मपुत्रौ च नरनारायणौ समौ ॥ २१ ॥
दिक्पालाश्च तथा देवा यक्षगन्धर्वकिन्नराः ॥
आजग्मुः पर्वताः सर्वे सगणाः पार्वतीव्रते ॥ २२ ॥
हिमालयः शैलराजः सापत्यश्च सभार्यकः ॥
सगणः सानुगश्चैव रत्नभूषणभूषितः ॥ २३ ॥
तथा सम्भृतसम्भारो नानाद्रव्यसमन्वितः ॥
मणि माणिक्यरत्नानि व्रते योग्यानि यानि च ॥ २४ ॥
नानाप्रकारवस्तूनि जगत्यां दुर्लभानि च ॥
लक्षं च गजरत्नानामश्वरत्नं त्रिलक्षकम् ॥ २९ ॥
दशलक्षं गवां रत्नं शतलक्षं सुवर्णकम् ॥
रुचकानां हीरकाणां स्पर्शानां च तथैव च ॥ २६ ॥
मुक्तानां च चतुर्लक्षं कौस्तुभानां सहस्रकम् ॥
सुस्वादुनानाद्रव्याणां लक्षभाराणि कौतुकी ॥
अनन्तरत्नप्रभव आजगाम सुताव्रते ॥२७॥
ब्राह्मणा मनवः सिद्धा नागा विद्याधरास्तथा ॥
सन्न्यासिनो भिक्षुकाश्च बन्दिनः पार्वतीव्रते ॥ २८ ॥
विद्याधरी नर्तकी च नर्त्तकाऽप्सरसां गणाः ॥
नानाविधा वाद्यभाण्डा आजग्मुः शिवमन्दिरम् ॥ २९ ॥
कैलासराजमार्गं च चन्दनेन सुसंस्कृतम् ॥
आम्रपल्लवसूत्राढ्यं कदलीस्तम्भशोभितम् ॥ ३० ॥
दूर्वाधान्यफलैः पर्णलाजपुष्पैर्विभूषितम् ॥
निर्मितं पद्मरागेण ददृशुस्ते गणा मुदा ॥ ३१ ॥
उच्चैः सिंहासनेष्वेते पूजिताः शङ्करेण च ॥
कैलासवासिनः सर्वे परमानन्दसंयुताः ॥ ३२ ॥
दानाध्यक्षः शुनासीरः कुबेरः कोशरक्षकः ॥
आदेष्टा च स्वयं सूर्य्यः परिवेष्टा जलाधिपः ॥ ३३ ॥
दध्नां नद्यः सहस्राणि दुग्धानां च तथैव च ॥
सहस्राणि घृतानां च गुडानां च शतानि च ॥ ३४ ॥
माध्वीकानां सहस्राणि तैलानां च शतानि च ॥
लक्षाणि चैव तक्राणां बभूवुः पार्वतीव्रते ॥३५॥
पीयूषाणां च कुम्भानि शतलक्षाणि नारद ॥
मिष्टान्नानां शर्कराणां बभूवुर्लक्षराशयः ॥
यवगोधूमचूर्णानां घृताक्तानां च नारद ॥ ३६ ॥
स्वस्तिकानां च पूर्णानां बभूवुर्लक्षराशयः ॥
गुडसंस्कृतलाजानां बभूवुः कोटिराशयः॥३७॥
शालीनां पृथुकानां च राशीनां दशकोटयः॥
वरतण्डुलराशीनां मुने सङ्ख्या न विद्यते ॥ ३८ ॥
स्वर्णरौप्यप्रवालानां मणीनां च महामुने ॥
बभूवुः पर्वतास्तत्र कैलासे पार्वती व्रते ॥ ३९ ॥
पायसं पिष्टकं चैव शाल्यन्नं सुमनोहरम् ॥
चकार लक्ष्मीः पाकं च व्यञ्जनं घृतसंस्कृतम् ॥ ४० ॥
बुभुजे देवर्षिगणैः शिवो नारायणेन च ॥
बभूवुर्लक्षविप्राश्च परिवेषणकारकाः ॥ ४१ ॥
ताम्बूलं च ददौ तेभ्यः कर्पूरादिसुवासितम् ॥
रत्नसिंहासनस्थेभ्यो विप्रलक्षाः सुदक्षकाः ॥ ४२ ॥
रत्नसिंहासनस्थं च विष्णुं क्षीरोदशायिनम् ॥
सेव्यमानं पार्षदैश्च सस्मितैः श्वेतचामरैः ॥ ४३ ॥
ऋषिभिः स्तूयमानं च सिद्धैर्देवगणैस्तथा ॥
विद्याधरीणां नृत्यानि पश्यन्तं सस्मितं मुदा ॥ ४४ ॥
गन्धर्वाणां च सङ्गीतं श्रुतवन्तं मनोहरम् ॥
पप्रच्छ शङ्करो ब्रह्मन्ब्रह्मेशं प्रीतिपूर्वकम् ॥ ४८५ ॥
ब्रह्मणा प्रेरितो युक्तं व्रतं कर्त्तव्यमीप्सितम् ॥
देवर्षिगणपूर्णायां सभायां सम्पुटाञ्जलिः ॥ ४६ ॥
श्रीमहादेव उवाच ॥
मदीयं वचनं नाथ श्रीनिवास शृणु प्रभो ॥
तपस्स्वरूप तपसां कर्मणां च फलप्रद ॥ ४७ ॥
व्रतानां जपयज्ञानां पूजानां सर्वपूजित ॥
सर्वेषां बीजरूपेण वाञ्छाकल्पतरो हरे ॥ ४८॥
सुपुण्यं च व्रतं कर्त्तुं ब्रह्मन्निच्छति पार्वती ॥
पुत्रार्थिनी सा शोकार्त्ता हृदयेन विदूयता ॥ ४९ ॥
रतिभङ्गे कृते देवैर्व्यर्थवीर्य्यशुचार्दिता ॥
प्रबोधिता मया साध्वी विविधैर्वचनामृतैः ॥ ५० ॥
सत्पुत्रं स्वामिसौभाग्यं सुव्रता याचते व्रते ॥
ताभ्यां विना न सन्तुष्टा स्वप्राणांस्त्यक्तुमिच्छति ॥ ५१ ॥
पुरा त्यक्त्वा स्वदेहं च पितृयज्ञे च मानिनी ॥
मन्निन्दया हिमवति पुनर्जन्म ललाभ सा ॥ ५२ ॥
सर्वं जानासि वृत्तान्तं सर्वज्ञं त्वां वदामि किम् ॥
दीनां तां वद तत्त्वज्ञ परिणामशुभप्रदाम् ॥ ५३ ॥
दुर्निवार्य्यश्च सर्वेश स्त्रीस्वभावश्च चापलः॥
दुस्त्यज्यं योगिभिः सिद्धैरस्माभिश्च तपस्विभिः ॥ ५४ ॥
जितेन्द्रियैर्जितक्रोधैः स्त्रीरूपं मोहकारणम् ॥
सर्वमायाकरण्डं च कामवर्द्धनकारणम् ॥ ५५ ॥
ब्रह्मास्त्रं कामदेवस्य दुर्भेद्यं जयकारणम् ॥
सुनिर्मितं च विधिना सर्वाद्यं विधिपूर्वकम् ॥ ५६ ॥
मोक्षद्वारकपाटं च हरिभक्तिनिरोधनम् ॥
संसारबन्धनस्तम्भरज्जुरूपमकृन्तनम् ॥ ५७ ॥
वैराग्यनाशबीजं च शश्वद्रागविवर्द्धनम् ॥
पत्तनं साहसानां च दोषाणामालयं सदा ॥ ५८ ॥
अप्रत्ययानां क्षेत्रं च स्वयं कपटमूर्तिमत् ॥
अहङ्काराश्रयं शश्वद्विषकुम्भं सुधामुखम् ॥ ५९ ॥
सर्वैरसाध्यमानं च दुराराध्यं च सर्वदा ॥
स्वकार्य्यसाध्याचाराढ्यं कलहाङ्कुरकारणम् ॥ ६० ॥
सर्वं निवेदितं ब्रह्मन्कर्त्तव्यं वक्तुमर्हसि ॥
कार्य्यं सर्वं परामर्शे परिणामसुखावहम् ॥ ६१ ॥
श्रीनारायण उवाच ॥
इत्येवमुक्त्वा भगवान्निरीक्ष्य ब्रह्मणो मुखम् ॥
विरराम सभामध्ये स्तुत्वा च कमलापतिम् ॥ ६२ ॥
शङ्करस्य वचः श्रुत्वा प्रहस्य जगदीश्वरः ॥
हितं च नीतिवचनं प्रवक्तुमुपचक्रमे ॥ ६३ ॥
श्रीविष्णुरुवाच ॥
सुपुण्यकव्रतं सारं सतीसन्तानहेतवे ॥
स्वामिसौभाग्यबीजं च पत्नी ते कर्तुमिच्छति ॥ ६४ ॥
सर्वासाध्यं दुराराध्यं सर्वकामफलप्रदम् ॥
सुखदं सुखसारं च मोक्षदं पार्वतीश्वर ॥ ६९ ॥
आत्मा साक्षिस्वरूपश्च ज्योतीरूपः सनातनः ॥
निराश्रयश्च निर्लिप्तो निरुपाधिर्निरामयः ॥ ६६ ॥
भक्तप्राणश्च भक्तेशो भक्तानुग्रहकारकः॥
दुराराध्यो हि योऽन्येषां भक्तानामतिसाधकः ॥ ६७ ॥
भक्त्यधीनो हि भगवान्सर्वसिद्धो हि निष्फलः ॥
ते यस्य च कलाः पुंसो ब्रह्मविष्णुमहेश्वराः ॥ ६८ ॥
महान्विराड्यदंशश्च निर्लिप्तः प्रकृतेः परः ॥
अव्ययो निग्रहश्चोग्रो भक्तानुग्रहविग्रहः ॥ ६९ ॥
उग्रग्रहो ग्रहाणां च ग्रहनिग्रहकारकः।
त्रिकोटिजन्ममध्ये च न साध्यो भवता विना ॥ ७० ॥
लब्धवा हि भारते जन्म हरिभक्तिं लभेन्नरः ॥
सेवनं क्षुद्रदेवानां कृत्वा सप्तसु जन्मसु ॥ ७१ ॥
सूर्य्यमन्त्रमवाप्नोति केवलं स तदाशिषा ॥
सूर्य्यमन्त्रं समाराध्य त्रिषु जन्मसु भारते ॥ ७२ ॥
प्राप्नोति शैवं मन्त्रं च सर्वदं मानवो मुदा ॥
संसेव्य परया भक्त्या त्वामेवं सप्तजन्मसु ॥ ७३ ॥
प्राप्नोति मायामन्त्रं च त्वत्पदाब्जप्रसादतः ॥
शतं जन्मसु चाराध्य मायां नारायणीं पराम् ॥ ७४ ॥
नारायणकलां सेव्यां समवाप्नोति मानवः ॥
कलां निषेव्य वर्षेऽत्र पुण्यक्षेत्रे सुदुर्लभे ॥ ७५ ॥
कृष्णभक्तिमवाप्नोति भक्तसंसर्गहैतुकीम् ॥
सम्प्राप्य भक्तिं निष्पक्वां भ्रामम्भ्रामं च भारते ॥ ७६ ॥
प्राप्नोति परिपक्वां च भक्तिं भक्तनिषेवया ॥
तदा भक्तप्रसादेन देवानामाशिषा शिव ॥
श्रीकृष्णमन्त्रं प्राप्नोति निर्वाणफलदं परम् ॥ ७७ ॥
कृष्णव्रतं कृष्णमन्त्रं सर्वकामफलप्रदम् ॥
कृष्णतुल्यो भवेद्भक्तश्चिरं कृष्णनिषेवया ॥ ७८ ॥
महति प्रलये पातः सर्वेषां वै सुनिश्चितम् ॥
न पातः कृष्णभक्तानां साधूनामविनाशिनाम् ॥ ७९ ॥
अविनाशिनि गोलोके मोदन्ते कृष्णकिङ्कराः ॥
हसन्ति ते सुनिश्चिन्ता देवान्ब्रह्मादिकाञ्छिव ॥८० ॥
त्वं संहर्त्ता च सर्वेषां न भक्तानां महेश्वर ॥
माया मोहयते सर्वान्भक्तान्न कृपया मम ॥ ८१ ॥
माया नारायणी माता सर्वेषां कृष्णभक्तिदा ॥
न कृष्णभक्तिं प्राप्नोति विना मायानिषेवणम् ॥ ८२ ॥
सा च नारायणी माया मूलप्रकृतिरीश्वरी ॥
कृष्णप्रिया कृष्णभक्ता कृष्णतुल्याऽविनाशिनी ॥ ८३ ॥
सा च तेजस्स्वरूपा च स्वेच्छाविग्रहधारिणी ॥
आविर्भूता च देवानां तेजसाऽसुरनिग्रहे ॥ ८४ ॥
निहत्य दैत्यसङ्घांश्च दक्षपत्न्यां च भारते ॥
ललाभ दक्षस्तपसा जन्म चानेकजन्मनः ॥ ॥ ८५ ॥
त्यक्त्वा देहं पितुर्यज्ञे सा सती तव निन्दया ॥
जगाम देवी गोलोकं कृष्णशक्तिः सनातनी ॥ ८६ ॥
गृहीत्वा विग्रहं तस्या गुणरूपाश्रय परम् ॥
भ्रामम्भ्रामं भारते त्वं विषण्णोऽभूः पुरा हर ॥ ८७ ॥
प्रबोधितो मया त्वं च श्रीशैलेषु सरित्तटे ॥
ललाभ जन्म सा शैलकान्तायामचिरेण च ॥ ८८ ॥
करोतु पुण्यकं साध्वी सुव्रता सुव्रतं शिवा ॥
राजसूयसहस्राणां पुण्यं शङ्कर पुण्यके ॥ ८९ ॥
राजसूयसहस्राणां व्रते यत्र धनव्ययः ॥
न साध्यं सर्वसाध्वीनां व्रतमेतत्त्रिलोचन ॥ ९० ॥
स्वयं भूतेशनाथस्त्वं पुण्यकस्य प्रभावतः ॥
पार्वतीगर्भजातश्च वरः पुत्रो भविष्यति ॥ ९१ ॥
स्वयं देवगणानां स यस्मादीशः कृपानिधिः ॥
गणेश इति विख्यातो भविष्यति जगत्त्रये॥९२॥
यस्य स्मरणमात्रेण विघ्ननाशो भवेद्ध्रुवम्॥
जगतां हेतुनाऽनेन विघ्ननिघ्नाभिधो विभुः ॥९३॥
नानाविधानि द्रव्याणि यस्माद्देयानि पुण्यके॥
भुक्त्वा लम्बोदरत्वं च तेन लम्बोदरः स्मृतः॥९४॥
शनिदृष्ट्या शिरश्छेदाद्गजवक्त्रेण योजितः ॥
गजाननः शिशुस्तेन सर्वेषां सर्वसिद्धिदः ॥९९॥
दन्तभङ्गः परशुना पर्शुरामस्य वै यतः ॥
हेतुना तेन विख्यातश्चैकदन्ताभिधः शिशुः ॥ ९६ ॥
पूज्यश्च सर्वदेवानामस्माकं जगतां विभुः ॥
सर्वाग्रे पूजनं तस्य भविता मद्वरेण वै ॥ ९७ ॥
पूजासु सर्वदेवानामग्रे सम्पूज्य तं जनः ॥
पूजाफलमवाप्नोति निर्विघ्नेन वृथाऽन्यथा ॥ ९८ ॥
गणेशं च दिनेशं च विष्णुं शम्भुं हुताशनम् ॥
दुर्गामेतान्सन्निषेव्य पूजयेद्देवतान्तरम् ॥ ९९ ॥
गणेशपूजने विघ्नं निर्मूलं जगतां भवेत् ॥
निर्व्याधिः सूर्य्यपूजायां शुचिः श्रीविष्णुपूजने ॥ १०० ॥
मोक्षश्च पापनाशश्च यशश्चैश्वर्यमुत्तमम् ॥
तत्त्वज्ञानं सुतृप्तीनां बीजं शङ्करपूजनात् ॥ १०१ ॥
स्वबुद्धिशुद्धिजननं कीर्त्तितं वह्निपूजनम् ॥
विधिसंस्कृतवह्नेस्तु पूजातो ज्ञानतो मृतिः ॥ १०२॥
दाता भोक्ता च भवति शङ्कराग्निनिषेवणात् ॥
हरिभक्तिप्रदं चैव परं दुर्गार्च्चनं शिवम् ॥ १०३ ॥
विपरीतं त्रिजगतामेतेषां पूजनं विना ॥
एवं क्रमो महादेव कल्पे कल्पेऽस्ति निश्चितम् ॥ १०४ ॥
एते शश्वद्विद्यमाना नित्याः सृष्टिपरायणाः ॥
आविर्भावतिरोभावौ चैतेषामीश्वरेच्छया ॥ ॥ १०५ ॥
इत्युक्त्वा श्रीहरिस्तत्र विरराम सभातले ॥
प्रहृष्टा देवता विप्राः पार्वत्या सह शङ्करः ॥ १०६ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे व्रताज्ञाग्रहणं नाम षष्ठोऽध्यायः ॥ ६ ॥