००२

नारायण उवाच ॥
त्यक्त्वा रतिं महादेवो ददर्श पुरतः सुरान् ॥
पलायध्वमिति प्राह कृपया पार्वतीभयात्॥ ॥ १ ॥
देवाः पलायिता भीताः पार्वतीशापहेतुना ॥
सर्वब्रह्माण्डसंहर्त्ता चकम्पे पार्वतीभयात् ॥ २ ॥
तल्पादुत्थाय सा दुर्गा न च दृष्ट्वा पुरस्सुरान् ॥
समुत्थितं कोपवह्निं स्तम्भयामास देहतः ॥ ३ ॥
अद्यप्रभृति ते देवा व्यर्थवीर्य्या भवन्त्विति ॥
शशाप देवी तान्देवानतिरुष्टा बभूव ह ॥ ४ ॥
ततः शिवः शिवां दृष्ट्वा क्रोधसंरक्तलोचनाम् ॥
रुदन्तीं नम्रवदनां लिखन्तीं धरणीतलम् ॥ ५ ॥
शिवस्तां दुःखितां दृष्ट्वा क्रोधसंरक्तलोचनाम् ॥
हस्ते गृहीत्वा देवेशो वासयामास वक्षसि ॥ ६ ॥
अतीव भीतः सन्त्रस्त उवाच मधुरं वचः ॥
शङ्कर उवाच ॥
कथं रुष्टा गिरिश्रेष्ठकन्ये धन्ये मनोहरे॥७॥
मम सौभाग्यरूपे च प्राणाधिष्ठातृदेवते ॥
किं ते ऽभीष्टं करिष्यामि वद मां जगदम्बिके ॥८॥
ब्रह्माण्डसङ्घे निखिले किमसाध्यमिहावयोः ॥
अहो निरपराधं मां प्रसन्ना भव सुन्दरि॥ ॥ ९ ॥
दैवादज्ञातदोषस्य शान्तिं मे कर्त्तुमर्हसि ॥
त्वया युक्तः शिवोऽहं च सर्वषां शिवदायकः ॥ १० ॥
त्वया विना हीश्वरश्च शवतुल्योऽशिवः सदा ॥
प्रकृतिस्त्वं च बुद्धिस्त्वं शक्तिस्त्वं च क्षमा दया ॥ ११ ॥
तुष्टिस्त्वं च तथा पुष्टिः शान्तिस्त्वं क्षान्तिरेव च ॥
क्षुत्त्वं छाया तथा निद्रा तन्द्रा श्रद्धा सुरेश्वरि ॥ १२॥
सर्वाधारस्वरूपा त्वं सर्वबीजस्वरूपिणी ॥
स्मितपूर्वं वद वचः साम्प्रतं सरसं शिवे ॥ १३ ॥
त्वत्कोपविषसन्दग्धं द्रुतं जीवय मां मृतम् ॥ १४ ॥
शङ्करस्य वचः श्रुत्वा क्षमायुक्ता च पार्वती ॥
उवाच मधुरं देवी हृदयेन विदूयता ॥ १५ ॥
पार्वत्युवाच ॥
किं त्वाऽहं कथयिष्यामि सर्वज्ञं सर्वरूपिणम् ॥
आत्मारामं पूर्णकामं सर्वदेहेष्ववस्थितम् ॥ १६ ॥
कामिनी मानसं काममप्रज्ञं स्वामिनं वदेत् ॥
सर्वेषां हृदयज्ञं च हृदीष्टं कथयामि किम् ॥ १७ ॥
सुगोप्यं सर्वनारीणां लज्जाजननकारणम् ॥
अकथ्यमपि सर्वासां महेश कथयामि ते॥ १८ ॥
सुखेषु मध्ये स्त्रीणां च विभवेषु सुरेश्वर ॥
सत्पुंसा सह सम्भोगो निर्जनेषु परं सुखम् ॥ १९ ॥
तद्भङ्गेन च यद्दुःखं तत्समं नास्ति च स्त्रियाः ॥
कान्तानां कान्तविच्छेदशोकः परमदारुणः ॥ २० ॥
कृष्णपक्षे यथा चन्द्रः क्षीयमाणो दिने दिने ॥
तथा कान्तं विना कान्ता क्षीणा कान्त क्षणे क्षणे ॥ २१ ॥
चिन्ताज्वरश्च सर्वेषामुपतापश्च वाससाम् ॥
साध्वीनां कान्तविच्छेदस्तुरगानां च मैथुनम् ॥ २२ ॥
रतिभङ्गो दुःखमेकं द्वितीयं वीर्य्यपातनम् ॥
दुःखातिरेकि दुःखं च तृतीयमनपत्यता ॥ २३ ॥
त्रैलोक्यकान्तं कान्तं त्वां लब्ध्वाऽपि न च मे सुतः ॥
या स्त्री पुत्रविहीना च जीवनं तन्निरर्थकम् ॥ २४ ॥
जन्मान्तरसुखं पुण्यं तपोदानसमुद्भवम् ॥
सद्वंशजातपुत्रश्च परत्रेह सुखप्रदः ॥ २५ ॥
सुपुत्रः स्वामिनोंऽशश्च स्वामितुल्यसुखप्रदः ॥
कुपुत्रश्च कुलाङ्गारो मनस्तापाय केवलम् ॥ २६ ॥
स्वामी स्वांशेन सुस्त्रीणां गर्भे जन्म लभेद्ध्रुवम् ॥
साध्वीस्त्री मातृतुल्या च सततं हितकारिणी ॥ २७ ॥
असाध्वी वैरितुल्या च शश्वत्सन्तापदायिनी ॥
मुखदुष्टा योनिदुष्टा चासाध्वीति त्रिधा स्मृता ॥ २८ ॥
किमुपायं करिष्यामि वद योगीश्वरेश्वर ॥
उपायसिन्धो तपसां सर्वेषां च फलप्रद ॥ २९ ॥
इत्युक्त्वा पार्वती देवी नम्रवक्त्रा बभूव ह ॥
प्रहस्य शङ्करो देवो बोधयामास पार्वतीम् ॥ ३० ॥
सत्पुत्रबीजं सुखदं तापनाशनकारणम् ॥
मितं स्निग्धं सुरुचिरं प्रवक्तुमुपचक्रमे ॥ ३१ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारद नारायणसंवादे द्वितीयोऽध्यायः ॥ २ ॥