श्रीमहादेव उवाच ॥
शृणु पार्वति वक्ष्यामि तव भद्रं भविष्यति ॥
उपायतः कार्य्यसिद्धिर्भवत्येव जगत्त्रये ॥ १ ॥
सर्ववाञ्छितसिद्धेस्तु बीजरूपं सुमङ्गलम् ॥
मनसः प्रीतिजनकमुपायं कथयामि ते ॥२॥
हरेराराधनं कृत्वा व्रतं कुरु वरानने ॥
व्रतं च पुण्यकं नाम वर्षमेकं करिष्यसि॥३॥
महाकठोरबीजं च वाञ्छाकल्पतरुं परम् ॥
सुखदं पुण्यदं सारं पुत्रदं सर्वसौख्यदम् ॥४॥
नदीनां च यथा गङ्गा देवानां च हरिर्यथा ॥
वैष्णवानां यथाहं च देवीनां त्वं यथा प्रिये ॥५॥
वर्णानां च यथा विप्रस्तीर्थानां पुष्करं यथा ॥
पुष्पाणां पारिजातं च पत्राणां तुलसी यथा ॥ ६ ॥
यथा पुण्यप्रदानां च तिथिरेकादशी स्मृता॥
रविवारश्च वाराणां यथा पुण्यप्रदः शिवे ॥
मासानां मार्गशीर्षश्चाप्यृतूनां माधवो यथा ॥ ७ ॥
संवत्सरो वत्सराणां युगानां च कृतं यथा ॥
विद्याप्रदश्च पूज्यानां गुरूणां जननी यथा ॥
साध्वी पत्नी यथाप्तानां विश्वस्तानां मनो यथा ॥ ८ ॥
यथा धनानां रत्नं च प्रियाणां च यथा पतिः ॥
यथा पुत्रश्च बन्धूनां वृक्षाणां कल्पपादपः ॥९॥
फलानां वै चूतफलं वर्षाणां भारतं तथा॥
वृन्दावनं वनानां च शतरूपा च योषिताम् ॥ १० ॥
यथा काशी पुरीणां च सूर्य्यस्तेजस्विनां यथा ॥
यथेन्दुः सुखदानां च सुन्दराणां च मन्मथः ॥ ११ ॥
शास्त्राणां च यथा वेदाः सिद्धानां कपिलो यथा ॥
हनूमान्वानराणां च क्षेत्राणां ब्राह्मणाननम् ॥ १२ ॥
यशोदानां यथा विद्या कविता च मनोहरा ॥
आकाशो व्यापकानां च ह्यङ्गानां लोचनं यथा ॥ १३ ॥
विभवानां हरिकथा सुखानां हरिचिन्तनम् ॥
स्पर्शानां पुत्रसंस्पर्शो हिंस्राणां च यथा खलः ॥१४॥
पापानां च यथा मिथ्या पापिनां पुंश्चली यथा ॥
पुण्यानां च यथा सत्यं तपसां हरिसेवनम् ॥ १५ ॥
यथा घृतं च गव्यानां यथा ब्रह्मा तपस्विनाम्॥
अमृतं भक्ष्यवस्तूनां सस्यानां धान्यकं यथा ॥ १६ ॥
पुण्यदानां यथा तोयं शुद्धानां च हुताशनः ॥
सुवर्णं तैजसानां च मिष्टानां प्रियभाषणम् ॥ १७ ॥
गरुडः पक्षिणां चैव हस्तिनामिन्द्रवाहनम् ॥
योगिनां च कुमारश्च देवर्षीणां च नारदः ॥ १८ ॥
गन्धर्वाणां चित्ररथो जीवो बुद्धिमतां यथा ॥
सुकवीनां यथा शुक्रः काव्यानां च पुराणकम् ॥ १९ ॥
स्रोतस्वतां समुद्रश्च यथा पृथ्वी क्षमावताम् ॥
लाभानां च यथा मुक्तिर्हरिभक्तिश्च सम्पदाम् ॥ २० ॥
पवित्राणां वैष्णवाश्च वर्णानां प्रणवो यथा ॥
विष्णुमन्त्रश्च मन्त्राणां बीजानां प्रकृतिर्यथा ॥ २१ ॥
विदुषां च यथा वाणी गायत्री छन्दसां यथा ॥
यथा कुबेरो यक्षाणां सर्पाणां वासुकिर्यथा ॥ २२ ॥
यथा पिता ते शैलानां गवां च सुरभिर्यथा ॥
वेदानां सामवेदश्च तृणानां च यथा कुशः ॥ २३ ॥
सुखदानां यथा लक्ष्मीर्मनो वै शीघ्रगामिनाम् ॥
अक्षराणामकारश्च यथा तातो हितैषिणाम् ॥ २४ ॥
शालग्रामश्च मूर्तीनां पर्शूनां विष्णुपञ्जरः ॥
चतुष्पदानां पञ्चास्यो मानवो जीविनां यथा ॥ २५ ॥
यथा स्वान्तं चेन्द्रियाणां मन्दाग्निश्च रुजां यथा ॥
बलिनां च यथा शक्तिरहं शक्तिमतां तथा ॥ २६ ॥
महान्विराट् च स्थूलानां सूक्ष्माणां परमाणुकः ॥
यथेन्द्र आदितेयानां दैत्यानां च बलिर्यथा ॥ २७ ॥
यथा दधीचिर्दातॄणां प्रह्रादश्चैव साधुषु ॥
ब्रह्मास्त्रं च यथाऽस्त्राणां चक्राणां च सुदर्शनम् ॥ २८॥
नृणां राजा रामचन्द्रो धन्विनां लक्ष्मणो यथा ॥
सर्वाधारः सर्वसेव्यः सर्वबीजं च सर्वदः॥
सर्वसारो यथा कृष्णो व्रतानां पुण्यकं यथा॥२९॥
व्रतं कुरु महाभागे त्रिषु लोकेषु दुर्लभम् ॥
सर्वश्रेष्ठश्च पुत्रस्ते व्रतादेव भविष्यति ॥ ३० ॥
व्रताराध्यश्च वै कृष्णः सर्वेषां वाञ्छितप्रदः ॥
जनो यत्सेवनान्मुक्तः पितृभिः कोटिभिः सह॥ ॥ ३१ ॥
हरिमन्त्रं गृहीत्वा च हरिसेवां करोति यः ॥
भारते जन्म सफलं स्वात्मनः स करोति च ॥ ३२ ॥
उद्धृत्य कोटिपुरुषान्वैकुण्ठं याति निश्चितम् ॥
श्रीकृष्णपार्षदो भूत्वा सुखं तत्रैव मोदते ॥ ३३ ॥
सहोदरान्स्वभृत्यांश्च स्वबन्धून्सहचारिणः ॥
स्वस्त्रियश्च समुद्धृत्य भक्तो याति हरेः पदम् ॥ ३४ ॥ ’
तस्माद्गृहाण गिरिजे हरेर्म्मन्त्रं सुदुर्लभम् ॥
जप मन्त्रं व्रते तत्र पितॄणां मुक्तिकारणम्॥ ॥ ३५ ॥
इत्युक्त्वा शङ्करो देवो गत्वा गिरिजया सह ॥
शीघ्रं च जाह्नवीतीरं हरेर्म्मन्त्रं मनोहरम् ॥ ३६ ॥
तस्यै ददौ च सम्प्रीत्या कवचं स्तोत्रसंयुतम् ॥
पूजाविधाननियमं कथयामास तां मुने ॥ ३७ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे तृतीयोऽध्यायः ॥ ३ ॥