नारायण उवाच ॥
श्रुत्वा व्रतविधानं च दुर्गा संहृष्टमानसा ॥
सर्वं व्रतविधानं च सम्प्रष्टुमुपचक्रमे ॥ १ ॥
पार्वत्युवाच ॥
सर्वं व्रतविधानं मां वद वेदविदां वर ॥
हे नाथ करुणासिन्धो दीनबन्धो परात्पर ॥ २ ॥
कानि व्रतोपयुक्तानि द्रव्याणि च फलानि च ॥
सनियमं सभक्ष्यं च विधानं तत्फलं प्रभो॥३॥
देहि मह्यं विनीतायै नियुक्तं सत्पुरोहितम्॥
पुष्पोपहारान्विप्रांश्च द्रव्याहरणकिङ्करान् ॥ ४ ॥
अन्यानि चोपयुक्तानि मयाऽज्ञातानि यानि च ॥
सन्नियोजय तत्सर्वं स्त्रीणां स्वामी च सर्वदः ॥ ९ ॥
पिता कौमारकाले च सदा पालनकारकः ॥
भर्त्ता मध्ये सुतः शेषे त्रिधाऽवस्था सुयोषिताम् ॥६ ॥ .
तातोऽशोकः प्राणतुल्यां दत्त्वा सत्त्वामिने सुताम् ॥
स्वामी निर्वृतिमाप्नोति सन्न्यस्य स्वसुते प्रियाम् ॥ ७ ॥
बन्धुत्रययुता या स्त्री सा च भाग्यवती परा ॥
किञ्चिद्विहीना मध्या च सर्वहीनाऽधमा भुवि॥॥
एतेषां च समीपस्था प्रशंस्या सा जगत्त्रये॥
निन्दिताऽन्येषु सन्न्यस्ता सर्वमेतच्छ्रुतौ श्रुतम्॥९॥
सर्वात्मा भगवांस्त्वं च सर्वसाक्षी च सर्ववित्॥
देहि मह्यं पुत्रवरं स्वात्मनिर्वृतिहेतुकम्॥१०॥’
स्वात्मबोधानुमानेन महात्मनि निवेदितम्॥
सर्वान्तराभिप्रायज्ञं बोधज्ञं बोधयामि किम्॥११॥
इत्युक्त्वा पार्वती प्रीत्या पपात स्वामिनः पदे ॥
कृपासिन्धुश्च भगवान्प्रवक्तुमुपचक्रमे॥१२॥
श्रीमहादेव उवाच ॥
शृणु देवि प्रवक्ष्यामि विधानं नियमं फलम् ॥
फलानि चैव द्रव्याणि व्रतयोग्यानि यानि च ॥ १३ ॥
विप्राणां शतकं शुद्धं फलपुष्पोपहारकम् ॥
किङ्कराणां च शतकं द्रव्याहरणकारकम्॥१४॥
दासीनां शतकं लक्षं नियुक्तं च पुरोहितम् ॥
सर्वव्रतविधानज्ञं वेदवेदान्तपारगम् ॥ १५ ॥
प्रवरं हरिभक्तानां सर्वज्ञं ज्ञानिनां वरम्॥
सनत्कुमारं मत्तुल्यं गृहाण व्रतहेतवे॥१६॥
देवि शुद्धे च काले च परं नियमपूर्वकम्॥
माघशुक्लत्रयोदश्यां व्रतारम्भः शुभः प्रिये॥१७॥
गात्रं सुनिर्मलं कृत्वा शिरस्संस्कारपूर्वकम् ॥
उपोष्य पूर्वदिवसे वस्त्रं संशोध्य यत्नतः ॥ १८ ॥
अरुणोदयवेलायां तल्पादुत्थाय सुव्रती ॥
मुखप्रक्षालनं कृत्वा स्नात्वा वै निर्मले जले॥१९॥
आचम्य यत्नपूतो हि हरिस्मरणपूर्वकम् ॥
दत्त्वाऽर्घ्यं हरये भक्त्या गृहमागत्य सत्वरम्॥२०॥
धौते च वाससी धृत्वा ह्युपविश्यासने शुचौ॥
आचम्य तिलकं धृत्वा समाप्य स्वाह्निकं पुनः ॥२१॥
घटं संस्थाप्य विधिवत्स्वस्तिवाचनपूर्वकम् ॥
पुरोहितस्य वरणं पुरः कृत्वा प्रयत्नतः ॥२२॥
सङ्कल्पं वेदविहितं व्रतमेतत्समाचरेत् ॥
व्रते द्रव्याणि नित्यानि चोपचारास्तु षोडश॥२३॥
देयानि नित्यं देवेशि कृष्णाय परमात्मने ॥
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ॥२४॥
स्नानीयं मधुपर्कं च वस्त्राण्याभरणानि च ॥
सुगन्धि पुष्पधूपं च दीपनैवेद्यचन्दनम् ॥ २५ ॥
यज्ञसूत्रं च ताम्बूलं कर्पूरादिसुवासितम् ॥
द्रव्याण्येतानि पूजायाश्चाङ्गरूपाणि सुन्दरि ॥२६॥
देवि किञ्चिद्विहीनेन चाङ्गहानिः प्रजायते ॥
अङ्गहीनं च यत्कर्म्म चाङ्गहीनो यथा नरः ॥
अङ्गहीने च कार्य्ये च फलहानिः प्रजायते ॥ २७ ॥
अष्टोत्तरशतं पुष्पं पारिजातस्य विष्णवे ॥
देयं प्रतिदिनं दुर्गे स्वात्मनो रूपहेतवे ॥ २८ ॥
श्वेतचम्पकपुष्पाणां लक्षमक्षतमीप्सितम् ॥
प्रदेयं हरये भक्त्या वर्णसौन्दर्य्यहेतवे ॥ २९ ॥
सहस्रपत्रपद्मानामक्षतं लक्षकं तथा ॥
भक्त्या देयं च हरये मुखसौन्दर्य्यहेतवे ॥ ३० ॥
अमूल्यरत्नरचितं दर्पणानां सहस्रकम् ॥
देयं नारायणायैव नेत्रयोर्दीप्तिहेतवे ॥ ३१ ॥
नीलोत्पलानां लक्षं च देयं कृष्णाय भक्तितः ॥
व्रताङ्गभूतं देवेशि चक्षुषो रूपहेतवे ॥ ॥ ३२ ॥
हिमालयोद्भवं लक्षं रुचिरं श्वेतचामरम् ॥
प्रदेयं केशवायैव केशसौन्दर्य्यहेतवे ॥ ३३ ॥
अमूल्यरत्नरचितं पुटकानां सहस्रकम् ॥
प्रदेयं गोपिकेशाय नासासौन्दर्यहेतवे ॥ ३४ ॥
बन्धूकपुष्पलक्षं च देयं राधेश्वराय च ॥
सौम्यौष्ठाधरयोश्चैव वर्णसौन्दर्यहेतवे ॥ ३५ ॥
मुक्ताफलानां लक्षं च दन्तसौन्दर्यहेतवे ॥
देयं गोलोकनाथाय शैलजे भक्तिपूर्वकम् ॥ ३६ ॥
रत्नगण्डूषलक्षं च गण्डसौन्दर्य्यहेतवे ॥
महेश्वराय दातव्यं व्रते शैलेन्द्रकन्यके ॥ ३७ ॥
रत्नपाशकलक्षं च देयं ब्रह्मेश्वराय च ॥
ओष्ठाधः स्थलरूपाय व्रती प्राणेशि भक्तितः ॥ ३८ ॥
कर्णभूषणलक्षं च रत्नसारविनिर्म्मितम् ॥
देयं सर्वेश्वरायैव कर्णसौन्दर्य्यहेतवे ॥३९॥
माध्वीककलशानां च लक्षं रत्नविनिर्म्मितम् ॥
देयं विश्वेश्वरायैव स्वरसौन्दर्य्यहेतवे ॥४०॥
सुधापूर्णं च कुम्भानां सहस्रं रत्ननिर्म्मितम् ॥
देयं कृष्णाय देवेशि वाक्यसौन्दर्य्यहेतवे ॥ ४१ ॥
रत्नप्रदीपलक्षं च गोपवेषविधायिने ॥
देयं किशोरवेषाय दृष्टिसौन्दर्य्य हेतवे ॥ ४२ ॥
धत्तूरकुसुमाकारं रत्नपात्रसहस्रकम् ॥
देयं गोरक्षकायैव बलसौन्दर्य्यहेतवे ॥ ४३ ॥
सद्रत्नसाररचितं पद्मनालसहस्रकम् ॥
देयं चण्डकपालाय बाहुसौन्दर्य्यहेतवे ॥ ४४ ॥
लक्षं च रक्तपद्मानां करसौन्दर्यहेतवे॥
देयं गोपाङ्गनेशाय नारायणि हरिव्रते ॥ ४५ ॥
अङ्गुलीयकलक्षं च रत्नसारविनिर्म्मितम् ॥
अङ्गुलीनां च रूपार्थं देयं देवेश्वराय च ॥ ४६ ॥
मणीन्द्रसारलक्षं च श्वेतवर्णं मनोहरम् ॥
देयं मुनीन्द्रनाथाय नखसौन्दर्य्यहेतवे ॥ ४७ ॥
सद्रत्नसारहाराणां लक्षं चातिमनोहरम् ॥
देयं मदनमोहाय वक्षःसौन्दर्य्यहेतवे ॥ ४८ ॥
सुपक्वश्रीफलानां च लक्षं च सुमनोहरम् ॥
देयं सिद्धेन्द्रनाथाय स्तनसौन्दर्य्यहेतवे ॥ ४९ ॥
सद्रत्नवर्तुलाकारपत्रलशं मनोहरम् ॥
देयं पद्मालयेशाय देहसौन्दर्य्यहेतवे ॥ ५० ॥
सद्रत्नसाररचितं नाभीनां च सहस्रकम् ॥
प्रदेयं पद्मनाभाय नाभिसौन्दर्य्यहेतवे ॥ ५१ ॥
सद्रत्नसाररचितं रथचक्रसहस्रकम् ॥
नितम्बसौन्दर्य्यार्थं च देयं वै चक्रपाणये ॥ ५२ ॥
सुवर्णरम्भास्तम्भानां लक्षं च सुमनोहरम् ॥
प्रदेयं श्रीनिवासाय श्रोणिसौन्दर्य्यहेतवे ॥ ५३ ॥
शतपत्रस्थलाब्जानां लक्षमम्लानमक्षतम् ॥
प्रदेयं पद्मनेत्राय पादसौन्दर्य्यहेतवे ॥ ९४ ॥
सुवर्णरचितानां च खञ्जनानां सहस्रकम् ॥
गतिसौन्दर्य्यहेत्वर्थं देयं लक्ष्मीश्वराय च ॥ ५५ ॥
राजहंससहस्रं च गजेन्द्राणां सहस्रकम् ॥
सुवर्णरचितं देयं हरये गतिहेतवे ॥ ॥ ५६ ॥
सुवर्णच्छत्रलक्षं च देयं नारायणाय च ॥
विचित्रं रत्नसारेण मूर्द्धसौन्दर्य्यहेतवे ॥ ५७ ॥
मालतीनां च कुसुममक्षतं लक्षमीश्वरि ॥
देयं वृन्दावनेशाय हास्यसौन्दर्य्यहेतवे ॥ ५८ ॥
अमूल्यरत्नलक्षं च देयं नारायणाय वै ॥
सुव्रते व्रतपूर्णार्थं शीलसौन्दर्य्यहेतवे ॥ ५९ ॥
स्वच्छस्फटिकसङ्काशं मणीन्द्रश्रेष्ठलक्षकम् ॥
देयं मुनीन्द्रनाथाय मनस्सौन्दर्य्यहेतवे ॥ ६० ॥
प्रवालसारसङ्काशं मणिसारसहस्रकम् ॥
देयं कृष्णाय भक्त्या च प्रियारागविवृद्धये ॥ ६१ ॥
माणिक्यसारलक्षं च देयं कृष्णाय यत्नतः ॥
जन्मनः कोटिपर्य्यन्तं स्वामिसौभाग्यहेतवे ॥ ६२ ॥
कूष्माण्डं नारिकेलं च जम्बीरं श्रीफलं तथा ॥
फलान्येतानि देयानि हरये पुत्रहेतवे ॥ ६३ ॥
रत्नेन्द्रसारलक्षं च देयं कृष्णाय यत्नतः ॥
असङ्ख्यजन्मपर्य्यन्तं स्वामिनो धनवृद्धये ॥ ६४ ॥
वाद्यं नानाप्रकारं च कांस्यतालादिकं परम् ॥
व्रते सम्पत्तिवृद्ध्यर्थ श्रीहरिं श्रावयेद्व्रती ॥६५॥
पायसं पिष्टकं सर्पिः शर्कराक्तं मनोहरम् ॥
प्रदेयं हरये भक्त्या स्वामिनो भोगवृद्धये ॥ ६६ ॥
सुगन्धिपुष्पमालानां लक्षमक्षतमीप्सितम् ॥
प्रदेयं हरये भक्त्या हरिभक्तिविवृद्धये ॥ ६७ ॥
नैवेद्यानि च देयानि स्वादूनि मधुराणि च ॥
श्रीकृष्णप्रीतिप्राप्त्यर्थं दुर्गे नानाविधानि च ॥ ६८ ॥
नानाविधानि पुष्पाणि तुलसीसंयुतानि च ॥
श्रीकृष्णप्रीतये भक्त्या व्रते देयानि सुव्रते ॥ ६९ ॥
ब्राह्मणानां सहस्रं च प्रत्यहं भोजयेद्व्रती ॥
स्वात्मनः सस्यवृद्ध्यर्थं व्रते जन्मनि जन्मनि ॥ ७० ॥
पुष्पाञ्जलिशतं देयं नित्यं पूर्णं च पूजने ॥
प्रणामशतकं देवि कर्तव्यं भक्तिवृद्धये ॥ ७१ ॥
षण्मासांश्च हविष्यान्नं मासान्पञ्च फलादिकम् ॥
हविः पक्षं जलं पक्षं व्रते भक्षेच्च सुव्रते ॥ ७२ ॥
रत्नप्रदीपशतकं वह्निं दद्याद्दिवानिशम् ॥
रात्रौ कुशासनं कृत्वा नित्यं जागरणं व्रते ॥ ७३ ॥
स्मरणं कीर्त्ततं केलिः प्रेक्षणं गुह्यभाषणम् ॥
सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरित्यपि ॥ ७४ ॥
स्वप्नमैथुनकं त्याज्यं व्रतिना व्रतशुद्धये ॥
सम्पूर्णे च व्रते देवि प्रतिष्ठा तदनन्तरम् ॥ ७५ ॥
त्रिशतं वै षष्ट्यधिकं रल्लकं वस्त्रसंयुतम् ॥
सभोज्यं सोपवीतं च सोपहारं ददात्वयम् ॥ ७६ ॥
त्रिशतं वै षष्ट्यधिकसहस्रं विप्रभोजनम् ॥
त्रिशतं वै षष्ट्यधिकं सहस्रं तिलहोमकम् ॥ ७७ ॥
त्रिशतं वै षष्ट्यधिकं सहस्रं स्वर्णमेव च ॥
देया व्रतसमाप्तौ च दक्षिणा विधिबोधिता ॥ ७८ ॥
अन्यां समाप्तिदिवसे कथयिष्यामि दक्षिणाम् ॥
एतद्व्रतफलं देवि दृढा भक्तिर्हरौ भवेत् ॥ ७९ ॥
हरितुल्यो भवेत्पुत्रो विख्यातो भुवनत्रये ॥
सौन्दर्यं स्वामिसौभाग्यमैश्वर्य्यं विपुलं धनम् ॥ ८० ॥
सर्ववाञ्छितसिद्धीनां बीजं जन्मनि जन्मनि ॥
इत्येवं कथितं देवि व्रतं कुरु महेश्वरि ॥ ८१ ॥
पुत्रस्ते भविता साध्वीत्युक्त्वा स विरराम ह ॥ ८२ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे पुण्यक व्रतविधानं नाम चतुर्थोऽध्यायः ॥ ४ ॥