००१

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥
नारद उवाच ॥
श्रुतं प्रकृति खण्डं तदमृतार्णवमुत्तमम् ॥
सर्वोत्कृष्टमभीष्टं च मूढानां ज्ञानवर्दनम् ॥ २ ॥
अधुना श्रीगणेशस्य खण्डं श्रोतुमिहागतः ॥
तज्जन्म चरितं नॄणां सर्वमङ्गलमङ्गलम् ॥ ३ ॥
कथं जज्ञे सुरश्रेष्ठः पार्वत्या उदरे शुभे ॥
देवी केन प्रकारेण चालभत्तादृशं सुतम्॥ ॥ ४ ॥
स चांशः कस्य देवस्य कथं जन्म ललाभ सः ॥
अयोनिसम्भवः किं वा किं वाऽसौ योनिसम्भवः ॥ ५ ॥
किं वा तद्ब्रह्मतेजो वा किं तस्य च पराक्रमः ॥
का तपस्या च कि ज्ञानं किं वा तन्निर्म्मलं यशः ॥ ६ ॥
कथं तस्य पुरःपूजा विश्वेषु निखिलेषु च ॥
स्थिते नारायणे शम्भौ जगदीशे च धातरि ॥ ७ ॥
पुराणेषु निगूढं च तज्जन्म परिकीर्त्तितम् ॥
कथं वा गजवक्त्रोऽयमेकदन्तो महोदरः ॥८॥
एतत्सर्वं समाचक्ष्व श्रोतुं कौतूहलं मम ॥
सुविस्तीर्णं महाभाग तदतीव मनोहरम् ॥९॥
श्रीनारायण उवाच ॥
शृणु नारद वक्ष्यामि रहस्यं परमाद्भुतम् ॥
पापसन्तापहरणं सर्वविघ्नविनाशनम् ॥ १० ॥
सर्वमङ्गलदं सारं सर्वश्रुतिमनोहरम् ॥
सुखदं मोक्षबीजं च पापमूलनिकृन्तनम् ॥ ११ ॥
दैत्यार्दितानां देवानां तेजोराशिसमुद्भवा ॥
देवी संहृत्य दैत्यौघान्दक्षकन्या बभूव ह ॥ १२ ॥
सा च नाम्ना सती देवी स्वामिनो निन्दया पुरा ॥
देहं सन्त्यज्य योगेन जाता शैलप्रियोदरे ॥ १३ ॥
शङ्कराय ददौ तां च पार्वतीं पर्वतो मुदा ॥
तां गृहीत्वा महादेवो जगाम विजनं वनम् ॥१४॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ॥
स रेमे नर्मदातीरे पुष्पोद्याने तया सह ॥१५॥
सहस्रवर्षपर्य्यन्तं दैवमानेन नारद ॥
तयोर्बभूव शृङ्गारो विपरीतादिको महान् ॥ ॥ १६ ॥
दुर्गाङ्गस्पर्शमात्रेण मदनान्मूर्च्छितः शिवः ॥
मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम् ॥ १७ ॥
हंसकारण्डवाकीर्णे पुंस्कोकिलरुताकुले ॥
नानापुष्पविकासाढ्ये भ्रमरध्वनिगुञ्जिते ॥ १८ ॥
सुगन्धिकुसुमाश्लेषिवायुना सुरभीकृते ॥
अतीव सुखदे तत्र सर्वजन्तुविवर्जिते ॥ १९ ॥
दृष्ट्वा तयोस्तच्छृङ्गारं चिन्तां प्रापुः सुराः पराम् ॥
ब्रह्माणं च पुरस्कृत्य ययुर्नारायणान्तिकम् ॥ ॥ २० ॥
तं नत्वा कथयामास ब्रह्मा वृत्तान्तमीप्सितम् ॥
सन्तस्थुर्देवताः सर्वाश्चित्रपुत्तलिका यथा ॥ २१ ॥
ब्रह्मोवाच ॥
सहस्रवर्षपर्य्यन्तं देवमानेन शङ्करः ॥
रतौ रतश्च निश्चेष्टो न योगी विरराम ह ॥ २२ ॥
मैथुनस्य विरामे च दम्पत्योर्जगदीश्वर ॥
किम्भूतं भविताऽपत्यं तथ्यं कथितुमर्हसि ॥ २३ ॥
श्रीभगवानुवाच ॥
चिन्ता नास्ति जगद्धातः सर्व भद्रं भविष्यति॥
मयि ये शरणापन्नास्तेषां दुखं कुतो विधे ॥ २४ ॥
येनोपायेन तद्वीर्यं भूमौ पतति निश्चितम् ॥
तत्कुरुष्व प्रयत्नेन सार्द्धं देवगणेन च ॥२५॥
यदा च शम्भोर्वीर्य्यं तत्पार्वत्या उदरे पतेत् ॥
ततोऽपत्यं च भविता सुरासुरविमर्दकम् ॥२६॥
ततः शक्रादयः सर्वे सुरा नारायणाज्ञया ॥
प्रययुर्नर्म्मदातीरं ययौ ब्रह्मा निजालयम् ॥ २७ ॥
तत्रैव पर्वतद्रोणीबहिर्देशे सुराः पराः ॥
विषण्णवदनाः सर्वे बभूवुर्भयकातराः ॥ २८ ॥
शक्रो राजा कुबेरं च कुबेरो वरुणं तथा ॥
समीरणं च वरुणो यमं चैव समीरणः ॥ २९ ॥
हुताशनं यमश्चैव भास्करं च हुताशनः ॥
चन्द्रं तथा भास्करश्च त्वीशानं चन्द्र एव च ॥ ३० ॥
एवं देवाः प्रेरयन्ति देवांश्च रतिभञ्जने ॥
हरशृङ्गार भङ्गं च कुर्वित्युक्त्वा परस्परम् ॥ ३१ ॥
द्वारि स्थितो वक्रशिराः शक्रः प्राह महेश्वरम् ॥ ३२ ॥
इन्द्र उवाच ॥
किं करोषि महादेव योगीश्वर नमोऽस्तु ते ॥
जगदीश जगद्बीज भक्तानां भयभञ्जन ॥ ३३ ॥
हरिर्जगामेत्युक्त्वा तमाजगाम च भास्करः ॥
उवाच भीतो द्वारस्थो भयार्त्तो वक्रचक्षुषा ॥३४॥
श्रीसूर्य्य उवाच ॥
किं करोषि महादेव जगतां परिपालक ॥
सुरश्रेष्ठ महाभाग पार्वतीश नमोऽस्तु ते ॥ ३५ ॥
इत्येवमुक्त्वा श्रीसूर्य्यः स जगाम भयात्ततः ॥
आजगाम तथा चन्द्र अवोचद्वक्रकन्धरः ॥ ३६ ॥
चन्द्र उवाच ॥
किं करोषि त्रिलोकेश त्रिलोचन नमोऽस्तु ते ॥
आत्माराम स्वयम्पूर्ण पुण्यश्रवणकीर्त्तन ॥ ३७ ॥
इत्येवमुक्त्वा भीतश्च विरराम निशापतिः ॥
समीरणोऽपि द्वारस्थस्संवीक्ष्योवाच सादरम् ४। ३८ ॥
पवन उवाच ॥
किं करोषि जगन्नाथ जगद्बन्धो नमो ऽस्तु ते ॥
धर्मार्थकाममोक्षाणां बीजरूप सनातन ॥३९॥
इत्येवं स्तवनं श्रुत्वा योगज्ञानविशारदः ॥
त्यक्तुकामो न तत्याज शृङ्गारं पार्वती भयात् ॥ ४० ॥
दृष्ट्वा सुरान्भयार्त्तश्च पुनः स्तोतुं समुद्यतान्॥
विजहौ सुखसम्भोगं कण्ठलग्नां च पार्वतीम् ॥ ४१ ॥
उत्तिष्ठतो महेशस्य त्रासलज्जायुतस्य च ॥
भूमौ पपात तद्वीर्य्यं ततः स्कन्दो बभूव ह ॥ ४२ ॥
पश्चात्तां कथयिष्यामि कथामतिमनोहराम् ॥
स्कन्दजन्मप्रसङ्गे च साम्प्रतं वाञ्छितं शृणु ॥ ४३ ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे प्रथमोऽध्यायः ॥ १ ॥